Kanda 3 ARK-035-Maaricham Prathi Punaha Ravana Agamanam

ततः शूर्पणखावाक्यं तच्छ्रुत्वा रोमहर्षणम्

सचिवानभ्यनुज्ञाय कार्यं बुध्वा जगाम सः

तत्कार्यमनुगम्याथ यथावदुपलभ्य

दोषाणां गुणानां सम्प्रधार्य बलाबलम्

इतिकर्तव्यमित्येव कृत्वा निश्चयमात्मनः

स्थिरबुद्धिस्ततो रम्यां यानशालां जगाम

यानशालां ततो गत्वा प्रच्छन्नो राक्षसाधिपः

सूतं सञ्चोदयामास रथः संयोज्यतामिति

एवमुक्तः क्षणेनैव सारथिर्लघुविक्रमः

रथं संयोजयामास तस्याभिमतमुत्तमम्

काञ्चनं रथमास्थाय कामगं रत्नभूषितम्

पिशाचवदनैर्युक्तं खरैः काञ्चनभूषणैः

मेघप्रतिमनादेन तेन धनदामुजः

राक्षसाधिपतिः श्रीमान् ययौ नदनदीपतिम्

श्वेतवालव्यजनः श्वेतच्छत्त्रो दशाननः

स्निग्धवैडूर्यसङ्काशस्तप्तकाञ्चनकुण्डलः

विंशद्भुजो दशग्रीवो दर्शनीयपरिच्छदः

त्रिदशारिर्मुनीन्द्रघ्नो दशशीर्ष इवाद्रिराट्

कामगं रथमास्थाय शुशुभे राक्षसेश्वरः

विद्युन्मण्डलवान् मेघः सबलाक इवाम्बरे

सशैलं सागरानूपं वीर्यवानवलोकयन्

नानापुष्पफलैर्वृक्षैरनुकीर्णं सहस्रशः

शीतमङ्गलतोयाभिः पद्मिनीभिः समन्ततः

विशालैराश्रमपदैर्वेदिमद्भिः समावृतम्

कदल्याढकिसम्बाधं नालिकेरोपशोभितम्

सालैस्तालैस्तमालैश्च पुष्पितैस्तरुभिर्वृतम्

नागैः सुपर्णैर्गन्धर्वैः किन्नरैश्च सहस्रशः

अजैर्वैखानसैर्माषैर्वालखिल्यैर्मरीचिपैः

अत्यन्तनियताहारैः शोभितं परमर्षिभिः

जितकामैश्च सिद्धैश्च चारणैरुपशोभितम्

दिव्याभरणमाल्याभिर्दिव्यरूपाभिरावृतम्

क्रीडारतिविधिज्ञाभिरप्सरोभिः सहस्रशः

सेवितं देवपत्नीभिः श्रीमतीभिः श्रिया वृतम्

देवदानवसङ्घैश्च चरितं त्वमृताशिभिः

हंसक्रौञ्चप्लवाकीर्णं सारसैः सम्प्रणादितम्

वैडूर्यप्रस्तरं रम्यं स्निग्धं सागरतेजसा

पाण्डराणि विशालानि दिव्यमाल्ययुतानि

तूर्यगीताभिजुष्टानि विमानानि समन्ततः

तपसा जितलोकानां कामगान्यभिसम्पतन्

गन्धर्वाप्सरसश्चैव ददर्श धनदानुजः

निर्यासरसमूलानां चन्दनानां सहस्रशः

वनानि पश्यन् सौम्यानि घ्राणतृप्तिकराणि

अगरूणां मुख्यानां वनान्युपवनानि

तक्कोलानां जात्यनां फलानां सुगन्धिनाम्

पुष्पणि तमालस्य गुल्मानि मरिचस्य

मुक्तानां समूहानि शुष्यमाणानि तीरतः

शङ्खानां प्रस्तरं चैव प्रवालनिचयं तथा

काञ्चनानि शैलानि राजतानि सर्वशः

प्रस्रवाणि मनोज्ञानि प्रसन्नानि ह्रदानि

धनधान्योपपन्नानि स्त्रीरत्नैः शोभितानि

तं समं सर्वतः स्निग्धं मृदुसंस्पर्शमारुतम्

अनूपं सिन्धुराजस्य ददर्श त्रिदिवोपमम्

तत्रापश्यत्स मेघाभं न्यग्रोधमृषिभिर्वृतम्

समन्ताद्यस्य ताः शाखाः शतयोजनमायताः

यस्य हस्तिनमादाय महाकायं कच्छपम्

भक्षार्थं गरुडः शाखामाजगाम महाबलः

तस्य तां सहसा शाखां भारेण पतगोत्तमः

सुपर्णः पर्णबहुलां बभञ्ज महाबलः

तत्र वैखानसा माषा वालखिल्या मरीचिपाः

अजा बभूवुर्धूम्राश्च सङ्गताः परमर्षयः

तेषां दयार्थं गरुडस्तां शाखां शतयोजनाम्

जगामादाय वेगेन तौ चौभौ गजकच्छपौ

एकपादेन धर्मात्मा भक्षयित्वा तदामिषम्

निषादविषयं हत्वा शाखया पतगोत्तमः

प्रहर्षमतुलं लेभे मोक्षयित्वा महामुनीन्

तेनैव प्रहर्षेण द्विगुणीकृतविक्रमः

अमृतानयनार्थं वै चकार मतिमान् मतिम्

अयोजालानि निर्मथ्य भित्त्वा रत्नमयं गृहम्

महेन्द्रभवनाद्गुप्तमाजहारामृतं ततः

तं महर्षिगणैर्जुष्टं सुपर्णकृतलक्षणम्

नाम्ना सुभद्रं न्यग्रोधं ददर्श धनदानुजः

तं तु गत्वा परं पारं समुद्रस्य नदीपतेः

ददर्शाश्रममेकान्ते रम्ये पुण्ये वनान्तरे

तत्र कृष्णाजिनधरं जटावल्कलधारिणम्

ददर्श नियताहारं मारीचं नाम राक्षसम्

रावणः समागम्य विधिवत्तेन रक्षसा

मारीचेनार्चितो राजा सर्वकामैरमानुषैः

तं स्वयं पूजयित्वा तु भोजनेनोदकेन

अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत्

कच्चित् सुकुशलं राजन् लङ्कायां राक्षसेश्वर

केनार्थेन पुनस्त्वं वै तूर्णमेवमिहागतः

एवमुक्तो महातेजा मारीचेन रावणः

तं तु पश्चादिदं वाक्यमब्रवीद्वाक्यकोविदः