Kanda 3 ARK-043-Swarna Mruga Grahanaardham Rama Agamanam

सा तं सम्प्रेक्ष्य सुश्रोणी कुसुमान्यपचिन्वती

हैमराजतवर्णाभ्यां पार्श्वाभ्यामुपशोभितम्

प्रहृष्टा चानवद्याङ्गी मृष्टहाटकवर्णिनी

भर्तारमभिचक्रन्द लक्ष्मणं चापि सायुधम्

तयाऽऽहूतौ नरव्याघ्रौ वैदेह्या रामलक्ष्मणौ

वीक्षमाणौ तु तं देशं तदा ददृशतुर्मृगम्

शङ्कमानस्तु तं दृष्ट्वा लक्ष्मणो राममब्रवीत्

तमेवैनमहं मन्ये मारीचं राक्षसं मृगम्

चरन्तो मृगयां हृष्टाः पापेनोपाधिना वने

अनेन निहता राजन् राजानः कामरूपिणा

अस्य मायाविदो माया मृगरूपमिदं कृतम्

भानुमत् पुरुषव्याघ्र गन्धर्वपुरसन्निभम्

मृगो ह्येवंविधो रत्नविचित्रो नास्ति राघव

जगत्यां जगतीनाथ मायैषा हि संशयः

एवं ब्रुवाणं काकुत्स्थं प्रतिवार्य शुचिस्मिता

उवाच सीता संहृष्टा चर्मणा हृतचेतना

आर्यपुत्राभिरामोऽसौ मृगो हरति मे मनः

आनयैनं महाबाहो क्रीडार्थं नो भविष्यति

इहाश्रमपदेऽस्माकं बहवः पुण्यदर्शनाः

मृगाश्चरन्ति सहिताः सृमराश्चमरास्तथा

ऋक्षाः पृषतसङ्घाश्च वानराः किन्नरास्तथा

विचरन्ति महाबाहो रूपश्रेष्ठा मनोहराः

चास्य सदृशो राजन् दृष्टूपर्वो मृगः पुरा

तेजसा क्षमया दीप्त्या यथायं मृगसत्तमः

नानावर्णविचित्राङ्गो रत्नबिन्दुसमाचितः

द्योतयन् वनमव्यग्रं शोभते शशिसन्निभः

अहो रूपमहो लक्ष्मीः स्वरसम्पच्च शोभना

मृगोऽद्भुतो विचित्राङ्गो हृदयं हरतीव मे

यदि ग्रहणमभ्येति जीवन्नेव मृगस्तव

आश्चर्यभूतं भवति विस्मयं जनयिष्यति

समाप्तवनवासानां राज्यस्थानां नः पुनः

अन्तःपुरविभूषार्थो मृग एष भविष्यति

भरतस्यार्यपुत्रस्य श्वश्रूणां मम प्रभो

मृगरूपमिदं व्यक्तं विस्मयं जनयिष्यति

जीवन्न यदि तेऽभ्येति ग्रहणं मृगसत्तमः

अजिनं नरशार्दूल रुचिरं मे भविष्यति

निहतस्यास्य सत्त्वस्य जाम्बूनदमयत्वचि

शष्पबृस्यां विनीतायामिच्छाम्यहमुपासितुम्

कामवृत्तमिदं रौद्रं स्त्रीणामसदृशं मतम्

वपुषा त्वस्य सत्त्वस्य विस्मयो जनितो मम

तारुणादित्यवर्णेन नक्षत्रपथवर्चसा

बभूव राघवस्यापि मनो विस्मयमागतम्

एवं सीतावचः श्रुत्वा तं दृष्ट्वा मृगमद्भुतम्

लोभितस्तेन रूपेण सीतया प्रचोदितः

उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः

पश्य लक्ष्मण वैदेह्याः स्पृहां मृगगतामिमाम्

रूपश्रेष्ठतया ह्येष मृगोऽद्य भषिष्यति

वने नन्दनोद्देशे चैत्ररथसंश्रये

