Kanda 3 ARK-060-Rama Lakshmanayoho Parnashala Agamanam

भृशमाव्रजमानस्य तस्याधो वामलोचनम्

प्रास्फुरच्चास्खलद्रामो वेपथुश्चाप्यजायत्

उपालक्ष्य निमित्तानि सोऽशुभानि मुहुर्मुहुः

अपि क्षेमं नु सीताया इति वै व्याजहार

त्वरमाणो जगामाथ सीतादर्शनलालसः

शून्यमावसथं दृष्ट्वा बभूवोद्विग्नमानसः

उद्भ्रमन्निव वेगेन विक्षिपन् रघुनन्दनः

तत्र तत्रोटजस्थानमभिवीक्ष्य समन्ततः

ददर्श पर्णशालां रहितां सीतया तदा

श्रिया विरहितां ध्वस्तां हेमन्ते पद्मिनीमीव

रुदन्तमिव वृक्षैश्च म्लानपुष्पमृगद्विजम्

श्रिया विहीनं विध्वस्तं सन्त्यक्तवनदेवतम्

विप्रकीर्णाजिनकुशं विप्रविद्धबृसीकटम्

दृष्ट्वा शून्यं निजस्थानं विललाप पुनःपुनः

हृता मृता वा नष्टा वा भक्षिता वा भविष्यति

निलीनाप्यथवा भीरुरथवा वनमाश्रिता

गता विचेतुं पुष्पाणि फलान्यपि वा पुनः

अथवा पद्मिनीं याता जलार्थं वा नदीं गता

यत्नान्मृगयमाणस्तु नाससाद वने प्रियाम्

शोकरक्तेक्षणः शोकादुन्मत्त इव लक्ष्यते

वृक्षाद्वृक्षं प्रधावन् गिरेश्चाद्रिं नदान्नदीम्

बभूव विलपन् रामः शोकपङ्कार्णवाप्लुतः

अपि कच्चित्त्वया दृष्टा सा कदम्बप्रिया प्रिया

कदम्ब यदि जानीषे शंस सीतां शुभाननाम्

स्निग्धपल्लवसङ्काशा पीतकौशेयवासिनी

शंसस्व यदि वा दृष्टा बिल्व बिल्वोपमस्तनी

अथवाऽर्जुन शंस त्वं प्रियां तामर्जुनप्रियाम्

जनकस्य सुता भीरुर्यदि जीवति वा वा

ककुभः ककुभोरूं तां व्यक्तं जानाति मैथिलीम्

यथा पल्लवपुष्पाढयो भाति ह्येष वनस्पतिः

भ्रमरैरुपगीतश्च यथा द्रुमवरो ह्यम्

एष व्यक्तं विजानाति तिलकस्तिलकप्रियाम्

अशोक शोकापनुद शोकोपहतचेतसम्

त्वन्नामानं कुरु क्षिप्रं प्रियासन्दर्शनेन माम्

यदि ताल त्वया दृष्टा पक्वतालफलस्तनी

कथयस्व वरारोहां कारुण्यं यदि ते मयि

यदि दृष्टा त्वया सीता जम्बु जम्बुफलोपमाम्

प्रियां यदि विजानीषे निःशङ्कं कथयस्व मे

अहो त्वं कर्णिकाराद्य सुपुष्पैः शोभसे भृशम्

कर्णिकारप्रिया साध्वी शंस दृष्टा प्रिया यदि

चूतनीपमहासालान् पनसान् कुरवान् धवान्

दाडिमानसनान् गत्वा दृष्ट्वा रामो महायशाः

मल्लिका माधवीश्चैव चम्पकान् केतकीस्तस्था

पृच्छन् रामो वने भ्रान्त उन्मत्त इव लक्ष्यते

अथवा मृगशावाक्षीं मृग जानासि मैथिलीम्

मृगविप्रेक्षणी कान्ता मृगीभिः सहिता भवेत्

गज सा गजनासोरूर्यदि दृष्टा त्वया भवेत्

तां मन्ये विदितां तुभ्यमाख्याहि वरवारण

शार्दूल यदि सा दृष्टा प्रिया चन्द्रनिभानना

मैथिली मम विस्रब्धं कथयस्व ते भयम्

किं धावसि प्रिये दूरं दृष्टाऽसि कमलेक्षणे

वृक्षैराच्छाद्य चात्मानं किं मां प्रतिभाषसे

तिष्ठ तिष्ठ वरारोहे तेऽस्ति करुणा मयि

नात्यर्थं हास्यशीलाऽसि किमर्थं मामुपेक्षसे

पीतकौशेयकेनासि सूचिता वरवर्णिनि

धावन्त्यपि मया दृष्टा तिष्ठ यद्यस्ति सौहृदम्

नैव सा नूनमथवा हिंसिता चारुहासिनी

कृच्छ्रं प्राप्तं मां नूनं यथोपेक्षितुमर्हति

व्यक्तं सा भक्षिता बाला राक्षसैः पिशिताशनैः

विभज्याङ्गानि सर्वाणि मया विरहिता प्रिया

नूनं तच्छुभदन्तोष्ठं सुनासं चारुकुण्डलम्

पूर्णचन्द्रमिव ग्रस्तं मुखं निष्प्रभतां गतम्

सा हि चम्पकवर्णाभा ग्रीवा ग्रैवेयशोभिता

कोमला विलपन्त्यास्तु कान्ताया भक्षिता शुभा

नूनं विक्षिप्यमाणौ तौ बाहू पल्लवकोमलौ

भक्षितौ वेपमानाग्रौ सहस्ताभरणाङ्गदौ

मया विरहिता बाला रक्षसां भक्षणाय वै

सार्थेनेव परित्यक्ता भक्षिता बहुबान्धवा

हा लक्ष्मण महाबाहो पश्यसि त्वं प्रियां क्वचित्

हा प्रिये क्व गता भद्रे हा सीतेति पुनःपुनः

क्वचिदुद्भ्रमते वेगात् क्वचिद्विभ्रमते बलात्

क्वचिन्मत्त इवाभाति कान्तान्वेषणतत्परः

वनानि नदीः शैलान् गिरिप्रस्रवणानि

काननानि वेगेन भ्रमत्यपरिसंस्थितः

तथा गत्वा विपुलं महद्वनं परीत्य सर्वं त्वथ मैथिलीं प्रति

अनिष्ठिताशः चकार मार्गणे पुनः प्रियायाः परमं परिश्रमम्