Kanda 4 KSK-026-Angada Youvarajyabhishekaha

ततः शोकाभिसन्तप्तं सुग्रीवं क्लिन्नवाससम्

शाखामृगमहामात्राः परिवार्योपतस्थिरे

अभिगम्य महाबाहुं राममक्लिष्टकारिणम्

स्थिताः प्राञ्जलयः सर्वे पितामहमिवर्षयः

ततः काञ्चनशैलाभस्तरुणार्कनिभाननः

अब्रवीत्प्राञ्जलिर्वाक्यं हनुमान्मारुतात्मजः

भवत्प्रसादात्सुग्रीवः पितृपैतामहं महत्

वानराणां सुदुष्प्रापं प्राप्तो राज्यमिदं प्रभो

भवता समनुज्ञातः प्रविश्य नगरं शुभम्

संविधास्यति कार्याणि सर्वाणि ससुहृज्जनः

स्नातोऽयं विविधैर्गन्धैरौषधैश्च यथाविधि

अर्चयिष्यति रत्नैश्च माल्यैश्च त्वां विशेषतः

इमां गिरिगुहां रम्यामभिगन्तुमितोऽर्हसि

कुरुष्व स्वामिसम्बन्धं वानरान् सम्प्रहर्षयन्

एवमुक्तो हनुमता राघवः परवीरहा

प्रत्युवाच हनूमन्तं बुद्धिमान्वाक्यकोविदः

चतुर्दश समाः सौम्य ग्रामं वा यदि वा पुरम्

प्रवेक्ष्यामि हनुमन् पितुर्निर्देशपालकः

सुसमृद्धां गुहां रम्यां सुग्रीवो वानरर्षभः

प्रविष्टो विधिवद्वीरः क्षिप्रं राज्येऽभिषिच्यताम्

एवमुक्त्वा हनूमन्तं रामः सुग्रीवमब्रवीत्

वृत्तज्ञो वृत्तसम्पन्नमुदारबलविक्रमम्

ज्येष्ठस्य सुतो ज्येष्ठः सदृशो विक्रमेण ते

अङ्गदोऽयमदीनात्मा यौवराज्यस्य भाजनम्

पूर्वोऽयं वार्षिको मासः श्रावणः सलिलागमः

प्रवृत्ताः सौम्य चत्वारो मासा वार्षिकसञ्ज्ञकाः

नायमुद्योगसमयः प्रविश त्वं पुरीं शुभाम्

अस्मिन्वत्स्याम्यहं सौम्य पर्वते सहलक्ष्मणः

इयं गिरिगुहा रम्या विशाला युक्तमारुता

प्रभूतसलिला सौम्य प्रभूतकमलोत्पला

कार्तिके समनुप्राप्ते त्वं रावणवधे यत

एष नः समयः सौम्य प्रविश त्वं स्वमालयम्

अभिषिक्तः स्वराज्ये सुहृदः सम्प्रहर्षय

इति रामाभ्यनुज्ञातः सुग्रीवो वानराधिपः

प्रविवेश पुरीं रम्यां किष्कन्धां वालिपालिताम्

तं वानरसहस्राणि प्रविष्टं वानरेश्वरम्

अभिवाद्य प्रविष्टानि सर्वतः पर्यवारयन्

ततः प्रकृतयः सर्वा दृष्ट्वा हरिगणेश्वरम्

प्रणम्य मूर्ध्ना पतिता वसुधायां समाहिताः

सुग्रीवः प्रकृतीः सर्वाः सम्भाष्योत्थाप्य वीर्यवान्

भ्रातुरन्तःपुरं सौम्यं प्रविवेश महाबलः

प्रविश्य त्वभिनिष्क्रान्तं सुग्रीवं प्लवगेश्वरम्

अभ्यषिञ्चन्त सुहृदः सहस्राक्षमिवामराः

तस्य पाण्डुरमाजह्रुश्छत्त्रं हेमपरिष्कृतम्

शुक्ले वालव्यजने हेमदण्डे यशस्करे

तथा सर्वाणि रत्नानि सर्वबीजौषधैरपि

सक्षीराणां वृक्षाणां प्ररोहान् कुसुमानि

शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम्

सुगन्धीनि माल्यानि स्थलजान्यम्बुजानि

अक्षतं जातरूपं प्रियङ्गुमधुसर्पिषी

दधि चर्म वैयाघ्रं वाराही चाप्युपानहौ

समालम्भनमादाय रोचनां समनः शिलाम्

आजग्मुस्तत्र मुदिता वराः कन्यास्तु षोडश

ततस्ते वानरश्रेष्ठं यथाकालं यथाविधि

रत्नैर्वस्त्रैश्च भक्षैश्च तोषयित्वा द्विजर्षभान्

ततः कुशपरिस्तीर्णं समिद्धं जातवेदसम्

मन्त्रपूतेन हविषा हुत्वा मन्त्रविदो जनाः

ततो हेमप्रतिष्ठाने वरास्तरणसंवृते

प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते

प्राङ्मुखं विविधैर्मन्त्रैः स्थापयित्वा वरासने

नदीनदेभ्यः संहृत्य तीर्थेभ्यश्च समन्ततः

आहृत्य समुद्रेभ्यः सर्वेभ्यो वानरर्षभाः

अपः कनककुम्भेषु निधाय विमलाः शुभाः

शुभैर्वृषभशृङ्गैश्च कलशैश्चापि काञ्चनैः

शास्त्रदृष्टेन विधिना महर्षिविहितेन

गजो गवाक्षो गवयः शरभो गन्धमादनः

मैन्दश्च द्विविदश्चैव हनुमान् जाम्बवान्नलः

अभ्यषिञ्चन्त सुग्रीवं प्रसन्नेन सुगन्धिना

सलिलेन सहस्राक्षं वसवो वासवं यथा

अभिषिक्ते तु सुग्रीवे सर्वे वानरपुङ्गवाः

प्रचुक्रुशुर्महात्मानो हृष्टास्तत्र सहस्रशः

रामस्य तु वचः कुर्वन् सुग्रीवो हरिपुङ्गवः

अङ्गदं सम्परिष्वज्य यौवराज्येऽभ्यषेचयत्

अङ्गदे चाभिषिक्ते तु सानुक्रोशाः प्लवङ्गमाः

साधु साध्विति सुग्रीवं महात्मानोऽभ्यपूजयन्

रामं चैव महात्मानं लक्ष्मणं पुनः पुनः

प्रीताश्च तुष्टुवुः सर्वे तादृशे तत्र वर्तति

हृष्टपुष्टजनाकीर्णा पताकाध्वजशोभिता

बभूव नगरी रम्या किष्किन्धा गिरिगह्वरे

निवेद्य रामाय तदा महात्मने महाभिषेकं कपिवाहिनीपतिः

रुमां भार्यां प्रतिलभ्य वीर्यवानवाप राज्यं त्रिदशाधिपो यथा