कुतः पृथिव्यां सौमित्रे योऽस्य कश्चित्समो मृगः

प्रतिलोमानुलोमाश्च रुचिरा रोमराजयः

शोभन्ते मृगमाश्रित्य चित्राः कनकबिन्दुभिः

पश्यास्य जृम्भमाणस्य दीप्तामग्निशिखोपमाम्

जिह्वां मुखान्निःसरन्तीं मेघादिव शतह्रदाम्

मसारगल्लर्कमुखः शङ्खमुक्तानिभोदरः

कस्य नामाभिरूपोऽसौ मनो लोभयेन्मृगः

नानारत्नमयं दिव्यं मनो विस्मयं व्रजेत्

मांसहेतोरपि मृगान् विहारार्थं धन्विनः

घ्नन्ति लक्ष्मण राजानो मृगयायां महावने

धनानि व्यवसायेन विचीयन्ते महावने

धातवो विविधाश्चापि मणिरत्नसुवर्णिनः

तत्सारमखिलं नॄणां धनं निचयवर्धनम्

मनसा चिन्तितं सर्वं यथा शुक्रस्य लक्ष्मण

अर्थी येनार्थकृत्येन संव्रजत्यविचारयन्

तमर्थमर्थशास्त्रज्ञाः प्राहुरर्थ्याश्च लक्ष्मण

एतस्य मृगरत्नस्य परार्ध्ये काञ्चनत्वचि

उपवेक्ष्यति वैदेही मया सह सुमध्यमा

कादली प्रियकी प्रवेणी चाविकी

भवेदेतस्य सदृशी स्पर्शनेनेति मे मतिः

एष चैव मृगः श्रीमान् यश्च दिव्यो नभश्चरः

उभावेतै मृगौ दिव्यौ तारामृगमहीमृगौ

यदि वाऽयं तथा यन्मां भवेद्वदसि लक्ष्मण

मायैषा राक्षसस्येति कर्तव्योऽस्य वधो मया

एतेन हि नृशंसेन मारीचेनाकृतात्मना

वने विचरता पूर्वं हिंसिता मुनिपुङ्गवाः

उत्थाय बहवो येन मृगयायां जनाधिपाः

निहताः परमेष्वासास्तस्माद्वध्यस्त्वयं मृगः

पुरस्तादिह वातापिः परिभूय तपस्विनः

उदरस्थो द्विजान् हन्ति स्वगर्भोऽश्वतरीमिव

कदाचिच्चिराल्लोभादाससाद महामुनिम्

अगस्त्यं तेजसा युक्तं भक्षस्तस्य बभूव

समुत्थाने तद्रूपं कर्तुकामं समीक्ष्य तम्

उत्स्मयित्वा तु भगवान् वातापिमिदमब्रवीत्

त्वयाऽविगण्य वातापे परिभूताः स्वतेजसा

जीवलोके द्विजश्रेष्ठास्तस्मादसि जरां गतः

मद्विधं योऽतिमन्येत धर्मनित्यं जितेन्द्रियम्

भवेद्धतोऽयं वातापिरगस्त्येनेव मां गतः

इह त्वं भव सन्नद्धो यन्त्रितो रक्ष मैथिलीम्

अस्यामायत्तमस्माकं यत्कृत्यं रघुनन्दन

अहमेनं वधिष्यामि ग्रहीष्याम्यपि वा मृगम्

यावद्गच्छामि सौमित्रे मृगमानयितुं द्रुतम्

पश्य लक्ष्मण वैदेहीं मृगत्वचिगतस्पृहाम्

त्वचा प्रधानया ह्येष मृगोऽद्य भविष्यति

अप्रमत्तेन ते भाव्यमाश्रमस्थेन सीतया

यावत्पृषतमेकेन सायकेन निहन्म्यहम्

हत्वैतच्चर्म चादाय शीघ्रमेष्यामि लक्ष्मण

प्रदक्षिणेनातिबलेन पक्षिणा जटायुषा बुद्धिमता लक्ष्मण

भवाप्रमत्तः परिगृह्य मैथीलीं प्रतिक्षणं सर्वत एव शङ्कितः