Kanda 3 ARK-055-Sitaam Prathi Ravana Darpookthihi

सन्दिश्य राक्षसान् घोरान् रावणोऽष्टौ महाबलान्

आत्मानं बुद्धिवैक्लव्यात्कृतकृत्यममन्यत

चिन्तयानो वैदेहीं कामबाणसमर्पितः

प्रविवेश गृहं रम्यं सीतां द्रष्टुमभित्वरन्

प्रविश्य तु तद्वेश्म रावणो राक्षसाधिपः

अपश्यद्राक्षसीमध्ये सीतां शोकपरायणाम्

अश्रुपूर्णमुखीं दीनां शोकभाराभिपीडिताम्

वायुवेगैरिवाक्रान्तां मज्जन्तीं नावमर्णवे

मृगयूथपरिभ्रष्टां मृगीं श्वभिरिवावृताम्

अधोमुखमुखीं सीतामभ्येत्य निशाचरः

तां तु शोकपरां दीनामवशां राक्षसाधिपः

बलाद्दर्शयामास गृहं देवगृहोपपम्

हर्म्यप्रासादसम्बाधं स्त्रीसहस्रनिषेवितम्

नानापक्षिगणैर्जुष्टं नानारत्नसमन्वितम्

काञ्चनैस्तापनीयैश्च स्फाटिकै राजतैरपि

वज्रवैडूर्यचित्रैश्च स्तम्भैर्द्दष्टिमनोहरैः

दिव्यदुन्दुभिनिर्ह्रादं तप्तकाञ्चनतोरणम्

सोपानं काञ्चनं चित्रमारुरोह तया सह

दान्तिका राजताश्चैव गवाक्षाः प्रियदर्शनाः

हेमजालावृताश्चासन् तत्र प्रासादपङ्क्तयः

सुधामणिविचित्राणि भूमिभागानि सर्वशः

दशग्रीवः स्वभवने प्रादर्शयत मैथिलीम्

दीर्घिकाः पुष्करिण्यश्च नानावृक्षसमन्विताः

रावणो दर्शयामास सीतां शोकपरायणाम्

दर्शयित्वा तु वैदेह्याः कृत्स्नं तद्भवनोत्तमम्

उवाच वाक्यं पापात्मा सीतां लोभितुमिच्छया

दश राक्षसकोट्यश्च द्वाविंशतिरथापराः

तेषां प्रभुरहं सीते सर्वेषां भीमकर्मणाम्

वर्जयित्वा जरावृद्धान् बालांश्च रजनीचरान्

सहस्रमेकमेकस्य मम कार्यपुरस्सरम्

यदिदं राजतन्त्रं मे त्वयि सर्वं प्रतिष्ठितम्

जीवितं विशालाक्षि त्वं मे प्राणैर्गरीयसी

बहूनां स्त्रीसहस्राणां मम योऽसौ परिग्रहः

तासां त्वमीश्वरा सीते मम भार्या भव प्रिये

साधु किं तेऽन्यथा बुद्ध्या रोचयस्व वचो मम

भजस्व माऽभितप्तस्य प्रसादं कर्तुमर्हसि

परिक्षिप्ता सहस्रेण लङ्केयं शतयोजना

नेयं धर्षयितुं शक्या सेन्द्रैरपि सुरासुरैः

देवेषु यक्षेषु गन्धर्वेषु पक्षिषु

अहं पश्यामि लोकेषु यो मे वीर्यसमो भवेत्

राज्यभ्रष्टेन दीनेन तापसेन गतायुषा

किं करिष्यसि रामेण मानुषेणाल्पतेजसा

भजस्व सीते मामेव भर्ताहं सदृशस्तव

यौवनं ह्यध्रुवं भीरू रमस्वेह मया सह

दर्शने मा कृथा बुद्धिं राघवस्य वरानने

काऽस्य शक्तिरिहागन्तुमपि सीते मनोरथैः

शक्यो वायुराकाशे पाशैर्बद्धुं महाजवः

दीप्यमानस्य वाप्यग्नेर्ग्रहीतुं विमलां शिखाम्

त्रयाणामपि लोकानां तं पश्यामि शोभने

विक्रमेण नयेद्यस्त्वां मद्बाहुपरिपालिताम्

त्वत्प्रेष्या मद्विधाश्चैव देवाश्चापि चराचराः

अभिषेकोदकल्किन्ना तुष्टा रमयस्व माम्

दुष्कृतं यत्पुरा कर्म वनवासेन तद्गतम्

यश्च ते सुकृतो धर्मस्तस्येह फलमाप्नुहि

इह माल्यानि सर्वाणि दिव्यगन्धानि मैथिलि

भूषणानि मुख्यानि सेवस्व मया सह

पुष्पकं नाम सुश्रोणि भ्रातुर्वैश्रवणस्य मे

विमानं सूर्यसङ्काशं तरसा निर्जितं मया

विशालं रमणीयं तद्विमानमनुत्तमम्

तत्र सीते मया सार्धं विहरस्व यथासुखम्

वदनं पद्मसङ्काशं विमलं चारुदर्शनम्

शोकार्तं तु वरारोहे भ्राजति वरानने

एवं वदति तस्मिन् सा वस्त्रान्तेन वराङ्गना

पिधायेन्दुनिभं सीता मुखमश्रूण्यवर्तयत्

ध्यायन्तीं तामिवास्वस्थां दीनां चिन्ताहतप्रभाम्

उवाच वचनं पापो रावणो राक्षसेश्वरः

अलं व्रीडेन वैदेहि धर्मलोपकृतेन

आर्षोऽयं दैवनिष्यन्दो यसत्वामभिगमिष्यति

एतौ पादौ महास्निग्धौ शिरौभिः परिपीडितौ

प्रसादं कुरु मे क्षिप्रं वश्यो दासोऽहमस्मि ते

इमाः शून्या मया वाचः शुष्ममाणेन भाषिताः

चापि रावणः काञ्चिन्मूर्ध्ना स्त्रीं प्रणमेत

एवमुक्त्वा दशग्रीवो मैथीलीं जनकात्मजाम्

कृतान्तवशमापन्नो ममेयमिति मन्यते