Kanda 2 AYK-106-Raajya Sweekaarardham Punaryaachana

ततो मन्दाकिनीतीरे रामं प्रकृतिवत्सलम्

उवाच भरतश्चित्रं धार्मिको धार्मिकं वचः

को हि स्यादीदृशो लोके यादृशस्त्वमरिन्दम

त्वां प्रव्यथयेद्दुःखं प्रीतिर्वा प्रहर्षयेत्

सम्मतश्चासि वृद्धानां तांश्च पृच्छसि संशयान्

यथा मृतस्तथा जीवन् यथाऽसति तथा सति

यस्यैष बुद्धिलाभः स्यात्परितप्येत केन सः

परावरज्ञो यश्च स्यात्तथा त्वं मनुजाधिप

एवं व्यसनं प्राप्य विषीदितुमर्हति

अमरोपम सत्त्वस्त्वं महात्मा सत्यसङ्गरः

सर्वज्ञः सर्वदर्शी बुद्धिमांश्चासि राघव

त्वामेवङ्गुणैर्युक्तं प्रभवाभवकोविदम्

अविषह्यतमं दुःखमासादयितुमर्हति

प्रोषिते मयि यत्पापं मात्रा मत्कारणात्कृतम्

क्षुद्रया तदनिष्टं मे प्रसीदतु भवान्मम

धर्मबन्धेन बद्धोऽस्मि तेनेमां नेह मातरम्

हन्मि तीव्रेण दण्डेन दण्डार्हां पापकारिणीम्

कथं दशरथाज्जातः शुद्धाभिजनकर्मणः

जानन् धर्ममधर्मिष्ठं कुर्य्यां कर्म जुगुप्सितम्

गुरुः क्रियावान् वृद्धश्च राजा प्रेतः पितेति

तातं परिगर्हेयं दैवतं चेति संसदि

को हि धर्मार्थयोर्हीनमीदृशं कर्म किल्बिषम्

स्त्रियाः प्रियं चिकीर्षुः सन् कुर्याद्धर्मज्ञ धर्मवित्

अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुतिः

राज्ञैवं कुर्वता लोके प्रत्यक्षं सा श्रुतिः कृता

साध्वर्थमभिसन्धाय क्रोधान्मोहाच्च साहसात्

तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान्

तदपत्यं मतं लोके विपरीतमतोऽन्यथा\*

पितुरपतनहेतुत्वात्तदेवापत्यत्वेन सम्मतम्

तदपत्यं भवानस्तु मा भवान् दुष्कृतं पितुः

अभिपत्ता कृतं कर्म लोके धीरविगर्हितम्

कैकेयीं मां तातं सुहृदो बान्धवांश्च नः

पौरजानपदान् सर्वांस्त्रातु सर्वमिदं भवान्

क्व चारण्यं क्व क्षात्त्र क्व जटाः क्व पालनम्

ईदृशं व्याहतं कर्म भवान् कर्तुमर्हति

एष हि प्रथमो धर्मः क्षत्त्रियस्याभिषेचनम्

येन शक्यं महाप्राज्ञ प्रजानां परिपालनम्

कश्च प्रत्यक्षमुत्सृज्य संशयस्थमलक्षणम्

आयतिस्थं चरेद्धर्मं क्षत्त्रबन्धुरनिश्चितम्

अथ क्लेशजमेव त्वं धर्मं चरितुमिच्छसि

धर्मेण चतुरो वर्णान् पालयन् क्लेशमाप्नुहि

चतुर्णामाश्रमाणां हि गार्हस्थ्यं श्रेष्ठमाश्रमम्

प्राहुर्धर्मज्ञ धर्मज्ञास्तं कथं त्यक्तुमर्हसि

श्रुतेन बालः स्थानेन जन्मना भवतो ह्यहम्

कथं पालयिष्यामि भूमिं भवति तिष्ठति

हीनबुद्धिगुणो बालो हीनः स्थानेन चाप्यहम्

भवता विनाभूतो वर्त्तयितुमुत्सहे

इदं निखिलमव्यग्रं राज्यं पित्र्यमकण्टकम्

अनुशाधि स्वधर्मेण धर्मज्ञ सह बान्धवैः

इहैव त्वाऽभिषिञ्चन्तु सर्वाः प्रकृतयः सह

ऋत्विजः सवसिष्ठाश्च मन्त्रवन्मन्त्रकोविदाः

अभिषिक्तस्त्वमस्माभिरयोध्यां पालने व्रज

विजित्य तरसा लोकान् मरुद्भिरिव वासवः

ऋणानि त्रीण्यपाकुर्वन् दुर्हृदः साधु निर्द्दहन्

सुहृदस्तर्पयन् कामैस्त्वमेवात्रानुशाधि माम्

अद्यार्य मुदिताः सन्तु सुहृदस्तेऽभिषेचने

अद्य भीताः पलायन्तां दुर्हृदस्ते दिशो दश

आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ

अद्य तत्रभवन्तं पितरं रक्ष किल्बिषात्

शिरसा त्वाऽभियाचेऽहं कुरुष्व करुणां मयि

बान्धवेषु सर्वेषु भूतेष्विव महेश्वरः

अथैतत् पृष्ठतः कृत्वा वनमेव भवानितः

गमिष्यति गमिष्यामि भवता सार्द्धमप्यहम्

तथाहि रामो भरतेन ताम्यता प्रसाद्यमानः शिरसा महीपतिः

चैव चक्रे गमनाय सत्त्ववान् मतिं पितुस्तद्वचने व्यवस्थितः

तदद्भुतं स्थैर्यमवेक्ष्य राघवे समं जनो हर्षमवाप दुःखितः

यात्ययोध्यामिति दुःखितोऽभवत् स्थिरप्रतिज्ञत्वमवेक्ष्य हर्षितः

तमृत्विजो नैगमयूथवल्लभास्तदा विंसज्ञाश्रुकलाश्च मातरः

तथा ब्रुवाणं भरतं प्रतुष्टुवुः प्रणम्य रामं ययाचिरे सह