कृताभिषेको रामस्तु सीता सौमित्रिरेव च
तस्माद्गोदावरीतीरात्ततो जग्मुः स्वामाश्रमम्
आश्रमं तमुपागम्य राघवः सह लक्ष्मणः
कृत्वा पौर्वह्णिकं कर्म पर्णशालामुपागमत्
उवास सुखितस्तत्र पूज्यमानो महर्षिभिः
लक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः
स रामः पर्णशालायामासीनः सह सीतया
विरराज महाबाहुश्चित्रया चन्द्रमा इव
तथासीनस्य रामस्य कथासंसक्तचेतसः
तं देशं राक्षसी काचिदाजगाम यदृच्छाया
सा तु शूर्मणखा नाम दशग्रीवस्य रक्षसः
भगिनी राममासाद्य ददर्श त्रिदशोपमम्
सिंहोरस्कं महाबाहुं पद्मपत्त्रनिभेक्षणम्
आजानुबाहुं दीप्तास्यमतीव प्रियदर्शनम्
गजविक्रान्तगमनं जटामण्डलधारिणम्
सुकुमारं महासत्त्वं पार्थिवव्यञ्जनान्वितम्
राममिन्दीवरश्यामं कन्दर्पसदृशप्रभम्
बभूवेन्द्रोपमं दृष्टवा राक्षसी काममोहिता
सुमुखं दुर्मुखी रामं वृत्तमध्यं महोदरी
विशालाक्षं विरूपाक्षी सुकेशं ताम्रमूर्धजा
प्रीतिरूपं विरूपा सा सुस्वरं भैरवस्वरा
तरुणं दारुणा वृद्धा दक्षिणं वामभाषिणी
न्यायवृत्तं सुदुर्वृत्ता प्रियमप्रियदर्शना
शरीरजसमाविष्टा राक्षसी वाक्यमब्रवीत्
आगतस्त्वमिमं देशं कथं राक्षससेवितम्
किमागमनकृत्यं ते तत्त्वमाख्यातुमर्हसि
एवमुक्तस्तु राक्षस्या शूर्पनख्या परन्तपः
ऋजुबुद्धितया सर्वमाख्यातुमुपचक्रमे
अनृतं नहि रामस्य कदाचिदपि सम्मतम्
विशेषेणाश्रमस्थस्य समीपे स्त्रीजनस्य च
आसीद्दशरथो नाम राजा त्रिदशविक्रमः
तस्याहमग्रजः पुत्रो रामो नाम जनैःश्रुतः
भ्राताऽयं लक्ष्मणो नाम यमीयान् मामनुव्रतः
इयं भार्या च वैदेही मम सीतेति विश्रुता
नियोगात्तु नरेन्द्रस्य पितुर्मातुश्च यन्त्रितः
घर्मार्थं धर्मकाङ्क्षी च वनं वस्तुमिहागतः
त्वां तु वेदितुमिच्छामि कथ्यतां काऽसि कस्य वा
नहि तावन्मनोज्ञाङ्गी राक्षसी प्रतिभासि मे
इह वा किन्निमित्तं त्वमागता ब्रूहि तत्त्वतः
साऽब्रवीद्वचनं श्रुत्वा राक्षसी मदनार्दिता
श्रूयतां राम वक्ष्यामि तत्त्वार्थं वचनं मम
अहं शूर्पणखा नाम राक्षसी कामरूपिणी
अरण्यं विचरामीदमेका सर्वभयङ्करा
रावणो नाम मे भ्राता बलीयान् राक्षसेश्वरः
वीरो विश्रवसः पुत्रो यदि ते श्रोत्रमागतः
प्रवृद्धनिद्रश्च सदा कुम्भकर्णो महाबलः
विभीषणस्तु धर्मात्मा न तु राक्षसचेष्टितः
तानहं समतिक्रान्ता राम त्वापूर्वदर्शनात्
समुपेतास्मि भावेन भर्तारं पुरुषोत्तमम्
अहं प्रभावमम्पन्ना स्वच्छन्दबलगामिनी
चिराय भव मे भर्ता सीतया किं करिष्यसि
विकृता च विरूपा च न चेयं सदृशी तव
अहमेवानुरूपा ते भार्यारूपेण पश्य माम्
इमां विरूपामसतीं करालां निर्णतोदरीम्
अनेन ते सह भ्रात्रा भक्षयिष्यामि मानुषीम्
ततः पर्वतशृङ्गाणि वनानि विविधानि च
पश्यन् सह मया कान्त दण्डकान् विचरिष्यसि
इत्येवमुक्तः काकुत्स्थः प्रहस्य मदिरेक्षणाम्
इदं वचनमारेभे वक्तुं वाक्यविशारदः