Kanda 4 KSK-025-Rama Santvanam

सुग्रीवं चैव तारां साङ्गदं सहलक्ष्मणः

समानशोकः काकुत्स्थः सान्त्वयन्निदमब्रवीत्

शोकपरितापेन श्रेयसा युज्यते मृतः

यदत्रानन्तरं कार्यं तत्समाधातुमर्हथ

लोकवृत्तमनुष्ठेयं कृतं वो बाष्पमोक्षणम्

कालादुत्तरं किञ्चित्कर्म शक्यमुपासितुम्

नियतिः कारणं लोके नियतिः कर्मसाधनम्

नियतिः सर्वभातानां नियोगेष्विह कारणम्

कर्ता कस्यचित्कश्चिन्नियोगे चापि नेश्वरः

स्वाभावे वर्तते लोकस्तस्य कालः परायणम्

कालः कालमत्येति कालः परिहीयते

स्वभावं समासाद्य कश्चिदतिवर्तते

कालस्यास्ति बन्धुत्वं हेतुर्न पराक्रमः

मित्रज्ञातिसम्बन्धः कारणं नात्मनो वशः

किन्तु कालपरीणामो द्रष्टव्यः साधु पश्यता

धर्मश्चार्थश्च कामश्च कालक्रमसमाहिताः

इतः स्वां प्रकृतिं वाली गतः प्राप्तः क्रियाफलम्

धर्मार्थकामसंयोगैः पवित्रं प्लवगेश्वरः

स्वधर्मस्य संयोगाज्जितस्तेन महात्मना

स्वर्गः परिगृहीतश्च प्राणानपरिरक्षता

एषा वै नियतिः श्रेष्ठा यां गतो हरियूथपः

तदलं परितापेन प्राप्तकालमुपास्यताम्

वचनान्ते तु रामस्य लक्ष्मणः परवीरहा

अवदत्प्रश्रितं वाक्यं सुग्रीवं गतचेतसम्

कुरु त्वमस्य सुग्रीव प्रेतकार्यमनन्तरम्

ताराङ्गदाभ्यां सहितो वालनो दहनं प्रति

समाज्ञापय काष्ठानि शुष्काणि बहूनि

चन्दनादीनि दिव्यानि वालिसंस्कारकारणात्

समाश्वासय चैनं त्वमङ्गदं दीनचेतसम्

अङ्गदस्त्वानयेन्माल्यं वस्त्राणि विविधानि

घृतं तैलमथो गन्धान्यच्चात्र समनन्तरम्

त्वं तार शिबिकां शीघ्रमादायागच्छ सम्भ्रमात्

त्वरा गुणवती युक्ता ह्यस्मिन्काले विशेषतः

सज्जीभवन्तु प्लवगाः शिबिकावहनोचिताः

समर्था बलिनश्चैव निर्हरिष्यन्ति वालिनम्

एवमुक्त्वा तु सुग्रीवं सुमित्रानन्दवर्द्धनः

तस्थौ भ्रातृसमीपस्थो लक्ष्मणः परवीरहा

लक्ष्मणस्य वचः श्रुत्वा तारः सम्भ्रान्तमानसः

प्रविवेश गुहां शीघ्रं शिबिकासक्तमानसः

आदाय शिबिकां तारः तु पर्यापतत्पुनः

वानरैरुह्यमानां तां शूरैरुद्वहनोचितैः

दिव्यां भद्रासनयुतां शिबिकां स्यन्दनोपमाम्

पक्षिकर्मभिराचित्रां द्रुमकर्मविभूषिताम्

आचितां चित्रपत्तीभिः सुनिविष्टां समन्ततः

विमानमिव सिद्धानां जालवातायनावृताम्

सुनियुक्तां विशालां सुकृतां विश्वकर्मणा

दारुपर्वतकोपेतां चारुकर्मपरिष्कृताम्

वराभरणहारैश्च चित्रमाल्योपशोभिताम्

पुष्पौघैः समभिच्छन्नां पद्ममालाभिरेव

तरुणादित्यवर्णाभिर्भ्राजमानाभिरावृताम्

ईदृशीं शिबीकां दृष्ट्वा रामो लक्ष्मणमब्रवीत्

