Kanda 4 KSK-014-Valinam Prathi Yudhdha Ahvanam

सर्वे ते त्वरितं गत्वा किष्किन्धां वालिपालिताम्

वृक्षैरात्मानमावृत्य व्यतिष्ठन् गहने वने

विचार्य सर्वतो दृष्टिं कानने काननप्रियः

सुग्रीवो विपुलग्रीवः क्रोधमाहारयद्भृशम्

परिवारैः परिवृतो नादैर्भिन्दन्निवाम्बरम्

गर्जन्निव महामेघो वायुवेगपुरस्सरः

अथ बालार्कसदृशो दृप्तसिंहगतिस्तदा

दृष्ट्वा रामं क्रियादक्षं सुग्रीवो वाक्यमब्रवीत्

हरिवागुरया व्याप्तां तप्तकाञ्चनतोरणाम्

प्राप्ताः स्म ध्वजयन्त्राढ्यां किष्किन्धां वालिनः पुरीम्

प्रतिज्ञा या त्वया वीर कृता वालिवधे पुरा

सफलां तां कुरु क्षिप्रं लतां काल इवागतः

एवमुक्तस्तु धर्मात्मा सुग्रीवेण राघवः

तमथोवाच सुग्रीवं वचनं शत्रुसूदनः

कृताभिज्ञानचिह्नस्त्वमनया गजसाह्वया

लक्ष्मणेन समुत्पाट्य यैषा कण्ठे कृता तव

शोभसे ह्यधिकं वीर लतया कण्ठसक्तया

विपरीत इवाकाशे सूर्यो नक्षत्रमालया

अद्य वालिसमुत्थं ते भयं वैरं वानर

एकेनाहं प्रमोक्ष्यामि बाणमोक्षेण संयुगे

मम दर्शय सुग्रीव वैरिणं भ्रातृरूपिणम्

वाली विनिहतो यावद्वने पांसुषु वेष्टते

यदि दृष्टिपथं प्राप्तो जीवन् विनिवर्तते

ततो दोषेण माऽऽगच्छेत् सद्यो गर्हेच्च मा भवान्

प्रत्यक्षं सप्त ते साला मया बाणेन दारिताः

तेनावेहि बलेनाद्य वालिनं निहतं मया

अनृतं नोक्तपूर्वं मे वीर कृच्छ्रेऽपि तिष्ठता

धर्मलोभपरीतेन वक्ष्ये कथञ्चन

सफलां करिष्यामि प्रतिज्ञां जहि सम्भ्रमम्

प्रसूतं कलमं क्षेत्रे वर्षेणेव शतक्रतुः

तदाह्वाननिमित्तं त्वं वालिनो हेममालिनः

सुग्रीव कुरु तं शब्दं निष्पतेद्येन वानरः

जितकाशी बलश्लाघी त्वया चाधर्षितः पुरा

निष्पतिष्यत्यसङ्गेन वाली प्रियसंयुगः

रिपूणां धर्षणं शूरा मर्षयन्ति संयुगे

जानन्तस्तु स्वकं वीर्यं स्त्रीसमक्षं विशेषतः

तु रामवचः श्रुत्वा सुग्रीवो हेमपिङ्गलः

ननर्द क्रूरनादेन विनिर्भिन्दन्निवाम्बरम्

तस्य शब्देन वित्रस्ता गावो यान्ति हतप्रभाः

राजदोषपरामृष्टाः कुलस्त्रिय इवाकुलाः

द्रवन्ति मृगाः शीघ्रं भग्ना इव रणे हयाः

पतन्ति खगा भूमौ क्षीणपुण्या इव ग्रहाः

ततः जीमूतगणप्रणादो नादं ह्यमुञ्चत्त्वरया प्रतीतः

सूर्यात्मजः शौर्यविवृद्धतेजाः सरित्पतिर्वाऽनिलचञ्चलोर्मिः