Kanda 4 KSK-023-Tharayaha Shokaha

ततः समुपजिघ्रन्ती कपिराजस्य तन्मुखम्

पतिं लोकाच्च्युतं तारा मृतं वचनमब्रवीत्

शेषे त्वं विषमे दुःखमकृत्वा वचनं मम

उपलोपचिते वीर सुदुःखे वसुधातले

मत्तः प्रियतरा नूनं वानरेन्द्र मही तव

शेषे हि तां पिरिष्वज्य मां प्रतिभाषसे

सुग्रीवस्य वशं प्राप्तो विधिरेष भवत्यहो

सुग्रीव एव विक्रान्तो वीर साहसिकप्रिय

एषां विलपितं कृच्छ्रमङ्गदस्य शेचतः

मम चेमां गिरं श्रुत्वा किं त्वं प्रतिबुध्यसे

इदं तद्वीरशयनं यत्र शेषे हतो युधि

शायिता निहता यत्र त्वयैव रिपवः पुरा

विशुद्धसत्त्वाभिजन प्रिययुद्ध मम प्रिय

मामनाथां विहायैकां गतस्त्वमसि मानद

शूराय प्रदातव्या कन्या खलु विपश्चिता

शूरभार्यां हतां पश्य सद्यो मां विधवां कृताम्

अवभग्नश्च मे मानो भग्ना मे साश्वती गतिः

अगाधे निमग्नाऽस्मि विपुले शोकसागरे

अश्मसारमयं नूनमिदं मे हृदयं दृढम्

भर्तारं निहतं दृष्ट्वा यन्नाद्य शतधा गतम्

सुहृच्चै हि भर्ता प्रकृत्या मम प्रियः

आहवे पराक्रान्तः शूरः पञ्चत्वमागतः

पतिहीना तु या नारी कामं भवतु पुत्रिणी

धनधान्यैः सुपूर्णाऽपि विधवेत्युच्यते जनैः

स्वगात्रप्रभवे वीर शेषे रुधिरमण़्डले

कृमिरागपरिस्तोमे त्वमात्मशयने यथा

रेणुशोणितसंवीतं गात्रं तव समन्ततः

परिरब्धुं शक्नोमि भुजाभ्यां प्लवगर्षभ

कृतकृत्योऽद्य सुग्रीवो वैरेऽस्मिन्नतिदारुणे

यस्य रामविमुक्तेन हृतमेकेषुणा भयम्

शरेण हृदि लग्नेन गात्रसंस्पर्शने तव

वार्यामि त्वां निरीक्षन्ती त्वयि पञ्चत्वमागते

उद्बबर्ह शरं नीलस्तस्य गात्रगतं तदा

गिरिगह्वरसंलीनं दीप्तमाशीविषं यथा

तस्य निष्कृष्यमाणस्य बाणस्य बभौ द्युतिः

अस्तमस्तकसंरुद्धो रश्मिर्दिनकरादिव

पेतुः क्षतजधारास्तु व्रणेभ्यस्तस्य सर्वशः

ताम्रगैरिकसम्पृक्ता धारा इव धराधरात्

अवकीर्णं विमार्जन्ती भर्तारं रणरेणुना

आस्रैर्नयनजैः शूरं सिषेचास्त्रसमाहतम्

रुधिरोक्षितसर्वाङ्गं दृष्ट्वा विनिहतं पतिम्

उवाच तारा पिङ्गाक्षं पुत्रमङ्गदमङ्गना

अवस्थां पश्चिमां पश्य पितुः पुत्र सुदारुणाम्

सम्प्रसक्तस्य वैरस्य गतोऽन्तः पापकर्मणा

बालसूर्योदयतनुं प्रयान्तं यमसादनम्

अभिवादय राजानं पितरं पुत्र मानदम्

एवमुक्तः समुत्थाय जग्राह चरणौ पितुः

भुजाभ्यां पीनवृत्ताभ्यामङ्गदोऽहमिति ब्रुवन्

अभिवादयमानं त्वामङ्गदं त्वं यथा पुरा

दीर्घायुर्भव पुत्रेति किमर्थं नाभिभाषसे

अहं पुत्रसहाया त्वामुपासे गतचेतसम्

सिंहेन निहतं सद्यो गौः सवत्सेव गोवृषम्

इष्ट्वा सङ्ग्रामयज्ञेन रामप्रहरणाम्भसि

अस्मिन्नवभृथे स्नातः कथं पत्न्या मया विना

या दत्ता देवराजेन तव तुष्टेन संयुगे

शातकुम्भमयीं मालां तां ते पश्यामि नेह किम्

राजश्रीर्न जहाति त्वां गतासुमपि मानद

सूर्यस्यावर्तमानस्य शैलराजमिव प्रभा

मे वचः पथ्यमिदं त्वया कृतं चास्मि शक्ता विनिवारणे तव

हता सपुत्राऽस्मि हतेन संयुगे सह त्वया श्रीर्विजहाति मामिह