क्षिप्रं विनीयतां वाली प्रेतकार्यं विधीयताम्

ततो वालिनमुद्यम्य सुग्रीवः शिबिकां तदा

आरोपयत विक्रोशन्नङ्गदेन सहैव तु

आरोप्य शिबिकां चैव वालिनं गतजीवितम्

अलङ्कारैश्च विविधैर्माल्यैर्वस्त्रैश्च भूषितम्

आज्ञापयत्तदा राजा सुग्रीवः प्लवगेश्वरः

और्ध्वदैहिकमार्यस्य क्रियतामनुरूपतः

विश्राणयन्तो रत्नानि विविधानि बहून्यापि

अग्रतः प्लवगाः यान्तु शिबिका समनन्तरम्

राज्ञामृद्धिविशेषा हि दृश्यन्ते भुवि यादृशाः

तादृशं वालिनः क्षिप्रं प्राकुर्वन्नौर्ध्वदैहिकम्

अङ्गदं परिगृह्याशु तारप्रभृतयस्तदा

क्रोशन्तः प्रययुः सर्वे वानरा हतबान्धवाः

ततः प्रणिहिताः सर्वा वानर्योऽस्य वशानुगाः

चुक्रुशुर्वीर वीरेति भूयः क्रोशन्ति ताः स्त्रियः

ताराप्रभृतयः सर्वा वानर्यो हतयूथपाः

अनुजग्मुर्हि भर्तारं क्रशन्त्यः करुणस्वनाः

तासां रुदितशब्देन वानरीणां वनान्तरे

वनानि गिरयः सर्वे विक्रोशन्तीव सर्वतः

पुलिने गिरिनद्यास्तु विविक्ते जलसंवृते

चितां चक्रुः सुबहवो वानराः शोककर्शिताः

अवरोप्य ततः स्कन्धाच्छिबिकां वहनोचिताः

तस्थुरेकान्तमाश्रित्य सर्वे शोकसमन्विताः

ततस्तारा पतिं दृष्टा शिबिकातलशायिनम्

आरोप्याङ्के शिरस्तस्य विललाप सुदुःखिता

हा महार्ह महाबाहो हा मम प्रिय पश्य माम्

जनं पश्यसीमं त्वं कस्माच्छोकाभिपीडितम्

प्रहृष्टमिव ते वक्त्रं गतासोरपि मानद

अस्तार्कसमवर्णं लक्ष्यते जीवतो यथा

एष त्वां रामरूपेण कालः कर्षति वानर

येन स्म विधवाः सर्वाः कृता एकेषुणा वने

पादैर्विकृष्टमध्वानमागताः किं बुध्यसे

तवेष्टा ननु नामैता भार्याश्चन्द्रनिभाननाः

इदानीं नेक्षसे कस्मात्सुग्रीवं प्लवगेश्वरम्

एते हि सचिवा राजन् तारप्रभृतयस्तव

विसर्जयैतान् प्लवगान् यथोचितमरिन्दम

ततः क्रीडामहे सर्वा वनेषु मदनोत्कटाः

एवं विलपतीं तारां पतिशोकपरिप्लुताम्

उत्थापयन्ति स्म तदा वानर्यः शोककर्शिताः

सुग्रीवेण ततः सार्धमङ्गदः पितरं रुदन्

चितामारोपयामास शोकेनाभिहतेन्द्रियः

ततोऽग्निं विधिवद्दत्त्वा सोऽपसव्यं चकार

पितरं दीर्घमध्वानं प्रस्थितं व्याकुलेन्द्रियः

संस्कृत्य वालिनं ते तु विधिपूर्वं प्लवङ्गमाः

आजग्मुरुदकं कर्तुं नदीं शीतजलां शिवाम्

ततस्ते सहितास्तत्र ह्यङ्गदं स्थाप्य चाग्रतः

सुग्रीवतारासहिताः सिषिचुर्वालिने जलम्

सुग्रीवेणैव दीनेन दीनो भूत्वा महाबलः

समानशोकः काकुत्स्थः प्रेतकार्याण्यकारयत्

ततस्तु तं वालिनमग्र्यपौरुषं प्रकाशमिक्ष्वाकुवरेषुणा हतम्

प्रदीप्य दीप्ताग्निसमौजसं तदा सलक्ष्मणं राममुपेयिवान् हरिः