Kanda 4 KSK-016-Vali Vadhaha

तामेवं ब्रुवतीं तारां ताराधिपनिभाननाम्

वाली निर्भर्त्सयामास वचनं चेदमब्रवीत्

गर्जतोऽस्य संरम्भं भ्रातुः शत्रोर्विशेषतः

मर्षयिष्याम्यहं केन कारणेन वरानने

अधर्षितानां शूराणां समरेष्वनिवर्तिनाम्

धर्षणामर्षणं भीरु मरणादतिरिच्यते

सोढुं समर्थोऽहं युद्धकामस्य संयुगे

सुग्रीवस्य संरम्भं हीनग्रीवस्य गर्जतः

कार्यो विषादस्ते राघवं प्रति मत्कृते

ध्रमज्ञश्च कृतज्ञश्च कथं पापं करिष्यति

निवर्तस्व सह स्त्रीभिः कथं भूयोऽनुच्छसि

सौहृदं दर्शितं तारे मयि भक्तिः कृता त्वया

प्रति योत्साम्यहं गत्वा सुग्रीवं जहि सम्भ्रमम्

दर्पमात्रं विनेष्यामि प्राणैर्विमोक्ष्यते

अहं ह्याजिस्थितस्यास्य करिष्यामि यथेप्सितम्

वृक्षैर्मुष्टिप्रहारैश्च पीडितः प्रतियास्यति

मे गर्वितमायस्तं सहिष्यति दुरात्मवान्

कृतं तारे सहायत्वं सौहृदं दर्शितं मयि

शापितासि मम प्राणैर्निवर्तस्व जयेन

अहं जित्वा निवर्तिष्ये तमहं भ्रातरं रणे

तं तु तारा परिष्वज्य वालिनं प्रियवादिनी

चकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम्

ततः स्वस्त्ययनं कृत्वा मन्त्रवद्विजयैषिणी

अन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता

प्रविष्टायां तु तारायां सह स्त्रीभिः स्वमालयम्

नगरान्निर्ययौ क्रुद्धो महासर्प इव श्वसन्

निःश्वस्य महातेजा वाली परमरोषणः

सर्वतश्चारयन् दृष्टिं शत्रुदर्शनकाङ्क्षया

ददर्श ततः श्रीमान् सुग्रीवं हेमपिङ्गलम्

सुसंवीतमवष्टब्धं दीप्यमानमिवानलम्

तं दृष्ट्वा महावीर्यं सुग्रीवं पर्यवस्थितम्

गाढं परिदधे वासो वाली परमरोषणः

वाली गाढसंवीतो मुष्टिमुद्यम्य वीर्यवान्

सुग्रीवमेवाभिमुखो ययौ योद्धुं कृतक्षणः

श्लिष्टमुष्टिं समुद्यम्य संरब्धतरमागतः

सुग्रीवोऽपि तमुद्दिश्य वालिनं हेममालिनम्

तं वाली क्रोधताम्राक्षः सुग्रीवं रणपण्डितम्

आपतन्तं महावेगमिदं वचनमब्रवीत्

एष मुष्टिर्मया बद्धो गाढः सन्निहिताङ्गुलिः

मया वेगविमुक्तस्ते प्राणानादाय यास्यति

एवमुक्तस्तु सुग्रीवः क्रुद्धो वालिनमब्रवीत्

तवैव चाहरन् प्राणान् मुष्टिः पततु मूर्धनि

ताडितस्तेन सङ्क्रुद्धः समभिक्रम्य वेगितः

अभवच्छोणितोद्गारी सोत्पीड इव पर्वतः

सुग्रीवेण तु निस्सङ्गं सालमुत्पाट्य तेजसा

गात्रेष्वभिहतो वाली वज्रेणेव महागिरिः

तु वाली प्रचलितः सालताडनविह्वलः

गुरुभारसमाक्रान्तो नौसार्थ इव सागरे

प्रवृद्धौ घोरवपुषौ चन्द्रसूर्याविवाम्बरे

परस्परममित्रघ्नौ छिद्रान्वेषणतत्परौ

ततोऽवर्धत वाली तु बलवीर्यसमन्वितः

सूर्यपुत्रो महावीर्यः सुग्रीवः परिहीयते

वालिना भग्नदर्पस्तु सुग्रीवो मन्दविक्रमः

वालिनं प्रति सामर्षो दर्शयामास लाघवम्

मुष्टिभिर्जानुभिः पद्भिर्बाहुभिश्च पुनःपुनः

तयोर्युद्धमभूद्घोरं वृत्रवासवयोरिव

तौ शोणिताक्तौ युद्ध्येतां वानरौ वनचारिणौ

मेघाविव महाशब्दैस्तर्जमानौ परस्परम्

हीयमानमथोऽपश्यत्सुग्रीवं वानरेश्वरम्

वीक्षमाणं दिशश्चैव राघवः मुहुर्मुहुः

ततो रामो महातेजा आर्तं दृष्ट्वा हरीश्वरम्

शरं वीक्षते वीरो वालिनो वधकारणात्

ततो धनुषि सन्धाय शरमाशीविषोपमम्

पूरयामास तच्चापं कालचक्रमिवान्तकः

तस्य ज्यातलघोषेण त्रस्ताः पत्त्ररथेश्वराः

प्रदुद्रुवुर्मृगाश्चैव युगान्त इवमोहिताः

मुक्तस्तु वज्रनिर्घोषः प्रदीप्ताशनिसन्निभः

राघवेण महाबाणो वालिवक्षसि पातितः

ततस्तेन महातेजा वीर्योत्सिक्तः कपीश्वरः

वेगेनाभिहतो वाली निपपात महीतले

इन्द्रध्वज इवोद्धूतः पौर्णमास्यां महीतेले

आश्वयुक्समये मासि गत श्रीको विचेतनः

नरोत्तमः कालयुगान्तकोपमं शरोत्तमं काञ्चनरूप्यभूषितम्

ससर्ज दीप्तं तममित्रमर्द्दनं सधूममग्निं मुखतो यथा हरः

अथोक्षितः शोणिततोयविस्रवैः सुपुष्पिताशोक इवानलोद्धतः

विचेतनो वासवसूनुराहवे विभ्रंशितेन्द्रध्वजवत्क्षितिं गतः