Kanda 3 ARK-001-Rusheenam Abhaya Prathanam

प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान्

ददर्श रामो दुर्धर्षस्तापसाश्रममण्डलम्

कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृत्तम्

यथा प्रदीप्तं दुर्दर्शं गगने सूर्यमण्डलम्

शरण्यं सर्वभूतानां सुसंमृष्टाजिरं तथा

मृगैर्बहुभिराकीर्णं पक्षिसङ्घैः समावृतम्

पूजितं प्रनृत्तं नित्यमप्सरसां गणैः

विशालैरग्निशरणैः स्रुग्भाण्डैरजिनैः कुशैः

समिद्भिस्तोयकलशैः फलमूलैश्च शोभितम्

आरण्यैश्च महावृक्षैः पुण्यैः स्वादुफलैर्वृतम्

बलिहोमार्चितं पुण्यं ब्रह्मघोषनिनादितम्

पुष्पैर्वन्यैः परिक्षिप्तं पद्मिन्या सपद्मया

फलमूलाशनैर्दान्तश्चीरकृष्णाजिनाम्बरैः

सूर्यवैश्वानराभैश्च पुराणैर्मुनिभिर्वृतम्

तद्ब्रह्मभवनप्रख्यं ब्रह्मघोषनिनादितम्

ब्रह्मविद्भिर्महाभागैर्ब्राह्मणैरुपशोभितम्

दृष्ट्वा राघवः श्रीमान् तापसाश्रममण्डलम्

अभ्यगच्छन्महातेजा विज्यं कृत्वा महद्धनुः

दिव्यज्ञानोपपन्नास्ते रामं दृष्ट्वा महर्षयः

अभ्यगच्छंस्तथा प्रीता वैदेहीं यशस्विनीम्

लक्ष्मणं चैव दृष्ट्वा तु वैदेहीं यशस्विनीम्

मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन् दृढव्रताः

रूपसंहननं लक्ष्मीं सौकुमार्यं सुवेषताम्

ददृशुर्विस्मिताकारा रामस्य वनवासिनः

वैदेहीं लक्ष्मणं रामं नेत्रैरनिमिषैरिव

आश्चर्यभूतान् ददृशुः सर्वे ते वनचारिणः

अत्रैनं हि महाभागाः सर्वभूतहिते रतम्

अतिथिं पर्णशालायां राघवं सन्न्यवेशयन्

ततो रामस्य सत्कृत्य विधिना पावकोपमाः

आजह्रुस्ते महाभागास्सलिलं धर्मचारिणः

मूलं पुष्पं फलं वन्यमाश्रमं महात्मनः

निवेदयित्वा धर्मज्ञास्ततः प्राञ्जलयोऽब्रुवन्

धर्मपालो जनस्यास्य शरण्यस्त्वं महायशाः

पूजनीयश्च मान्यश्च राजा दण्डधरो गुरुः

इन्द्रस्येह चतुर्भागः प्रजा रक्षति राघव

राजा तस्माद्वरान् भोगान् भुङ्क्ते लोकनमस्कृतः

ते वयं भवता रक्ष्या भवद्विषयवासिनः

नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वरः

न्यस्तदण्डा वयं राजन् जितक्रोधा जितेन्द्रियाः

रक्षितव्यास्त्वया शश्वद्गर्भभूतास्तपोधनाः

एवमुक्त्वा फलैर्मूलैः पुष्पैर्वन्यैश्च राघवम्

अन्यैश्च विविधाहारैः सलक्ष्मणमपूजयन्

तथान्ये तापसाः सिद्धा रामं वैश्वानरोपमाः

न्यायवृत्ता यथान्यायं तर्पयामासुरीश्वरम्