Kanda 3 ARK-009-Sitaya Aayudhanyasa Pradhana

सुतीक्ष्णेनाभ्यनुज्ञातं प्रस्थितं रघुनन्दनम्

हृद्यया स्निग्धया वाचा भर्तारमिदमब्रवीत्

अयं धर्मस्सुसूक्ष्मेण विधिना प्राप्यते महान्

निवृत्तेन तु शक्योऽयं व्यसनात् कामजादिह

मिथ्यावाक्यं परमकं तस्माद् गुरुतरावुभौ

परदाराभिगमनं विना वैरं रौद्रता

मिथ्यावाक्यं ते भूतं भविष्यति राघव

कुतोऽभिलाषणं स्त्रीणां परेषां धर्मनाशनम्

तव नास्ति मनुष्येन्द्र चाभूत्ते कदाचन

मनस्यपि तथा राम चैतद्विद्यते क्वचित्

स्वदारनिरतस्त्वं नित्यमेव नृपात्मज

धर्मिष्ठस्सत्यसन्धश्च पितुर्निर्देशकारकः

सत्यसन्ध महाभाग श्रीमँल्लक्ष्णपूर्वज

त्वयि सत्यं धर्मश्च त्वयि सर्वं प्रतिष्ठितम्

तच्च सर्वं महाबाहो शक्यं धर्तुं जितेन्द्रियैः

तव वश्येन्द्रियत्वं जानामि शुभदर्शन

तृतीयं यदिदं रौद्रं परप्राणाभिहिंसनम्

निर्वैरं क्रियते मोहात्तच्च ते समुपस्थितम्

प्रतिज्ञातस्त्वया वीर दण्डकारण्यवासिनाम्

ऋषीणां रक्षणार्थाय वधस्संयति रक्षसाम्

एतन्निमित्तं वनं दण्डका इति विश्रुतम्

प्रस्थितस्त्वं सह भ्रात्रा धृतबाणशरासनः

ततस्त्वां प्रस्थितं दृष्ट्वा मम चिन्ताकुलं मनः

त्वद्वृत्तं चिन्तयन्त्या वै भवेन्निःश्रेयसं हितम्

नहि मे रोचते वीर गमनं दण्डकान्प्रति

कारणं तत्र वक्ष्यामि वदन्त्याः श्रूयतां मम

त्वं हि बाणधनुष्पाणिर्भ्रात्रा सह वनं गतः

दृष्ट्वा वनचरान् सर्वान् कच्चित् कुर्याश्शरव्ययम्

क्षत्त्रियाणां हि धनुर्हुताशस्येन्धनानि

समीपतः स्थितं तेजोबलमुच्छ्रयते भृशम्

पुरा किल महाबाहो तपस्वी सत्यवाक् शुचिः

कस्मिंश्चिदभवत्पुण्ये वने रतमृगद्विजे

तस्यैव तपसो विध्नं कर्तुमिन्द्रश्शचीपतिः

खङ्गपाणिरथागच्छदाश्रमं भटरूपधृत्

तस्मिंस्तदाश्रमपदे निशितः खङ्ग उत्तमः

न्यासविधिना दत्तः पुण्ये तपसि तिष्ठतः

तच्छस्त्रमनुप्राप्य न्यासरक्षणतत्परः

वने तं विचरत्येव रक्षन् प्रत्ययमात्मनः

यत्र गच्छत्युपादातुं मूलानि फलानि

विना याति तं खङ्गं न्यासरक्षणतत्परः

नित्यं शस्त्रं परिवहन् क्रमेण तपोधनः

चकार रौद्रीं स्वां बुद्धिं त्यक्त्वा तपसि निश्चयम्

ततः रौद्रेऽभिरतः प्रमत्तोऽधर्मकर्शितः

तस्य शस्त्रस्य संवासाज्जगाम नरकं मुनिः

एवमेतत्पुरा वृत्तं शस्त्रसंयोगकारणम्

अग्निसंयोगवद्धेतुश्शस्त्रसंयोग उच्यते

स्नेहाच्च बहुमानाच्च स्मारये त्वां शिक्षये

बुद्धिर्वैरं विना हन्तुं राक्षसान् दण्डकाश्रितान्

अपराधं विना हन्तुं लोकान् वीर कामये

क्षत्त्रियाणां तु वीराणां वनेषु निरतात्मनाम्

धनुषा कार्यमेतावदार्तानामभिरक्षणम्

क्व शस्त्रं क्व वनं क्व क्षात्त्रं तःप क्व

व्याविद्धमिदमस्माभिर्देशधर्मस्तु पूज्यताम्

तदार्य कलुषा बुद्धिर्जायते शस्त्रसेवनात्

पुनर्गत्वा त्वयोध्यायां क्षत्त्रधर्मं चरिष्यसि

अक्षया तु भवेत्प्रीतिः श्वश्रूश्वशुरयोर्मम

यदि राज्यं परित्यज्य भवेस्त्वं निरतो मुनिः

धर्मादर्थः प्रभवति धर्मात्प्रभवते सुखम्

धर्मेण लभते सर्वं धर्मसारमिदं जगत्

आत्मानं नियमैस्तैस्तैः कर्शयित्वा प्रयत्नतः

प्राप्यते निपुणैर्धर्मो सुखाल्लभ्यते सुखम्

नित्यं शुचिमतिः सौम्य चर धर्मं तपोवने

सर्वं हि विदितं तुभ्यं त्रेलोक्यमपि तत्त्वतः

स्त्रीचापलादेतदुदाहृतं मे धर्मं वक्तुं तव कस्समर्थः

विचार्य बुद्ध्या तु सहानुजेन यद्रोचते तत्कुरु मा चिरेण