Kanda 3 ARK-022-Kharasya Yudhdha Sidhathaa

एवमाधर्षितः शूरः शूर्पणख्या खरस्तदा

उवाच रक्षसां मध्ये खरः खरतरं वचः

तवावमानप्रभवः क्रोधोऽयमतुलो मम

श्क्यते धारयितुं लवणाम्भ इवोत्थितम्

रामं गणये वीर्यान्मानुषं क्षीणजीवितम्

आत्मदुश्चरितैः प्राणान् हतो योऽद्य विमोक्ष्यति

बाष्पः संह्रियतामेष सम्भ्रमश्च विमुच्यताम्

अहं रामं सह भ्रात्रा नयामि यमसादनम्

परश्वधहतस्याद्य मन्दप्राणस्य संयुगे

रामस्य रुधिरं रक्तमुष्णं पास्यसि राक्षसि

सा प्रहृष्टा वचः श्रुत्वा खरस्य वदनच्च्युतम्

प्रशशंस पुनर्मौर्ख्याद् भ्रातरं रक्षसां वरम्

तया परुषितः पूर्वं पुनरेव प्रशंसितः

अब्रवीद्दूषणं नाम खऱः सेनापतिं तदा

चतुर्दश सहस्राणि मम चित्तानुवर्तिनाम्

रक्षसां भीमवेगानां समरेष्वनिवर्तिनाम्

नीलजीमूतवर्णानां घोराणां क्रूरकर्मणाम्

लोकहिंसाविहाराणां बलिनामुग्रतेजसाम्

तेषां शार्दूलदर्पाणां महास्यानां महौजसाम्

सर्वोद्योगमुदीर्णानां रक्षसां सौम्य कारय

उपस्थापय मे क्षिप्रं रथं सौम्य धनूंषि

शरांश्चित्रांश्च खङ्गांश्च शक्तीश्च विविधाः शिताः

अग्रे निर्यातुमिच्छामि पौलस्त्यानां महात्मनाम्

वधार्थं दुर्विनीतस्य रामस्य रणकोविदः

इति तस्य ब्रुवाणस्य सूर्यवर्णं महारथम्

सदश्वैः शबलैर्युक्तमाचचक्षेऽथ दूषणः

तं मेरुशिखराकारं तप्तकाञ्चनभूषणम्

हेमचक्रमसम्बाधं वैडूर्यमयकूबरम्

मत्स्यैः पुष्पैर्द्रुमैः शैलैश्चन्द्रसूर्यैश्च काञ्चनैः

मङ्गलैः पक्षिसङ्घैश्च ताराभिरभिसंवृतम्

ध्व़जनिस्त्रिंशसम्पन्नं किङ्किणीकविराजितम्

सदश्वयुक्तं सोमर्षादारुरोह खरो रथम्

निशाम्य तु रथस्थं तं राक्षसा भीमविक्रमाः

तस्थुः सम्परिवार्यैनं दूषणं महाबलम्

खरस्तु तान् महेष्वासान् घोरवर्मायुधध्वजान्

निर्यातेत्यब्रमीद्धृष्टो रथस्थः सर्वराक्षसान्

ततस्तद्राक्षसं सैन्यं घोरवर्मायुधध्वजम्

निर्जगाम जनस्थानान्महानादं महाजवम्

मुद्गरैः पट्टिशैः शूलैः सुतीक्ष्णैश्च परश्वधैः

खङ्गैश्चक्रैश्च हस्तस्थैर्भ्राजमानैश्च तोमरैः

शक्तिभिः परिघैर्घोरैरतिमात्रैश्च कार्मुकैः

गदासिमुसलैर्वज्रैर्घृहीतैर्भीमदर्शनैः

राक्षसानां सुघोराणां सहस्राणि चतुर्दश

निर्यातानि जनस्थानात् खरचित्तानुवर्त्तिनाम्

तांस्त्वभिद्रवतो दृष्ट्वा राक्षसान् भीमविक्रमान्

खरस्यापि रथः किञ्चिज्जगाम तदनन्तरम्

ततस्तान् शबलानश्वांस्तप्तकञ्चनबूषितान्

खरस्य मतिमाज्ञाय सारथिः समचोदयत्

चोदितो रथः शीघ्रं खरस्य रिपुघातिनः

शब्देनापूरयामास दिशश्च प्रदिशस्तदा

प्रवृद्धमन्युस्तु खरः खरस्वनो रिपोर्वधार्थं त्वरितो यथान्तकः

अचूचुदत्सारथिमुन्नदन् घनं महाबलो मेघ इवाश्म वर्षवान्