Kanda 3 ARK-008-Dandakavana Nishkramanam

रामस्तु सहसौमित्रिस्सुतीक्ष्णेनाभिपूजितः

परिणाम्य निशां तत्र प्रभाते प्रत्यबुद्ध्यत

उत्थाय तु यथाकालं राघवः सह सीतया

उपास्पृशत्सुशीतेन जलेनोत्पलगन्धिना

अथ तेऽग्निं सुरांश्चैव वैदेही रामलक्ष्मणौ

काल्यं विधिवदभ्यर्च्य तपस्विशरणे वने

उदयन्तं दिनकरं दृष्ट्वा विगतकल्मषाः

सुतीक्ष्णमभिगम्येदं श्लक्ष्णं वचनमब्रुवन्

सुखोषितास्स्म भगवन् त्वया पूज्येन पूजिताः

आपृच्छामः प्रयास्यामो मुनयस्त्वरयन्ति नः

त्वरामहे वयं द्रष्टुं कृत्स्नमाश्रममण्डलम्

ऋषीणां पुण्यशीलानां दण्डकारण्यवासिनाम्

अभ्यनुज्ञातुमिच्छामस्सहैभिर्मुनिपुङ्गवैः

धर्मनित्यैस्तपौदान्तैर्विशिखैरिव पावकैः

अविषह्यातपो यात्सूर्यो नातिविराजते

अमार्गेणागतां लक्ष्मीं प्राप्येवान्वयवर्जितः

तावदिच्छामहे गन्तुमित्युक्त्वा चरणौ मुनेः

ववन्दे सहसौमित्रिस्सीतया सह राघवः

तौ संस्पृशन्तौ चरणावुत्थाप्य मुनिपुङ्गवः

गाढमालिङ्ग्य सस्नेहमिदं वचनमब्रवीत्

अरिष्टं गच्छ पन्थानं राम सैमित्रिणा सह

सीतया चानया सार्द्धं छाययेवानुवृत्तया

पश्याश्रमपदं रम्यं दण्डकारण्यवासिनाम्

एषां तपस्विनां वीर तपसा भावितात्मनाम्

सप्राज्यफलमूलानि पुष्पितानि वनानि

प्रशस्तमृगयूथानि शान्तपक्षिगणानि

फुल्लपङ्कजषण्डानि प्रसन्नसलिलानि

कारण्डवविकीर्णानि तटाकानि सरांसि

द्रक्ष्यसे दृष्टिरम्याणि गिरिप्रस्रवणानि

रमणीयान्यरण्यानि मयूराभिरुतानि

गम्यतां वत्स सौमित्रे भवानपि गच्छतु

आगन्तव्यं त्वाय तात पुनरेवाश्रमं मम

एवमुक्तस्तथेत्युक्त्वा काकुत्स्थस्सहलक्ष्मणः

प्रदक्षिणं मुनिं कृत्वा प्रस्थातुमुपचक्रमे

ततः शुभतरे तूणी धनुषी चायतेक्षणा

ददौ सीता तयोर्भ्रात्रोः खङ्गौ विमलौ ततः

आबध्य शुभे तूणी चापौ चादाय सस्वनौ

निष्क्रान्तावाश्रमाद्गन्तुमुभौ तौ रामलक्ष्मणौ

श्रीमन्तौ रूपसम्पन्नौ दीप्यमानौ स्वतेजसा

प्रस्थितौ धृतचापौ तौ सीतया सह राघवौ