Kanda 3 ARK-018-Shoorpanakha Shasanam

ततः शूर्पणखां रामः कामपाशावपाशिताम्

स्वच्छया श्लक्ष्णया वाचा स्मितपूर्वमथाब्रवीत्

कृतदारोऽस्मि भवति भार्येयं दयिता मम

त्वद्विधानां तु नारीणां सुदुःखा ससपत्नता

अनुजस्त्वेष मे भ्राता शीलवान् प्रियदर्शनः

श्रीमानाकृतदारश्च लक्ष्मणो नाम वीर्यवान्

अपूर्वी भार्यया चार्थी तरुणः प्रियदर्शनः

अनुरूपश्च तेभर्ता रूपस्यास्य भविष्यति

एनं भज विशालाक्षि भर्तारं भ्रातरं मम

असपत्ना वरारोहे मेरुमर्कप्रभा यथा

इति रामेण सा प्रोक्ता राक्षसी काममोहिता

विसृज्य रामं सहसा ततो लक्ष्मणमब्रवीत्

अस्य रूपस्य ते युक्ता भार्याहं वरवर्णिनी

मया सह सुखं सर्वान् दण्डकान् विचरिष्यसि

एवमुक्तस्तु सौमित्री राक्षस्या वाक्यकोविदः

ततः शूर्पनखीं स्मित्वा लक्ष्मणो युक्तमब्रवीत्

कथं दासस्य मे दासी भार्या भवितुमिच्छसि

सोऽहमार्येण परवान् भ्रात्राकमलवर्णिनि

समृद्धार्थस्य सिद्धार्थामुदितामलवर्णिनी

आर्यस्य त्वं विशालाक्षि भार्या भव यवीयसी

एनां विरूपामसतीं करालां निर्णतोदरीम्

भार्यां वृद्धां परित्यज्य त्वामेवैष भजिष्यति

को हि रूपमिदं श्रेष्ठं सन्त्यज्य वरवर्णिनि

मानुषीषु वरारोहे कुर्याद्भावं विचक्षणः

इति सा लक्ष्मणेनोक्ता कराला निर्णतोदरी

मन्यते तद्वचस्तथ्यं परिहासाविचक्षणा

सा रामं पर्णशालायामुपविष्टं परन्तपम्

सीतया सह दुर्धर्षमब्रवीत् काममोहिता

एनां विरूपामसतीं करालां निर्णतोदरीम्

वृद्धां भार्यामवष्टभ्य मां त्वं बहुमन्यसे

अद्येमां भक्षयिष्यामि पश्यतस्तव मानुषीम्

त्वया सह चरिष्यामि निस्सपत्ना यथासुखम्

इत्युक्त्वा मृगशावाक्षीमलातसदृशेक्षणा

अभ्यधावत् सुसङ्क्रुद्धा महोल्का रोहिणीमिव

तां मृत्युपाशप्रतिमामापतन्तीं महाबलः

निगृह्य रामः कुपितस्ततो लक्ष्मणमब्रवीत्

क्रूरैरनार्यैः सौमित्रे परिहासः कथञ्चन

कार्यः पश्य वैदेहीं कथञ्चित् सौम्य जीवतीम्

इमां विरूपामसतीमतिमत्तां महोदरीम्

राक्षसीं पुरुषव्याघ्र विरूपयितुमर्हसि

इत्युक्तो लक्ष्मणस्तस्याः क्रुद्धो रामस्य पार्श्वतः

उद्धत्य खङ्गं चिच्छेद कर्णनासं महाबलः

निकृत्तकर्णनासा तु विस्वरं सा विनद्य

यथागतं प्रदुद्राव घोरा शूर्पणखा वनम्

सा विरूपा महाघोरा राक्षसी शोणितोक्षिता

ननाद विविधान्नादान् यथा प्रावृषि तोयदः

सा विक्षरन्ती रुधिरं बहुधा घोरदर्शना

प्रगृह्य बाहू गर्जन्ती प्रविवेश महावनम्

ततस्तु सा राक्षससङ्घसंवृतं खरं जनस्थानगतं विरूपिता

उपेत्य तं भ्रातरमुग्रदर्शनं पपात भूमौ गगनाद्यथाऽशनिः

ततः सभार्यं भयमोहमूर्च्छिता सलक्ष्मणं राघवमागतं वनम्

विरूपणं चात्मनि शोणितोक्षिता शशंस सर्वं भगिनी खरस्य सा