Kanda 3 ARK-019-Kharaya Angavairupya Kathanam

तां यथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम्

भगिनीं क्रोधसन्तप्तः खरः पप्रच्छ राक्षसः

उत्तिष्ठ तावदाख्याहि प्रमोहं जहि सम्भ्रमम्

व्यक्तमाख्याहि केन त्वमेवंरूपा विरूपिता

कः कृष्णसर्पमासीनमाशीविषमनागसम्

तुदत्यभिसमापन्नमङ्गुल्यग्रेण लीलया

कः कालपाशमासज्यं कण्ठे मोहान्न बुद्ध्यते

यस्त्वामद्य समासाद्य पीतवान् विषमुत्तमम्

बलविक्रमसम्पन्ना कामगा काम रूपिणी

इमामवस्थां नीता त्वं केनान्तकसमा गता

देवगन्धर्वभूतानामृषीणां महात्मनाम्

कोऽयमेवं विरूपां त्वां महावीर्यश्चकार

नहि पश्याम्यहं लोके यः कुर्यान्मम विप्रियम्

अन्तरेण सहस्राक्षं महेन्द्रं पाकशासनम्

अद्याहं मार्गणैः प्राणानादास्ये जीवितान्तकैः

सलिले क्षीरमासक्तं निष्पिबन्निव सारसः

निहतस्य मया सङ्ख्ये शरमङ्कृत्तमर्मणः

सफेनं रुधिरं रक्तं मेदिनी कस्य पास्यति

कस्य पत्त्ररथाः कायान्मांसमुत्कृत्य सङ्गताः

प्रहृष्टा भक्षयिष्यन्ति निहस्य मया रणे

तं देवा गन्धर्वा पिशाचा राक्षसाः

मयापकृष्टं कृपणं शक्तास्त्रातुमिहाहवे

उपलभ्य शनैः सञ्ज्ञां तं मे शंसितुमर्हसि

येन त्वं दुर्विनीतेन वने विक्रम्य निर्जिता

इति भ्रातुर्वचः श्रुत्वा क्रुद्धस्य विशेषतः

ततः शूर्पणखा वाक्यं सबाष्पमिदमब्रवीत्

तरुणौ रुपसम्पन्नौ सुकुमारौ महाबलौ

पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ

फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ

पुत्रौ दशरथस्यास्तां भ्रातारौ रामलक्ष्मणौ

गन्धर्वराजप्रतिमौ पार्थिवव्यञ्जनान्वितौ

देवौ वा मानुषौ वा तौ तर्कयितुमुत्सहे

तरुणी रूपम्पन्ना सर्वाभरणभृषिता

दृष्टा तत्र मया नारी तयोर्मध्ये सुमध्यमा

ताभ्यामुभाभ्यां सम्भूय प्रमदामधिकृत्य ताम्

इमामवस्थां नीताहं यथानाथासती तथा

तस्याश्चानृजुवृत्तायास्तयोश्च हतयोरहम्

सफेनं पातुमिच्छामि रुधिरं रणमूर्धनि

एष मे प्रथमः कामः कृतस्तात त्वया भवेत्

तस्यास्तयोश्च रुधिरं पिबेयमहमाहवे

इति तस्यां ब्रुवाणायां चतुर्दश महाबलान्

व्यादिदेश खरः क्रुद्धो राक्षसानन्तकोपमान्

मानुषौ शस्त्रसम्पन्नौ चीरकृष्णाजिनाम्बरौ

प्रविष्टौ दण्डकारण्यं घोरं प्रमदया सह

तौ हत्वा तां दुर्वृत्तामपावर्तितुमर्हथ

इयं रुधिरं तेषां भगिनी मम पास्यति

मनोरथोऽयमिष्टोस्या भगिन्या मम राक्षसाः

शीघ्रं सम्पाद्यतां तौ प्रमथ्य स्वेन तेजसा

इति प्रतिसमादिष्टा राक्षसास्ते चतुर्दश

तत्र जग्मुस्तया सार्धं घना वातेरिता यथा

ततस्तु ते तं समुदग्रतेजसं तथापि तीक्ष्णप्रदरा निशाचराः

शेकुरेनं सहसा प्रमर्दितुं वनद्विपा दीप्तमिवाग्निमुत्थितम्