Kanda 3 ARK-012-Agastya Darshanam

प्रविश्याश्रमपदं लक्ष्मणो राघवानुजः

अगस्त्यशिष्यमासाद्य वाक्यमेतदुवाच

राजा दशरथो नाम ज्येष्ठस्तस्य सुतो बली

रामः प्राप्तो मुनिं द्रष्टुं भार्यया सह सीतया

लक्ष्मणो नाम तस्याहं भ्राता त्ववरजो हितः

अनुकूलश्च भक्तश्च यदि ते श्रोत्रमागतः

ते वयं वनमत्युग्रं प्रविष्टाः पितृशासनात्

द्रष्टुमिच्छामहे सर्वे भगवन्तं निवेद्यताम्

तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य तपोधनः

तथेत्युक्त्वाग्निशरणं प्रविवेश निवेदितुम्

कृताञ्जलिरुवाचेदं रामागमनमञ्जसा

यथोक्तं लक्ष्मणेनैव शिष्योऽगस्त्यस्य सम्मतः

पुत्रौ दशरथस्येमौ रामो लक्ष्मण एव

प्रविष्टावाश्रमपदं सीतया सह भार्यया

द्रष्टुं भवन्तमायातौ शुश्रूषार्थमरिन्दमौ

यदत्रानन्तरं तत्त्वमाज्ञापयितुमर्हसि

ततः शिष्यादुपश्रुत्य प्राप्तं रामं सलक्ष्मणम्

वैदेहीं महाभागामिदं वचनमब्रवीत्

दिष्ट्या रामश्चिरस्याद्य द्ष्टुं मां समुपागतः

मनसा काङ्क्षितं ह्यस्य मयाप्यागमनं प्रति

गम्यतां सत्कृतो रामः सभार्यः सहलक्ष्मणः

प्रवेश्यतां समीपं मे किञ्चासौ प्रवेशितः

एवमुक्तस्तु मुनिना धर्मज्ञेन महात्मना

अभिवाद्याब्रवीच्छिष्यस्तथेति नियताञ्जलिः

ततो निष्क्रम्य सम्भ्रान्तः शिष्यो लक्ष्मणमब्रवीत्

क्वासौ रामो मुनिं द्रष्टुमेतु प्रविशतु स्वयम्

ततो गत्वाश्रमद्वारं शिष्येण सहलक्ष्मणः

दर्शयामास काकुत्स्थं सीतां जनकात्मजाम्

तं शिष्यः प्रश्रितो वाक्यमगस्त्यवचनं ब्रुवन्

प्रावेशयद्यथान्यायं सत्कारार्हं सुसत्कृतम्

प्रविवेश ततो रामः सीतया सह लक्ष्मणः

प्रशान्तहरिणाकीर्णमाश्रमं ह्यवलोकयन्

तत्र ब्रह्मणः स्थानमग्नेः स्थानं तथैव

विष्णोः स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः

सोमस्थानं भगस्थानं स्थानं कौबेरमेव

धातुर्विधातुः स्थाने वायोः स्थानं तथैव

नागराजस्य स्थानमनन्तस्य महात्मनः

स्थानं तथैव गायत्र्या वसूनां स्थानमेव

स्थानं पाशहस्तस्य वरुणस्य महात्मनः

कार्तिकेयस्य स्थानं धर्मस्थानं पश्यति

ततः शिष्यैः परिवृतो मुनिरप्यभिनिष्पतत्

तं ददर्शाग्रतो रामो मुनीनां दीप्ततेजसाम्

अब्रवीद्वचनं वीरो लक्ष्मणं लक्ष्मिवर्धनम्

एष लक्ष्मण निष्क्रामत्यगस्त्यो भगवानृषिः

औदार्येणावगच्छामि निधानं तपसामिमम्

एवमुक्त्वा महाबाहुरगस्त्यं सूर्यवर्चसम्

जग्राह परमप्रीतस्तस्य पादौ परन्तपः

अभिवाद्य तु धर्मात्मा तस्थौ रामः कृताञ्जलिः

सीतया सह वैदेह्या तदा रामः सलक्ष्मणः

प्रतिजग्राह काकुत्स्थमर्चयित्वासनोदकैः

कुशलवप्रश्नमुक्त्वा ह्यास्यतामिति चाब्रवीत्

अग्निं हुत्वा प्रदायार्ध्यमतिथीन् प्रतिपूज्य

वानप्रस्थेन धर्मेण तेषां भोजनं ददौ

प्रथमं चोपविश्याथ धर्मज्ञो मुनिपुङ्गवः

उवाच राममासीनं प्राञ्जलिं धर्मकोविदम्

अन्यथा खलु काकुत्स्थ तपस्वी समुदाचरन्

दुःसाक्षीव परे लोके स्वानि मांसानि भक्षयेत्

राजा सर्वस्य लोकस्य धर्मचारी महारथः

पूजनीयश्च मान्यश्च भवान् प्राप्तः प्रियातिथिः

एवमुक्त्वा फलैर्मूलैः पुष्पैरन्येश्च राघवम्

पूजयित्वा यथाकामं पुनरेव ततोऽब्रवीत्

इदं दिव्यं महच्चापं हेमरत्नविभूषितम्

वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा

अमोघः सूर्यसङ्काशो ब्रह्मदत्तः शरोत्तमः

दत्तौ मम महेन्द्रेण तूणी चाक्षयसायकौ

सम्पूर्णौ निशितैर्बाणैर्ज्वलद्भिरिव पावकैः

महारजत कोशोऽयमसिर्हेमविभूषितः

अनेन धनुषा राम हत्वा सङ्ख्ये महासुरान्

आजहार श्रियं दीप्तां पुरा विष्णुर्दिवौकसाम्

तद्धनुस्तौ तूणीरौ शरं खङ्गं मानद

जयाय प्रतिगृह्णीष्व वज्रं वज्रधरो यथा

एवमुक्त्वा महातेजाः समस्तं तद्वरायुधम्

दत्त्वा रामाय भगवानगस्त्यः पुनरब्रवीत्