Kanda 3 ARK-006-Ramasya Rakshovadha Prathignaa

शरभङ्गे दिवं याते मिनिसङ्घाः समागताः

अभ्यगच्छन्त काकुत्स्थं रामं ज्वलिततेजसम्

वैखानसा वालखिल्यास्सम्प्रक्षाला मरीचिपाः

अश्मकुट्टाश्च बहवः पत्त्राहाराश्च धार्मिकाः

दन्तोलूखलिनश्चैव तथैवोन्मज्जकाः परे

गात्रशय्या अशय्याश्चट तथैवाभ्रावकाशकाः

मुनयः सलिलाहारा वायुभक्षास्तथापरे

आकाशनिलयाश्चैव तथा स्थण्डिलशायिनः

व्रतोपवासिनो दान्तास्तथार्द्रपटवाससः

सजपाश्च तपोनित्यास्तथा पञ्चतपोन्विताः

सर्वे ब्राह्म्या श्रिया जुष्टा दृढयोगास्समाहिताः

शरभङ्गाश्रमे राममभिजग्मुश्च तापसाः

अभिगम्य धर्मज्ञा रामं धर्मभृतां वरम्

ऊचुः परमधर्मज्ञमृषिसङ्घास्समाहिताः

त्वमिक्ष्वाकुकुलस्यास्य पृथिव्याश्च महारथ

प्रधानश्चासि नाथश्च देवानां मघवानिव

विश्रुतस्त्रिषु लोकेषु यशसा विक्रमेण

पितृभक्तिश्च सत्यं त्वयि धर्मश्च पुष्कलः

त्वामासाद्य महात्मानं धर्मज्ञं धर्मवत्सलम्

अर्थित्वान्नाथ वक्ष्यामस्तच्च नः क्षन्तुमर्हसि

अधर्मस्तु महांस्तात भवेत्तस्य महीपतेः

योहरेद्बलिषड्भागं रक्षति पुत्रवत्

युञ्जानः स्वानिव प्राणान् प्राणैरिष्टान् सुतानिव

नित्ययुक्तस्सदा रक्षन् सर्वान् विषयवासिनः

प्राप्नोति शाश्वतीं राम कीर्तिं बहुवार्षिकीम्

ब्रह्मणः स्थानमासाद्य तत्र चापि महीयते

यत्करोति परं धर्मं मुनिर्मूलफलाशनः

तत्र राज्ञश्चतुर्भागः प्रजा धर्मेण रक्षतः

सोऽयं ब्राह्मणभूयिष्ठो वानप्रस्थगणो महान्

त्वन्नाथोऽनाथवद्राम राक्षसैर्बाध्यते भृशम्

एहि पश्य शरीराणि मुनीनां भावितात्मनाम्

हतानां राक्षसैर्घोरैर्बहूनां बहुधा वने

पम्पानदीनिवासानामनुमन्दाकिनीमपि

चित्रकूटालयानां क्रियते कदनं महत्

एवं वयं मृष्यामो विप्रकारं तपस्विनाम्

क्रियमाणं वने घोरं रक्षोभिर्भीमकर्मभिः

ततस्त्वां शरणार्थं शरण्यं समुपस्थिताः

परिपालय नो राम वध्यमानान्निशाचरैः

परा त्वत्तो गतिर्विर पृथिव्यां नोपपद्यते

परिपालय नः सर्वान् राक्षसेभ्यो नृपात्मज

एतच्छ्रुच्वा तु काकुत्स्थस्तापसानां तपस्विनाम्

इदं प्रोवाच धर्मात्मा सर्वानेव तपस्विनः

नैवमर्हथ मां वक्तुमाज्ञप्तोऽहं तपस्विनाम्

केवलेनात्मकार्येण प्रवेष्टव्यं मया वनम्

पितुस्तु निर्देशकरः प्रविष्टोऽहमिदं वनम्

भवतामर्थसिद्ध्यर्थमागतोऽहं यदृच्छया

तस्य मेऽयं वने वासो भविष्यति महाफलः

तपस्विनां रणे शत्रून् हन्तुमिच्छामि राक्षसान्

पश्यन्तु वीर्यमृषयः सभ्रातुर्मे तपोधनाः

दत्त्वाऽभयं चापि तपोधनानां धर्मे धृतात्मा सह लक्ष्मणेन

तपोधनैश्चापि सभाज्यवृत्तः सुतीक्ष्णमेवाभिजगाम वीरः