Kanda 3 ARK-075-Rama Lakshmanayoho Pampaa Darshanam

दिवं तु तस्यां यातायां शबर्या स्वेन तेजसा

लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः

चिन्तयित्वा धर्मात्मा प्रभावं तं महात्मनाम्

हितकारिणमेकाग्रं लक्ष्मणं राघवोऽब्रवीत्

दृष्टोऽयमाश्रमः सौम्य बह्वाश्चर्यः कृतात्मनाम्

विश्वस्तमृगशार्दूलो नानाविहगसेवितः

सप्तानां समुद्राणामेषु तीर्थेषु लक्ष्मण

उपस्पृष्टं विधिवत्पितरश्चापि तर्पिताः

प्रनष्टमशुभं तत्तत्कल्याणं समुपस्थितम्

तेन तत्त्वेन हृष्टं मे मनो लक्ष्मण सम्प्रति

हृदये हि नरव्याघ्र शुभमाविर्भविष्यति

तदागच्छ गमिष्यावः पम्पां तां प्रियदर्शनाम्

ऋश्यमूको गिरिर्यत्र नातिदूरे प्रकाशते

यस्मिन् वसति धर्मात्मा सुग्रीवोऽशुंमतः सुतः

नित्यं वालिभयात् त्रस्तश्चतुर्भिः सह वानरौः

अभित्वरे तं द्रष्टुं सुग्रीवं वानरर्षभम्

तदधीनं हि मे सौम्य सीतायाः परिमार्गणम्

एवं ब्रुवाणं तं धीरं रामं सौमित्रिरब्रवीत्

गच्छावस्त्वरितं तत्र ममापि त्वरते मनः

आश्रमात्तु ततस्तस्मान्निष्क्रम्य विशां पतिः

आजगाम ततः पम्पां लक्ष्मणेन सहाभिभूः

ददर्श ततः पुण्यामुदारजनसेविताम्

नानाद्रुमलताकीर्णां पम्पां पानीयवाहिनीम्

पद्मैः सौगन्धिकैस्ताम्रां शुक्लां कुमुदमण्डलैः

नीलां कुवलयोद्घाटैर्बहुवर्णां कुथामिव

तामासाद्य वै रामौ दूरादुदकवाहिनीम्

मतङ्गसरसं नाम ह्रदं समवगाहत

अरविन्दोत्पलवतीं पद्मसौगन्धिकायुताम्

पुष्पिताम्रवणोपेतां बर्हिणोद्घुष्टनादिताम्

तिलकैर्बीजपूरैश्च धवैः शुक्लद्रुमैस्तथा

पुष्पितैः करवीरैश्च पुन्नागैश्च सुपुष्पितैः

मालतीकुन्दगुल्मैश्च भाण्डीरैर्निचुलैस्तथा

अशोकैः सप्तपर्णैश्च केतकैरतिमुक्तकैः

अन्यैश्च विविधैर्वृक्षैः प्रमदामिव भूषिताम्

समीक्षमाणौ पुष्पाढ्यं सर्वतो विपुलद्रुमम्

कोयष्टिकैश्चार्जुनकैः शतपत्त्रैश्च कीरकैः

एतैश्चान्यैश्च विहगैर्नादितं तु वनं महत्

ततो जग्मतुरव्यग्रौ राघवौ सुसमाहितौ

तद्वनं चैव सरसः पश्यन्तो शकुनैर्युतम्

प्रहृष्टनानाशकुनां पादपैरुपशोभिताम्

रामो विविधान् वृक्षान् सरांसि विविधानि

पश्यन् कामाभिसन्तप्तो जगाम परमं ह्रदम्

पुष्पितोपवनोपेतां सालचम्पकशोभिताम्

षट्पदौघसमाविष्टां श्रीमतीमतुलप्रभाम्

तां दृष्ट्वा पुनः पम्पां पद्मसौगन्धिकैर्युताम्

इत्युवाच तदा वाक्यं लक्ष्मणं सत्यविक्रमः

अस्यास्तीरे तु पूर्वोक्तः पर्वतो धातुमण्डितः

ऋश्यमूक इति ख्यातः पुण्यः पुष्पितपादपः

हरेर्ऋक्षरजोनाम्नः पुत्रस्तस्य महात्मनः

अध्यास्ते तं महावीर्यः सुग्रीव इति विश्रुतः

सुग्रीवमभिगच्छ त्वं वानरेन्दं नरर्षभ

इत्युवाच पुनर्वाक्यं लक्ष्मणं सत्यविक्रमम्

राज्यभ्रष्टेन दीनेन तस्यामासक्तचेतसा

कथं मया विना शक्यं सीतां लक्ष्मण जीवितुम्

इत्येवमुक्त्वा मदनाभिपिडितः लक्ष्मणं वाक्यमनन्यचेतसम्

विवेश पम्पां नलीनीं मनोहरां रघूत्तमः शोकविषादयन्त्रितः

ततो महद्वर्त्म सुदूरसङ्क्रमः क्रमेण गत्वा प्रतिकूलधन्वनम्

ददर्श पम्पां शुभदर्शकाननामनेकनानाविधपक्षिजालकाम्