Kanda 3 ARK-026-Dooshana Vadhaha

सन्दिदेश महाबाहुर्भीमवेगान् दुरासदान्

राक्षसान् पञ्च साहस्रान् समरेष्वनिवर्तिनः

ते शूलैः पट्टिशै खङ्गैः शिलावर्षेर्द्रुमैरपि

शरवर्षैरविच्छिन्नं ववृषुस्तं समन्ततः

द्रुमाणां शिलानां वर्षं प्राणहरं महत्

प्रतिजग्राह धर्मात्मा राघवस्तीक्ष्णसायकैः

प्रतिगृह्य तद्वर्षं निमीलित इवर्षभः

रामः क्रोधं परं भेजे वधार्थं सर्वरक्षसाम्

ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा

शरैरवाकिरत्सैन्यं सर्वतः सहदूषणम्

ततः सेनापतिः क्रुद्धो दूषणः शत्रुदूषणः

शरैरशनिकल्पैस्तं राघवं समवाकिरत्

ततो रामः सुसङ्क्रुद्धः क्षुरेणास्य महद्धनुः

चिच्छेद समरे वीरश्चतुर्भिश्चतुरो हयान्

हत्वा चाश्वन् शरैस्तीक्ष्णैरर्धचन्द्रेण सारथेः

शिरो जहार तद्रक्षस्रिभिर्विव्याध वक्षसि

च्छिन्नधन्वा विरथो हताश्वो हतसारथिः

जग्राह गिरिशृङ्गाभं परिघं रोमहर्षणम्

वेष्टितं काञ्चनैः पट्टैर्देवसैन्यप्रमर्दनम्

आयसैः शङ्कुभिस्तीक्ष्णैः कीर्णं परवसोक्षितम्

वज्राशनिसमस्पर्शं परगोपुरदारणम्

तं महोरगसङ्काशं प्रगृह्य परिघं रणे

दूषणोभ्यद्रवद्रांमं क्रूरकर्मा निशाचरः

तस्याभिपतमानस्य दूषणस्य राघवः

द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ

भ्रष्टस्तस्य महाकायः पपात रणमूर्द्धिनि

परिघश्छिन्नहस्तस्य शक्रध्वज इवाग्रतः

कराभ्यां विकीर्णाभ्यां पपात भुवि दूषणः

विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः

तं दृष्ट्वा पतितं भूमौ दूषणं निहतं रणे

साधुसाध्विति काकुत्स्थं सर्वभूतान्यपूजयन्

एतस्मिन्नन्तरे क्रुद्धास्त्रयः सेनाग्रयायिनः

संहत्याभ्यद्रवन् रामं मृत्युपाशावपाशिताः

महाकपालो विपुलं शूलमुद्यम्य राक्षसः

स्थूलाक्षः पट्टिशं गृह्य प्रमाथी परश्वधम्

दृष्ट्वैवापततस्तूर्णं राघवः सायकैः शितैः

तीक्ष्णाग्रैः प्रतिजग्राह सम्प्राप्तानतिथीनिव

महाकपालस्य शिरश्चिच्छेद परमेषुभिः

असङ्ख्येयैस्तु बाणौघैः प्रममाथ प्रमाथिनम्

पपात हतो भूमौ विटपीव महाद्रुमः

स्थूलाक्षस्याक्षिणी तीक्ष्णैः पूरयामास सायकैः

दूषणस्यानुगान् पञ्चसाहस्रान् कुपितः क्षणात्

बाणौघैः पञ्चसाहस्रैरनयद्यमसादनम्

दूषणं निहतं दृष्ट्वा तस्य चैव पदानुगान्

व्यदिदेश खरः क्रुद्धः सेनाध्यक्षान् महाबलान्

अयं विनिहतः सङ्ख्ये दूषणः सपदानुगः

महत्या सेनया सार्धं युध्वा रामं कुमानुषम्

शस्त्रैर्नानाविधाकारैर्हनध्वं सर्वराक्षसाः

एवमुक्त्वा खरः क्रुद्धो राममेवाभिदुद्रुवे

श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहङ्गमः

दुर्जयः करवीराक्षः परुषः कालकार्मुकः

मेघमाली महामाली सर्पास्यो रुधिराशनः

द्वादशैते महावीर्या बलाध्यक्षाः ससैनिकाः

राममेवाभ्यवर्तन्त विसृजन्तः शरोत्तमान्

ततः पावक सङ्काशैर्हेमवज्रविभूषितैः

जघान शेषं तेजस्वी तस्य सैन्यस्य सायकैः

ते रुक्मपुङ्खा विशिखाः सधूमा इव पावकाः

निजध्नुस्तानि रक्षांसि वज्रा इव महाद्रुमान्

रक्षसां तु शतं रामः शतेनैकेन कर्णिना

सहस्रं सहस्रेण जघान रणमूर्धनि

तैर्भिन्नवर्माभरणाश्छिन्नभिन्नशरासनाः

निपेतुः शोणितादिग्धा धरण्यां रजनीचराः

तैर्मुक्तकेशैः समरे पतितैः शोणितोक्षितैः

आस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैरिव

क्षणेन तु महाघोरं वनं निहतराक्षसम्

बभूव निरयप्रख्यं मांसशोणितकर्दमम्

चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम्

हतान्येकेन रामेण मानुषेण पदातिना

तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः

राक्षसस्त्रिशिराश्चैव रामश्च रिपुसूदनः

शेषा हता महासत्त्वा राक्षसा रणमूर्धनि

घोरा दुर्विषहाः सर्वे लक्ष्मणस्याग्रजेन ते

ततस्तु तद्भीमबलं महाहवे समीक्ष्य रामेण हतं बलीयसा

रथेन रामं महता खरस्तदा समाससादेन्द्र इवोद्यताशनिः