Kanda 2 AYK-113-Bharathasya Prathi Nivartham

ततः शिरसि कृत्वा तु पादुके भरतस्तदा

आरुरोह रथं हृष्टः शत्रुघ्नेन समन्वितः

वसिष्ठो वामदेवश्च जाबालिश्च दृढव्रतः

अग्रतः प्रययुः सर्वे मन्त्रिणो मन्त्रपूजिताः

मन्दाकिनीं नदीं रम्यां प्राङ्मुखास्ते ययुस्तदा

प्रदक्षिणं कुर्वाणाश्चित्रकूटं महागिरिम्

पश्यन् धातुसहस्राणि रम्याणि विविधानि

प्रययौ तस्य पार्श्वेन ससैन्यो भरतस्तदा

अदूराच्चित्रकूटस्य ददर्श भरतस्तदा

आश्रमं यत्र मुनिर्भरद्वाजः कृतालयः

तमाश्रममागम्य भरद्वाजस्य बुद्धिमान्

अवतीर्य रथात् पादौ ववन्दे भरतस्तदा

ततो हृष्टो भरद्वाजो भरतं वाक्यमब्रवीत्

अपि कृत्यं कृतं तात रामेण समागतम्

एवमुक्तः तु ततो भरद्वाजेन धीमता

प्रत्युवाच भरद्वाजं भरतो भ्रातृवत्सलः

याच्यमानो गुरुणा मया दृढविक्रमः

राघवः परमप्रीतो वसिष्ठं वाक्यमब्रवीत्

पितुः प्रतिज्ञां तामेव पालयिष्यामि तत्त्वतः

चतुर्दश हि वर्षाणि या प्रतिज्ञा पितुर्मम

एवमुक्तो महाप्राज्ञो वसिष्ठः प्रत्युवाच

वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत्

एते प्रयच्छ संहृष्टः पादुके हेमभूषिते

अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव

एवमुक्तो वसिष्ठेन राघवः प्राङ्मुखः स्थितः

पादुके अधिरुह्यैते मम राज्याय वै ददौ

निवृत्तोऽहमनुज्ञातो रामेण सुमहात्मना

अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे

एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः

भरद्वाजः शुभतरं मुनिर्वाक्यमुवाच तम्

नैतच्चित्रं नरव्याघ्र शीलवृत्तवतां वर

यदार्यं त्वयि तिष्ठेत्तु निम्ने सृष्टमिवोदकम्

अमृतः महाबाहुः पिता दशरथस्तव

यस्य त्वमीदृशः पुत्रो धर्मज्ञो धर्मवत्सलः

तमृषिं तु महात्मानमुक्तवाक्यं कृताञ्जलिः

आमतन्त्रयितुमारेभे चरणावुपगृह्य

ततः प्रदक्षिणं कृत्वा भरद्वाजं पुनःपुनः

भरतस्तु ययौ श्रीमानयोध्यां सह मन्त्रिभिः

यानैश्च शकटैश्चैव हयैर्नागैश्च सा चमूः

पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी

ततस्ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम्

ददृशुस्तां पुनः सर्वे गङ्गां शुभजलां नदीम्

तां रम्यजलसम्पूर्णां सन्तीर्य सहबान्धवः

शृङ्गिबेरपुरं रम्यं प्रविवेश ससैनिकः

शृङ्गिबेरपुराद्भूयस्त्वयोध्यां सन्ददर्श

अयोध्यां ततो दृष्ट्वा पित्रा भ्रात्रा विवर्जिताम्

भरतो दुःखसन्तप्तः सारथिं चेदमब्रवीत्

सारथे पश्य विध्वस्ता सायोध्या प्रकाशते

निराकारा निरानन्दा दीना प्रतिहतस्वरा