Kanda 2 AYK-096-Bharatham Prathi Lakshmana Vikalpaha

तां तथा दर्शयित्वा तु मैथिलीं गिरिनिम्नगाम्

निषसाद गिरिप्रस्थे सीतां मांसेन छन्दयन्

इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निना

एवमास्ते धर्मात्मा सीतया सह राघवः

तथा तत्रासतस्तस्य भरतस्योपयायिनः

सैन्यरेणुश्च शब्दश्च प्रादुरास्तां नभस्स्पृशौ

एतस्मिन्नन्तरे त्रस्ताः शब्देन महता ततः

अर्दिता यूथपा मत्ताः सयूथा दुद्रुवुर्दिशः

तं सैन्यसमुद्धूतं शब्दं शुश्राव राघवः

तांश्च विप्रद्रुतान् सर्वान् यूथपानन्ववैक्षत

तांश्च विद्रवतो दृष्ट्वा तं श्रुत्वा निस्वनम्

उवाच रामः सौमित्रिं लक्ष्मणं दीप्ततेजसम्

हन्त लक्ष्मण पश्येह सुमित्रा सुप्रजास्त्वया

भीमस्तनितगम्भीरस्तुमुलः श्रूयते स्वनः

गजयूथानि वाऽरण्ये महिषा वा महावने

वित्रासिता मृगाः सिंहैः सहसा प्रद्रुता दिशः

राजा वा राजमात्रो वा मृगयामटते वने

अन्यद्वा श्वापदं किञ्चित् सौमित्रे ज्ञातुमर्हसि

सुदुश्चरो गिरिश्चायं पक्षिणामपि लक्ष्मण

सर्वमेतद्यथातत्त्वमचिराज्ज्ञातुमर्हसि

लक्ष्मणः सन्त्वरितः सालमारुह्य पुष्पितम्

प्रेक्षमाणो दिशः सर्वाः पूर्वां दिशमुदैक्षत

उदङ्मुखः प्रेक्षमाणो ददर्श महतीं चमूम्

रथाश्वगजसम्बाधां यत्तैर्युक्तां पदातिभिः

तामश्वगजसम्पूर्णां रथध्वजविभूषिताम्

शशंस सेनां रामाय वचनं चेदमब्रीत्

अग्निं संशमयत्वार्यः सीता भजतां गुहाम्

सज्यं कुरुष्व चापं शरांश्च कवचं तथा

तं रामः पुरुषव्याघ्रो लक्ष्मणं प्रत्युवाच

अङ्गावेक्षस्व सौमित्रे कस्येमां मन्यसे चमूम्

एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत्

दिधक्षन्निव तां सेनां रुषितः पावको यथा

सम्पन्नं राज्यमिच्छंस्तु व्यक्तं प्राप्याभिषेचनम्

आवां हन्तुं समभ्येति कैकेय्या भरतः सुतः

एष वै सुमहान् श्रीमान् विटपी सम्प्रकाशते

विराजत्युद्गतस्कन्धः कोविदारध्वजो रथे

भजन्त्येते यथा काममश्वानारुह्य शीघ्रगान्

एते भ्राजन्ति संहृष्टा गजानारुह्य सादिनः

गृहीतधनुषौ चावां गिरिं वीरश्रयावहै

अथवेहैव तिष्ठावः सन्नद्धावुद्यतायुधौ

अपि नौ वशमागच्छेत् कोविदारध्वजो दणे

अपि द्रक्ष्यामि भरतं यत्कृते व्यसनं महत्

त्वया राघव सम्प्राप्तं सीतया मया तथा

यन्निमित्तं भवान् राज्याच्च्युतो राघव शाश्वतात्

सम्प्राप्तोऽयमरिर्वीर भरतो वध्य एव मे

भरतस्य वधे दोषं नाहं पश्यामि राघव

पूर्वापकारिणां त्यागे ह्यधर्मो विधीयते

पूर्वापकारी भरतस्त्यक्तधर्मश्च राघव

एतस्मिन्निहते कृत्स्नामनुशाधि वसुन्धराम्

अद्य पुत्रं हतं सङ्ख्ये कैकेयी राज्यकामुका

मया पश्येत् सुदुःखार्त्ता हस्तिभग्नमिव द्रुमम्

कैकेयीं वधिष्यामि सानुबन्धां सबान्धवाम्

कलुषेणाद्य महता मेदिनी परिमुच्यताम्

अद्येमं संयतं क्रोधमसत्कारं मानद

मोक्ष्यामि शत्रुसैन्येषु कक्षेष्विव हुताशनम्

अद्यैतच्चित्रकूटस्य काननं निशितैः शरैः

भिन्दन् शत्रुशरीराणि करिष्ये शोणितोक्षितम्

शरैर्निर्भिन्नहृदयान् कुञ्जरांस्तुरगांस्तथा

श्वापदाः परिकर्षन्तु नरांश्च निहतान् मया

शराणां धनुषश्चाहमनृणोऽस्मि महामृधे

ससैन्यं भरतं हत्वा भविष्यामि संशयः