Kanda 3 ARK-041-Maaricho Upadeshaha

आज्ञप्तोऽराजवद्वाक्यं प्रतिकूलं निशाचरः

अब्रवीत् परुषं वाक्यं मरीचो राक्षसाधिपम्

केनायमुपदिष्टस्ते विनाशः पापकर्मणा

सपुत्रस्य सराष्ट्रस्य सामात्यस्य निशाचर

कस्त्वया सुखिना राजन्नाभिनन्दति पापकृत्

केनेदमुपदिष्टं ते मुत्युद्वारमुपायतः

शत्रवस्तव सुव्यक्तं हीनवीर्या निशाचराः

इच्छन्ति त्वां विनश्यन्तमुपरुद्धं बलीयसा

केनेदमुपदिष्टं ते क्षुद्रेणाहितवादिना

यस्त्वामिच्छति नश्यन्तं स्वकृतेन निशाचर

वध्याः खलु हन्यन्ते सचिवास्तव रावण

ये त्वामुत्पथमारुढं निगृङ्णन्ति सर्वशः

अमात्यैः कामवृत्तो हि राजा कापथमाश्रितः

निग्राह्यः सर्वथा सद्भिर्न निग्राह्यो निगृह्यसे

धर्ममर्थं कामं यशश्च जयतां वर

स्वामिप्रसादात् सचिवाः प्राप्नुवन्ति निशाचर

विपर्यये तु तत्सर्वं व्यर्थं भवति रावण

व्यसनं स्वामिवैगुण्यात् प्राप्नुवन्तीतरे जनाः

राजमूलो हि धर्मश्च जयश्च जयतां वर

तस्मात्सर्वास्ववस्थासु रक्षितव्या नराधिपाः

राज्यं पालयितुं शक्यं तीक्ष्णेन निशाचर

चापि प्रतिकूलेन नाविनीतेन राक्षस

ये तीक्ष्णमन्त्राः सचिवा भज्यन्ते सह तेन वै

विषमे तुरगाः शीघ्रा मन्दसारथयो यथा

बहवः साधवो लोके युक्ता धर्ममनुष्ठिताः

परेषामपराधेन विनष्टाः सपरिच्छदाः

स्वामिना प्रतिकूलेन प्रजास्तीक्ष्णेन रावण

रक्ष्यमाणा वर्धन्ते मेषा गोमायुना यथा

अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः

येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः

तदिदं काकतालीयं घोरमासादितं मया

अत्रैव शोचनीयस्त्वं ससैन्यो विनशिष्यसि

मां निहत्य तु रामश्च नचिरात्त्वां वधिष्यति

अनेन कृतकृत्योऽस्मि म्रिये यदरिणा हतः

दर्शनादेव रामस्य हतं मामुपधारय

आत्मानं हतं विद्धि हृत्वा सीतां सबान्धवम्

आनयिष्यसि चेत् सीतामाश्रमात् सहितो मया

नैव त्वमसि नाहं नैव लङ्का राक्षसाः

निवार्यमाणस्तु मया हितैषिणा मृष्यसे वाक्यमिदं निशाचर

परेतकल्पा हि गतायुषो नरा हितं गृह्णन्ति सुहृद्भिरीरितम्