Kanda 2 AYK-103-Rama Deenam Shokaha

वसिष्ठः पुरतः कृत्वा दारान् दशरथस्य

अभिचक्राम तं देशं रामदर्शनतर्षितः

राजपत्न्यश्च गच्छन्त्यो मन्दं मन्दाकिनीं प्रति

ददृशुस्तत्र तत्तीर्थं रामलक्ष्मणसेवितम्

कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता

सुमित्रामब्रवीद्दीना याश्चान्या राजयोषितः

इदं तेषामनाथानां क्लिष्टमक्लिष्टकर्मणाम्

वने प्राक्केवलं तीर्थं ये ते निर्विषयीकृताः

इतः सुमित्रे पुत्रस्ते सदा जलमतन्द्रितः

स्वयं हरति सौमित्रिर्मम पुत्रस्य कारणात्

जघन्यमपि ते पुत्रः कृतवान्न तु गर्हितः

भ्रातुर्यदर्थसहितं सर्वं तद्विहितं गुणैः

अद्यायमपि ते पुत्रः क्लेशानामतथोचितः

नीचानर्थसमाचारं सज्जं कर्म प्रमुञ्चतु

दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले

पितुरिङ्गुदिपिण्याकं न्यस्तमायतलोचना

तं भूमौ पितुरार्तेन न्यस्तं रामेण वीक्ष्य सा

उवाच देवी कौसल्या सर्वा दशरथस्त्रियः

इदमिक्ष्वाकुनाथस्य राघवस्य महात्मनः

राघवेण पितुर्दत्तं पश्यतैतद्यथाविधि

तस्य देवसमानस्य पार्थिवस्य महात्मनः

नैतदौपयिकं मन्ये भुक्तभोगस्य भोजनम्

चतुरन्तां महीं भुक्त्वा महेन्द्रसदृशो विभुः

कथमिङ्गुदिपिण्याकं भुङ्क्ते वसुधाधिपः

अतो दुःखतरं लोके किञ्चित् प्रतिभाति मा

यत्र रामः पितुर्दद्यादिङ्गुदीक्षोदमृद्धिमान्

रामेणेङ्गुदिपिण्याकं पितुर्दत्तं समीक्ष्य मे

कथं दुःखेन हृदयं स्फोटति सहस्रधा

श्रुतिस्तु खल्वियं सत्या लौकिकी प्रतिभाति मा

यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः

एवमार्त्तां सपत्न्यस्ता जग्मुराश्वास्य तां तदा

ददृशुश्चाश्रमे रामं स्वर्गच्युतमिवामरम्

सर्वभोगैः परित्यक्तं रामं सम्प्रेक्ष्य मातरः

आर्त्ता मुमुचुरश्रूणि सस्वरं शोककर्शिताः

तासां रामः समुत्थाय जग्राह चरणान् शुभान्

मातॄणां मनुजव्याघ्रः सर्वासां सत्यसङ्गरः

ताः पाणिभिः सुखस्पर्शैर्मृद्वङ्गुलितलैः शुभैः

प्रममार्जू रजः पृष्ठाद्रामस्यायतलोचनाः

सौमित्रिरपि ताः सर्वाः मातॄः सम्प्रेक्ष्य दुःखितः

अभ्यवादयतासक्तं शनै रामादनन्तरम्

यथा रामे तथा तस्मिन् सर्वा ववृतिरे स्त्रियः

वृत्तिं दशरथाज्जाते लक्ष्मणे शुभलक्षणे

सीतापि चरणांस्तासामुपसङ्गृह्य दुःखिता

श्वश्रूणामश्रुपूर्णाक्षी सा बभूवाग्रतः स्थिता

तां परिष्वज्य दुःखार्त्तां माता दुहितरं यथा

वनवासकृशां दीनां कौसल्या वाक्यमब्रवीत्

विदेहराजस्य सुता स्नुषा दशरथस्य

रामपत्नी कथं दुःखं सम्प्राप्ता निर्जने वने

पद्ममातपसन्तप्तं परिक्लिष्टमिवोत्पलम्

काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रमिवाम्बुदैः

मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाश्रयम् भृशं मनसि वैदेहि व्यसनारणिसम्भवः

ब्रुवन्त्यामेवमार्त्तायां जनन्यां भरताग्रजः

पादावासाद्य जग्राह वसिष्ठस्य राघवः

पुरोहितस्याग्निसमस्य वै तदा बृहस्पतेरिन्द्र इवामराधिपः

प्रगृह्य पादौ सुसमृद्धतेजसः सहैव तेनोपविवेश राघवः

ततो जघन्यं सहितैः समन्त्रिभिः पुरप्रधानैश्च सहैव सैनिकैः

जनेन धर्मज्ञतमेन धर्मवानुपोपविष्टो भरतस्तदाग्रजम्

उपोपविष्टस्तु तथा वीर्यवांस्तपस्विवेषेण समीक्ष्य राघवम्

श्रिया ज्वलन्तं भरतः कृताञ्जलिर्यथा महेन्द्रः प्रयतः प्रजापतिम्

किमेष वाक्यं भरतोऽद्य राघवं प्रणम्य सत्कृत्य साधु वक्ष्यति

इतीव तस्यार्यजनस्य तत्त्वतो बभूव कौतूहलमुत्तमं तदा

राघवः सत्यधृतिश्च लक्ष्मणो महानुभवो भरतश्च धार्मिकः

वृताः सुहृद्भिश्च विरेजुरध्वरे यथा सदस्यैः सहितास्त्रयोऽग्नयः