Kanda 3 ARK-067-Jataayuvaa Sitaa Vruthantha Kathanam

पूर्वजोऽप्युक्तमात्रस्तु लक्ष्मणेन सुभाषितम्

सारग्राही महासारं प्रतिजग्राह राघवः

सन्निगृह्य महाबाहुः प्रवृत्तं कोपमात्मनः

अवष्टभ्य धनुश्चित्रं रामो लक्ष्मणमब्रवीत्

किं करिष्यावहे वत्स क्व वा गच्छाव लक्ष्मण

केनोपायेन पश्येयं सीतामिति विचन्तय

इदमेव जनस्थानं त्वमन्वेषितुमर्हसि

राक्षसैर्बहुभिः कीर्णं नानाद्रुमलतायुतम्

सन्तीह गिरिदुर्गाणि निर्दराः कन्दराणि

गुहाश्च विविधा घोरा नानामृगगणाकुलाः

आवासाः किन्नराणां गन्धर्वभवनानि

तानि युक्तो मया सार्धं त्वमन्वेषितुर्महसि

त्वद्विधा बुद्धिसम्पन्ना महात्मानो नरर्षभ

आपत्सु प्रकम्पन्ते वायुवेगैरिवाचलाः

इत्युक्तस्तद्वनं सर्वं विचचार सलक्ष्मणः

क्रुद्धो रामः शरं घोरं सन्धाय धनुषि क्षुरम्

ततः पर्वतकूटाभं महाभागं द्विजोत्तमम्

ददर्श पतितं भूमौ क्षतजार्द्रं जटायुषम्

तं दृष्ट्वा गिरिशृङ्गाभं रामो लक्ष्मणमब्रवीत्

अनेन सीता वैदेही भक्षिता नात्र संशसः

गृध्ररूपमिदं रक्षो व्यक्तं भवति कानने

भक्षयित्वा विशालाक्षीमास्ते सीतां यथासुखम्

एनं वधिष्ये दीप्तास्यैर्घोरैर्बाणैरजिह्मगैः

इत्युक्त्वाऽभ्यपतद् गृध्रं सन्धाय धनुषि क्षुरम्

क्रुद्धो रामः समुद्रान्तां कम्पयन्निव मेदिनीम्

तं दीनं दीनया वाचा सफेनं रुधिरं वमन्

अभ्यभाषत पक्षी तु रामं दशरथात्मजम्

यामोषधिमिवायुष्मन्नन्वेषसि महावने

सा देवी मम प्राणा रावणेनोभयं हृतम्

त्वया विरहिता देवी लक्ष्मणेन राघव

ह्रियमाणा मया दृष्टा रावणेन बलीयसा

सीतामभ्यवपन्नोहं रावणश्च रणे मया

विध्वंसितरथश्चात्र पातितो धरणीतले

एतदस्य धनुर्भग्नमेतदस्य शरावरम्

अयमस्य रथो राम भग्नः साङ्ग्रामिको मया

अयं तु सारथिस्तस्य मत्पक्षनिहतो युधि

परिश्रान्तस्य मे पक्षौ छित्त्वा खङ्गेन रावणः

सीतामादाय वैदेहीमुत्पपात विहायसम्

रक्षसा निहतं पूर्वं मां हन्तुं त्वमर्हसि

रामस्तस्य तु विज्ञाय बाष्पपूर्णमुखस्तदा

द्विगुणीकृततापार्तः सीतासक्तां प्रियां कथाम्

गृध्रराजं परिष्वज्य परित्यज्य महद्धनुः

निपपातावशो भूमौ रुरोद सहलक्ष्मणः

एकमेकायने दुर्गे निःश्वसन्तं कथञ्चन

समीक्ष्य दुःखिततरो रामः सौमित्रिमब्रवीत्

राज्याद्भ्रंशो वने वासः सीता नष्टा द्विजो हतः

ईदृशीयं ममालक्ष्मीर्निर्दहेदपि पावकम्

सम्पूर्णमपि चेदद्य प्रतरेयं महोदधिम्

सोऽपि नूनं ममालक्ष्म्या विशुष्येत्सरितां पतिः

नास्त्यभाग्यतरो लोके मत्तोऽस्मिन् सचराचरे

येनेयं महती प्राप्ता मया व्यसनवागुरा

अयं पितृवयस्यो मे गृध्रराजो जरान्वितः

शेते विनिहतो भूमौ मम भाग्यविपर्ययात्

इत्येवमुक्त्वा बहुशो राघवः सहलक्ष्मणः

जाटयुषं पस्पर्श पितृस्नेहं विदर्शयन्

निकृत्तपक्षं रुधिरावसिक्तं गृध्रराजं परिरभ्य रामः

क्व मैथिली प्राणसमा ममेति विमुच्य वाचं निपपात भूमौ