Kanda 4 KSK-021-Hanumatha Thara Santvanam

ततो निपतितां तारां च्युतां तारामिवाम्बरात्

शनैराश्वासयामास हनुमान् हरियूथपः

गुणदेषकृतं जन्तुः स्वकर्मफलहेतुकम्

अव्यग्रस्तदवाप्नोति सर्वं प्रेत्य शुभाशुभम्

शोच्या शोचसि कं शोच्यं दीनं दीनाऽनुकम्पसे

कस्य को वाऽनुशोच्योऽस्ति देहेऽस्मिन् बुद्बुदोपमे

अङ्गदस्तु कुमारोऽयं द्रष्टव्यो जीवपुत्रया

आयत्यां विधेयानि समर्थान्यस्य चिन्तय

जानास्यनियतामेवं भूतानामागतिं गतिम्

तस्माच्छुभं हि कर्तव्यं पण्डिते नैहलौकिकम्

यस्मिन् हरिसहस्राणि प्रयुतान्यर्बुदानि

वर्तयन्ति कृतांशानि सोऽयं दिष्टान्तमागतः

यदयं न्यायदृष्टार्थः सामदानक्षमापरः

गतो धर्मजितां भूमिं नैनं शोचितुमर्हसि

सर्वे हि हरिशार्दूलाः पुत्रश्चायं तवाङ्गदः

इदं हर्यृक्षराज्यं त्वत्सनाथमनिन्दिते

ताविमौ शोकसन्तापौ शनैः प्रेरय भामिनि

त्वाय परिगृहीतोऽयमङ्गदः शास्तु मेदिनीम्

सन्ततिश्च यथा दृष्टा कृत्यं यच्चापि साम्प्रतम्

राज्ञस्तत्क्रियतां तावदेष कालस्य निश्चयः

संस्कार्यो हरिराजश्च अङ्गदश्चाभिषिच्यताम्

सिंहासनगतं पुत्रं पश्यन्ती शान्तिमेष्यसि

सा तस्य वचनं श्रुत्वा भर्तृव्यसनपीडिता

अब्रवीदुत्तरं तारा हनुमन्तमवस्थितम्

अङ्गदप्रतिरूपाणां पुत्राणामेकतः शतम्

हतस्याप्यस्य वीरस्य गात्रसंश्लेषणं वरम्

चाहं हरिराजस्य प्रभावाम्यङ्गदस्य वा

पितृव्यस्तस्य सुग्रीवः सर्वकार्येष्वनन्तरः

ह्येषा बुद्धिरास्थेया हनुमन्नङ्गदं प्रति

पिता हि बन्धुः पुत्रस्य माता हरिसत्तम

हि मम हरिराजसंश्रयात् क्षमतरमस्ति परत्र चेह वा

अभिमुखहतवीरसेवितं शयनमिदं मम सेवितुं क्षमम्