Kanda 3 ARK-052-Sitaa Vilapaha

तमल्पजीवितं गृध्रं स्फुरन्तं राक्षसाधिपः

ददर्श भूमौ पतितं समीपे राघवाश्रमात्

सा तु ताराधिपमुखी रावणेन समीक्ष्य तम्

गृध्रराजं विनिहतं विललाप सुदुःखिता

आलिङ्ग्य गृध्रं निहतं रावणेन बलीयसा

विललाप सुदुःखार्ता सीता शशिनिभानना

निमित्तं लक्षणज्ञानं शकुनिस्वरदर्शनम्

अवश्यं सुखदुःखेषु नराणां प्रतिदृश्यते

नूनं राम जानासि महद्व्यसनमात्मनः

धावन्ति नूनं काकुत्स्थं मदर्थं मृगपक्षिणः

अयं हि पापचारेण मां त्रातुमभिसङ्गतः

शेते विनिहतो भूमौ ममाभाग्याद्विहङ्गमः

त्राहि मामद्य काकुत्स्थ लक्ष्मणेति वराङ्गना

सुसन्त्रस्ता समाक्रन्दच्छृण्वतां तु यथान्तिके

तां क्लिष्टमाल्याभरणां विलपन्तीमनाथवत्

अभ्यधावत वैदेहीं रावणो राक्षसाधिपः

तां लतामिव वेष्टन्तीमालिङ्गन्तीं महाद्रुमान्

मुञ्च मुञ्चेति बहुशः प्रवदन् राक्षसाधिपः

क्रोशन्तीं राम रामेति रामेण रहितां वने

जीवितान्ताय केशेषु जग्राहान्तकसन्निभः

प्रधर्षितायां सीतायां बभूव सचराचरम्

जगत्सर्वममर्यादं तमसाऽन्धेन संवृतम्

वाति मारुतस्तत्र निष्प्रभोभूद्दिवाकरः

दष्ट्वा सीतां परामृष्टां दीनां दिव्येन चक्षुषा

कृतं कार्यमिति श्रीमान् व्याजहार पितामहः

दृषट्वा सीतां परामृष्टां दण्डकारण्यवासिनः

रावणस्य विनाशं प्राप्तं बुध्वा यदृच्छया

तु तां रामरामेति रुदन्तीं लक्ष्मणेति

जगामादाय चाकाशं रावणो राक्षसेश्वरः

तप्ताभरणवर्णाङ्गी पीतकौशेयवासिनी

रराज राजपुत्री तु विद्युत्सौदामिनी यथा

उद्धूतेन वस्त्रेण तस्याः पीतेन रावणः

अधिकं प्रतिबभ्राज गिरिर्दीप्त इवाग्नीना

तस्याः परमकल्याण्यास्ताम्राणि सुरभीणि

पद्मपत्त्राणि वैदेह्या अभ्यकीर्यन्त रावणम्

तस्याः कौशेयमुद्धूतमाकाशे कनकप्रभम्

बभौ चादित्यरागेण ताम्रमभ्रमिवातपे

तस्यास्तत्सुनसं वक्रमाकाशे रावणाङ्कगम्

रराज विना रामं विनालमिव पङ्कजम्

बभूव जलदं नीलं भित्त्वा चन्द्र इवोदितः

सिललाटं सुकेशान्तं पद्मगर्भाभमव्रणम्

शुक्लैः सुविमलैर्दन्तैः प्रभावद्भिरलङ्कृतम्

तस्यास्तद्विमलं वक्रमाकाशे रावणाङ्कगम्

रुदितं व्यपमृष्टास्त्रं चन्द्रवत्प्रियदर्शनम्

सुनासं चारुताम्रोष्ठमाकाशे हाटकप्रभम्

राक्षसेन समाधूतं तस्यास्तद्वदनं शुभम्

शुशुभे विना रामं दिवा चन्द्र इवोदितः

सा हेमवर्णा नीलाङ्गं मैथिली राक्षसाधिपम्

शुशुभे काञ्चनी काञ्ची नीलं मणिमिवाश्रिता

सा पद्मगौरी हेमाभा रावणं जनकात्मजा

विद्युद्घनमिवाविश्य शुशुभे तप्तभूषणा

तरुप्रवालरक्ता सा नीलाङ्गं राक्षसेश्वरम्

प्राशोभयत वैदेही गजं कक्ष्येव काञ्चनी

तस्या भूषणघोषेण वैदेह्या राक्षसाधिपः

बभौ सचपलो नीलः सघोष इव तोयदः

उत्तमाङ्गाच्च्युता तस्याः पुष्पवृष्टिः समन्ततः

सीताया ह्रियमाणायाः पपात धरणीतले

सा तु रावणवेगेन पुष्पवृष्टिः समन्ततः

समाधूता दशग्रीवं पुनरेवाभ्यवर्तत

अभ्यवर्तत पुष्पाणां धारा वैश्रवणानुजम्

नक्षत्रमाला विमला मेरुं नगमिवोमन्नम्

चरणान्नूपुरं भ्रष्टं वैदेह्या रत्नभूषितम्

विद्युन्मण्डलसङ्काशं पपात मधुरस्वनम्

तां महोल्कामिवाकाशे दीप्यमानां स्वतेजसा

जहाराकाशमाविश्य सीतां वैश्रवणानुजः

तस्यास्तान्यग्निवर्णानि भूषणानि महीतले

सघोषाण्यवकीर्यन्त क्षीणास्तारा इवाम्बरात्

तस्याः स्तनान्तराद् भ्रष्टो हारस्ताराधिपद्युतिः

वैहेह्या निपतन् भाति गङ्गेव गगनाच्च्युता

उत्पन्नवाताभिहता नानाद्विजगणायुताः

मा भैरिति विधूताग्रा व्याजह्रुरिव पादपाः

नलिन्यो ध्वस्तकमलास्त्रस्तमीनजलेचराः

सखीमिव गतोच्छ्वासामन्वशोचन्त मैथिलीम्

समन्तादभिसम्पत्य सिंहव्याघ्रमृगद्विजाः

अन्वधावंस्तदा रोषोत्सीतां छायनुगामिनः

जलप्रपातास्रमुखाः शृङ्गैरुच्छ्रितबाहवः

सीतायां ह्रियमाणायां विक्रोशन्तीव पर्वताः

ह्रियमाणां तु वैदेहीं दृष्ट्वा दीनो दिवाकरः

प्रतिध्वस्तप्रभः श्रीमानासीत् पाण्डरमण्डलः

यत्र रामस्य वैदेहीं भार्यां हरति रावणः

इति सर्वाणि भूतानि गणशः पर्यदेवयन्

वित्रस्तका दीनमुखा रुरुदुर्मृगपोतकाः

उद्वीक्ष्योद्वीक्ष्य नयनैरास्रपाताविलेक्षणाः

सुप्रवेपितगात्राश्च बभूवुर्वनदेवताः

विक्रोशन्तीं दृढं सीतां दृष्ट्वा दुःखं तथा गताम्

तां तु लक्ष्मण रामेति क्रोशन्तीं मधुरस्वरम्

अवेक्षमाणां बहुशो वैदेहीं धरणीतलम्

तामाकुलकेशान्तां विप्रमृष्टविशेषकाम्

जहारात्मविनाशाय दशग्रीवो मनस्विनीम्

ततस्तु सा चारुदती शुचिस्मिता विनाकृता बन्धुजनेन मैथिली

अपश्यती राघवलक्ष्मणावुभौ विवर्णवक्त्रा भयभारपीडिता