Kanda 3 ARK-062-Rama Vilapaha

सीतामपश्यन् धर्त्मात्मा कामोपहतचेतनः

विललाप महाबाहू रामः कमललोचनः

पश्यन्निव तां सीतामपश्यन्मदनार्दितः

उवाच राघवो वाक्यं विलापाश्रयदुर्वचम्

त्वमशोकस्य शाखाभिः पुष्पप्रियतया प्रिये

आवृणोषि शरीरं ते मम शोकविवर्धनी

कदलीकाण्डसदृशौ कदल्या संवृतावुभौ

ऊरू पश्यामि ते देवि नासि शक्ता निगूहितुम्

कर्णिकारवनं भद्रे हसन्ती देवि सेवसे

अलं ते परिहासेन मम बाधावहेन वै

परिहासेन किं सीते परिश्रान्तस्य मे प्रिये

अयं परिहासोऽपि साधु देवि रोचते

अवगच्छामि ते शीलं परिहासप्रियं प्रिये

आगच्छ त्वं विशालाक्षि शून्योऽयमुटजस्तव

सुव्यक्तं राक्षसैः सीता भक्षिता वा हृतापि वा

नहि सा विलपन्तं मामुपसम्प्रैति लक्ष्मण

एतानि मृगयूथानि साश्रुनेत्राणि लक्ष्मण

शंसन्तीव हि वैदेहीं भक्षितां रजनीचरैः

हा ममार्ये क्व यातासि हा साध्वि वरवर्णिनि

हा सकामा त्वया देवी कैकेयी सा भविष्यति

सीतया सह निर्यातो विना सीतामुपागतः

कथं नाम प्रवेक्ष्यामि शून्यमन्तःपुरं पुनः

निर्वीर्य इति लोको मां निर्दयश्चेति वक्ष्यति

कातरत्वं प्रकाशं हि सीतापनयनेन मे

निवृत्तवनवासश्च जनकं मिथिलाधिपम्

कुशलं परिपृच्छन्तं कथं शक्ष्ये निरीक्षितुम्

विदेहराजो नूनं मां दृष्ट्वा विरहितं तया

सुतास्नेहेन सन्तप्तो मोहस्य वशमेष्यति

अथवा गमिष्यामि पुरीं भरतपालिताम्

स्वर्गोऽपि सीतया हीनः शून्य एव मतो मम

मामिहोत्सृज्य हि वने गच्छायोध्यां पुरीं शुभाम्

त्वहं तां विना सीतां जीवेयं हि कथञ्चन

गाढमाश्लिष्य भरतो वाच्यो मद्वचनात्त्वया

अनुज्ञातोऽसि रामेण पालयेति वसुन्धराम्

अम्बा मम कैकेयी सुमित्रा त्वया विभो

कौसल्या यथान्यायमभिवाद्या ममाज्ञया

रक्षणीया प्रयत्नेन भवता सोक्तकारिणा

सीतायाश्च विनाशोऽयं मम चामित्रकर्शन

विस्तरेण जनन्या मे विनिवेद्यस्त्वया भवेत्

इति विलपति राघवे सुदीने वनमुपगम्य तया विना सुकेश्या

भयविकलमुखस्तु लक्ष्मणोऽपि व्यथितमना भृशमातुरो बभूव