Kanda 4 KSK-019-Tharaya Aagamanam

वानरमहाराजः शयानः शरविक्षतः

प्रुत्युक्तो हेतुमद्वाक्यैर्नोत्तरं प्रत्यपद्यत

अश्मभिः प्रविभिन्नाङ्गः पादपैराहतो भृशम्

रामबाणेन क्रान्तो जीवितान्ते मुमोह सः

तं भार्या बाणमोक्षेण रामदत्तेन संयुगे

हतं प्लवगशार्दूलं तारा शुश्राव वालिनम्

सा सपुत्राऽप्रियं श्रुत्वा वधं भर्तुः सुदारुणम्

निष्पपात भृशं त्रस्ता विविधाद्गिरिगह्वरात्

ये त्वङ्गदपरीवारा वानरा भीमविक्रमाः

ते सकार्मुकमालोक्य रामं त्रस्ताः प्रदुद्रुवुः

सा ददर्श ततस्त्रस्तान् हरीनापततो भृशम्

यूथादिव परिभ्रष्टान् मृगान्निहतयूथपान्

तानुवाच समासाद्य दुःखितान् दुःखिता सती

रामवित्रासितान्त्सर्वाननुबद्धानिवेषुभिः

वानरा राजसिंहस्य यस्य यूयं पुरःसराः

तं विहाय सुसन्त्रस्ताः कस्माद्द्रवथ दुर्गताः

राज्यहेतोः चेद् भ्राता भ्रात्रा रौद्रेण पातितः

रामेण प्रहितै रौद्रैर्मार्गणैर्दूरपातिभिः

कपिपत्न्या वचः श्रुत्वा कपयः कामरूपिणः

प्राप्तकालमविक्लिष्टमूचुर्वचनमङ्गनाम्

जीवपुत्रे निवर्तस्व पुत्रं रक्षस्व चाङ्गदम्

अन्तको रामरूपेण हत्वा नयति वालिनम्

क्षिप्तान् वृक्षान् समाविध्य विपुलाश्च शिलास्तथा

वाली वज्रसमैर्बाणै रामेण विनिपातितः

अभिद्रुतमिदं सर्वं विद्रुतं प्रसृतं बलम्

अस्मिन् प्लवगशार्दूले हते शक्रसमप्रभे

रक्ष्यतां नगरद्वारमङ्गदश्चाभिषिच्यताम्

पदस्थं वालिनः पुत्रं भजिष्यन्ति प्लवङ्गमाः

अथवाऽरुचितं स्थानमिह ते रुचिरानने

आविशन्ति हि दुर्गाणि क्षिप्रमन्यानि वानराः

अभार्याश्च सभार्याश्च सन्त्यत्र वनचारिणः

लुब्धेभ्यो विप्रयुक्तेभ्यस्तेभ्यो नस्तुमुलं भयम्

अल्पान्तरगतानां तु श्रुत्वा वचनमङ्गना

आत्मनः प्रतिरूपं सा बभाषे चारुहासिनी

पुत्रेण मम किं कार्यं किं राज्येन किमात्मना

कपिसिंहे महाभागे तस्मिन् भर्तरि नश्यति

पादमूलं गमिष्यामि तस्यैवाहं महात्मनः

योऽसौ रामप्रयुक्तेन शरेण विनिपातितः

एवमुक्त्वा प्रदुद्राव रुदन्ती शोककर्शिता

शिरश्चोरश्च बाहुभ्यां दुःखेन समभिघ्नती

आव्रजन्ती ददर्शाथ पतिं निपतितं भुवि

हन्तारं दानवेन्द्राणां समरेष्वनिवर्तिनाम्

क्षेप्तारं पर्वतेन्द्राणां वज्राणामिव वासवम्

महावातसमाविष्टं महामेघौघनिःस्वनम्

शक्रतुल्यपराक्रान्तं वृष्ट्वेवोपरतं घनम्

नर्दन्तं नर्दतां भीमं शूरं शूरेण पातितम्

शार्दूलेनामिषस्यार्थे मृगराजं यथा हतम्

अर्चितं सर्वलोकस्य सपताकं सवेदिकम्

अवष्टभ्य तिष्ठन्तं ददर्श धनुरुत्तमम्

रामं रामानुजं चैव भर्तुश्चैवानुजं शुभा

तानतीत्य समासाद्य भर्तारं निहतं रणे

समीक्ष्य व्यथिता भूमौ सम्भ्रान्ता निपपात

सुप्त्वैव पुनरुत्थाय आर्यपुत्रेति क्रोशती

रुरोद सा पतिं दृष्ट्वा सन्दितं मृत्युदामभिः

तामवेक्ष्य तु सुग्रीवः क्रोशन्तीं कुररीमिव

विषादमगमत्कष्टं दष्ट्वा चाङ्गदमागतम्