Kanda 2 AYK-104-Rama Kousalya Deenam Sambhashanam

तं तु रामः समाज्ञाय भ्रातरं गुरुवत्सलम्

लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे

किमेतदिच्छेयमहं श्रोतुं प्रव्याहृतं त्वया

यस्मात्त्वमागतो देशमिमं चीरजटाजिनी

किं निमित्तमिमं देशं कृष्णाजिनजटाधरः

हित्वा राज्यं प्रविष्टस्त्वं तत्सर्वं वक्तुमर्हसि

इत्युक्तः कैकयीपुत्रः काकुत्स्थेन महात्मना

प्रगृह्य बलवद्भूयः प्राञ्जलिर्वाक्यमब्रवीत्

आर्य्यं तातः परित्यज्य कृत्वा कर्म सुदुष्करम्

गतः स्वर्गं महाबाहुः पुत्रशोकाभिपीडितः

स्त्रिया नियुक्तः कैकेय्या मम मात्रा परन्तप

चकार सुमहत्पापमिदमात्मयशोहरम्

सा राज्यफलमप्राप्य विधवा शोककर्शिता

पतिष्यति महाघोरे निरये जननी मम

तस्य मे दासभूतस्य प्रसादं कर्त्तुमर्हसि

अभिषिञ्चस्व चाद्यैव राज्येनप मघवानिव

इमाः प्रकृतयः सर्वा विधवा मातरश्च याः

त्वत्सकाशमनुप्राप्ताः प्रसादं कर्त्तुमर्हसि

तदानुपूर्व्या युक्तं युक्तं चात्मनि मानद

राज्यं प्राप्नुहि धर्मेण सकामान् सुहृदः कुरु

भवत्वविधवा भूमिः समग्रा पतिना त्वया

शशिना विमलेनेव शारदी रजनी यथा

एभिश्च सचिवैः सार्द्धं शिरसा याचितो मया

भ्रातुः शिष्यस्य दासस्य प्रसादं कर्त्तुमर्हसि

तदिदं शाश्वतं पित्र्यं सर्वं प्रकृतिमण्डलम्

पूजितं पुरुषव्याघ्र नातिक्रमितुमर्हसि

एवमुक्त्वा महाबाहुः सबाष्पः कैकयीसुतः

रामस्य शिरसा पादौ जग्राह विधिवत्पुनः

तं मत्तमिव मातङ्गं निःश्वसन्तं पुनःपुनः

भ्रातरं भरतं रामः परिष्वज्येदमब्रवीत्

कुलीनः सत्त्वसम्पन्नस्तेजस्वी चरितव्रतः

राज्यहेतोः कथं पापमाचरेत्त्वद्विधो जनः

दोषं त्वयि पश्यामि सूक्ष्ममप्यरिसूदन

चापि जननीं बाल्यात्त्वं विगर्हितुमर्हसि

कामकारो महाप्राज्ञ गुरूणां सर्वदाऽनघ

उपपन्नेषु दारेषु पुत्रेषु विधीयते

वयमस्य यथा लोके सङ्ख्याताः सौम्य साधुभिः

भार्य्याः पुत्राश्च शिष्याश्च त्वमनु ज्ञातुमर्हसि

वने वा चीरवसनं सौम्य कृष्णाजिनाम्बरम्

राज्ये वापि महाराजो मां वासयितुमीश्वरः

यावत्पितरि धर्मज्ञे गौरवं लोकसत्कृतम्

तावद्धर्मभृतां श्रेष्ठ जनन्यामपि गौरवम्

एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव

मातापितृभ्यामुक्तोऽहं कथमन्यत् समाचरे

त्वया राज्यमयोध्यायां प्राप्तव्यं लोकसत्कृतम्

वस्तव्यं दण्डकारण्ये मया वल्कलवाससा

एवं कृत्वा महाराजो विभागं लोकसन्निधौ

व्यादिश्य महातेजा दिवं दशरथो गतः

प्रमाणं धर्मात्मा राजा लोकगुरुस्तव

पित्रा दत्तं यथाभागमुपभोक्तुं त्वमर्हसि

चतुर्दशसमाः सौम्य दण्डकारण्यमाश्रितः

उपभोक्ष्ये त्वहं दत्तं भागं पित्रा महात्मना

यदब्रवीन्मां नरलोकसत्कृतः पिता महात्मा विबुधाधिपोपमः

तदेव मन्ये परमात्मनो हितं सर्वलोकेश्वरभावमप्यहम्