Kanda 3 ARK-005-Sharabhangasya Agni Praveshaha

ततः सीतां परिष्वज्य समाश्वास्य वीर्यवान्

अब्रवील्लक्ष्मणं रामो भ्रातरं दीप्ततेजसम्

कष्टं वनमिदं दुर्गं स्म वनगोचराः

अभिगच्छामहे शीघ्रं शरभङ्गं तपोधनम्

आश्रमं शरभङ्गस्य राघवोऽभिजगाम

तस्य देवप्रभावस्य तपसा भावितात्मनः

समीपे शरभङ्गस्य ददर्श महदद्भतम्

विभ्राजमानं वपुषा सूर्यवैश्वनरोपमम्

अवरुह्य रथोत्सङ्गात् सकाशे विबुधानुगम्

असंस्पृशन्तं वसुधां ददर्श विबुधेश्वरम्

सुप्रभाभरणं देवं विरजोम्बरधारिणम्

तद्विधैरेव बहुभिः पूज्यमानं महात्मभिः

हरिभिर्वाजिभिर्युक्तमन्तरिक्षगतं रथम्

ददर्शादूरतस्तस्य तरुणादित्यसन्निभम्

पाण्डरभ्रघनप्रख्यं चन्द्रमण्डलसन्निभम्

अपश्यद्विमलं छत्रं चित्रमाल्योपशोभितम्

चामरव्यजने चाग्य्रे रुक्मदण्डे महाधने

गृहीते वरनारीभ्यां धूयमाने मूर्द्धनि

गन्धर्वामरसिद्धाश्च बहवः परर्षयः

अन्तरिक्षगतं देवं वाग्भिरग्य्राभिरीडिरे

सह सम्भाषमाणे तु शरभङ्गेन वासवे

दृष्ट्वा शतक्रतुं तत्र रामो लक्ष्मणमब्रवीत्

रामोऽथ रथमुद्दिश्य लक्ष्मणाय प्रदर्शयन्

अर्चिष्मन्तं श्रिया जुष्टमद्भुतं पश्य लक्ष्मण

प्रतपन्तमिवादित्यमन्तरिक्षगतं रथम्

ये हयाः पुरुहूतस्य पुरा शक्रस्य नः श्रुताः

अन्तरिक्षगता दिव्यास्त इमे हरयो ध्रुवम्

इमे पुरुषव्याघ्रा ये तिष्ठन्त्यभितो रथम्

शतं शतं कुण्डलिनो युवानः खङ्गपाणयः

विस्तीर्णविपुलोरस्काः परिघायतबाहवः

शोणांशुवसनास्सर्वे व्याघ्रा इव दुरासदाः

उरोदेशेषु सर्वेषां हारा ज्वलनसन्निभाः

रूपं बिभ्रति सौमित्रे पञ्चविंशतिवार्षिकम्

एतद्धि किल देवानां वयो भवति नित्यदा

यथेमे पुरुषव्याघ्रा दृश्यन्ते प्रियदर्शानाः

इहैव सह वैदेह्या मुहूर्तं तिष्ठ लक्ष्मण

यावज्जानाम्यहं व्यक्तं एष द्युतिमान् रथे

तमेवमुक्त्वा सौमित्रिमिहैव स्थीयतामिति

अभिचक्राम काकुत्स्थः शरभङ्गाश्रमं प्रति

ततः समभिगच्छन्तं प्रेक्ष्य रामं शचीपतिः

शरभङ्गमनुप्राप्य विविक्त इदमब्रवीत्

इहोपयात्यसौ रामो यावन्मां नाभिभाषते

निष्ठां नयतु तावत्तु ततो मां द्रष्टुमर्हति

कर्म ह्यनेन कर्त्तव्यं महदन्यैस्सुदुष्करम्

निष्पादयित्वा तत्कर्म ततो मां द्रष्टुमर्हति

इति वज्री तमामन्त्र्य मानयित्वा तापसम्

रथेन हरियुक्तेन ययौ दिवमरिन्दमः

प्रयाते तु सहस्राक्षे राघवस्सपरिच्छदम्

अग्निहोत्रमुपासीनं शरभङ्गमुपागमत्

तस्य पादौ सङ्गृह्य रामः सीता लक्ष्मणः

निषेदुस्समनुज्ञाता लब्धवासा निमन्त्रिताः

ततः शक्रोपयानं तु पर्यपृच्छत् राघवः

शरभङ्गश्च तत्सर्वं राघवाय न्यवेदयत्

मामेष वरदो राम ब्रह्म लोकं निनीषति

जितमुग्रेण तपसा दुष्प्रापमकृतात्मभिः

अहं ज्ञात्वा नरव्यघ्र वर्तमानमदूरतः

ब्रह्मलोकं गच्छामि त्वामदृष्ट्वा प्रियातिथिम्

त्वयाहं पुरुषव्याघ्र धार्मिकेण महात्मना

समागम्य गमिष्यामि त्रिदिवं देवसोवितम्

अक्षया नरशार्दूल मया लोका जिताश्शुभाः

ब्राह्म्याश्च नाकपृष्ट्याश्च प्रतिगृह्णीष्व मामकान्

एवमुक्तो नरव्याघ्रः सर्वशास्त्रविशारदः

ऋषिणा शरभङ्गेण राघवो वाक्यमब्रवीत्

अहमेवाहरिष्यामि सर्वलोकान् महामुने

आवासं त्वहमिच्छामि प्रदिष्टमिह कानने

राघवेणैवमुक्तस्तु शक्रतुल्यबलेन वै

शरभङ्गो महाप्राज्ञः पुनरेवाब्रवीद्वचः

इह राम महातेजास्सुतीक्ष्णो नाम धार्मिकः

वसत्यरण्ये धर्मात्मा ते श्रेयो विधास्यति

सुतीक्ष्णमभिगच्छ त्वं शुचौ देशे तपस्विनम्

रमणीये वनोद्देशे ते वासं विधास्यति

इमां मन्दाकिनीं राम प्रतिस्रोतामनुव्रज

नदीं पुष्पोडुपवहां तत्र तत्र गमिष्यसि

एष पन्था नरव्याघ्र मुहूर्तं पश्य तात माम्

यावज्जहामि गात्राणि जीर्णां त्वचमिवोरगः

ततोऽग्निं सुसमाधाय हुत्वा चाज्येन मन्त्रवित्

शरभङ्गो महातेजाः प्रविवेश हुताशनम्

तस्य रोमाणि केशांश्च ददाहाग्निर्महात्मनः

जीर्णां त्वचं तथास्थीनि यच्च मांसं सशोणितम्

सामस्तु विस्मितो भ्रात्रा भार्यया सहात्मवान्

पावकसङ्काशः कुमारः समपद्यत

उत्थायाग्निचयात्तस्माच्छरभङ्गो व्यरोचत

लोकानाहिताग्नीनामृषीणां महात्मनाम्

देवानां व्यतिक्रम्य ब्रह्मलोकं व्यरोहत

पुण्यकर्मा भवने द्विजर्षभः पितामहं सानुचरं ददर्श

पितामहश्चापि समीक्ष्य तं द्विजं ननन्द सुस्वागतमित्युवाच