Kanda 2 AYK-092-Bharatha Prasthanam

ततस्तां रजनीं व्युष्य भरतः सपरिच्छदः

कृतातिथ्यो भरद्वाजं कामादभिजगाम

तमृषिः पुरुषव्याघ्रं प्राञ्जलिं प्रेक्ष्य चागतम्

हुताग्निहोत्रो भरतं भरद्वाजोऽभ्यभाषत

कच्चिदत्र सुखा रात्रिस्तवास्मद्विषये गता

समग्रस्ते जनः कच्चिदातिथ्ये शंस मेऽनघ

तमुवाचाञ्जलिं कृत्वा भरतोऽभिप्रणम्य

आश्रमादभिनिष्क्रान्तमृषिमुत्तमतेजसम्

सुखोषितोऽस्मि भगवन् समग्रबलवाहनः

तर्पितः सर्वकामैश्च सामात्यो बलवत्त्वया

अपेतक्लमसन्तापाः सुभिक्षाः सुप्रतिश्रयाः

अपि प्रेष्यानुपादाय सर्वे स्म सुसुखोषिताः

आमन्त्रयेऽहं भगवन् कामं त्वामृषिसत्तम

समीपं प्रस्थितं भ्रातुर्मैत्रेणेक्षस्व चक्षुषा

आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मनः

आचक्ष्व कतमो मार्गः कियानिति शंस मे

इति पृष्टस्तु भरतं भ्रातृदर्शनलालसम्

प्रत्युवाच महातेजा भरद्वाजो महातपाः

भरतार्द्धतृतीयेषु योजनेष्वजने वने

चित्रकूटो गिरिस्तत्र रम्यनिर्दरकाननः

उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी

पुष्पितद्रुमसञ्छन्ना रम्यपुष्पितकानना

अनन्तरं तत्सरितश्चित्रकूटश्च पर्वतः

तयोः पर्णकुटी तात तत्र तौ वसतो ध्रुवम्

गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते

वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम्

प्रयाणमिति तच्छ्रुत्वा राजराजस्य योषितः

हित्वा यानानि यानार्हा ब्राह्मणं पर्य्यवारयन्

वेपमाना कृशा दीना सह देव्या सुमित्रया

कौसल्या तत्र जग्राह कराभ्यां चरणौ मुनेः

असमृद्धेन कामेन सर्वलोकस्य गर्हिता

कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा

तं प्रदक्षिणमागम्य भगवन्तं महामुनिम्

अदूराद्भरतस्यैव तस्थौ दीनमनास्तदा

ततः पप्रच्छ भरतं भरद्वाजो दृढव्रतः

विशेषं ज्ञातुमिच्छामि मातॄणां तव राघव

एवमुक्तस्तु भरतो भरद्वाजेन धार्मिकः

उवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविदः

यामिमां भगवन् दीनां शोकानशनकर्शिताम्

पितुर्हि महिषीं देवीं देवतामिव पश्यसि

एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम्

कौसल्या सुषुवे रामं धातारमदितिर्यथा

एतस्यास्तु सुतौ देव्याः कुमारौ देववर्णिनौ

उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ

यस्याः कृते नरव्याघ्रौ जीवनाशमितो गतौ

राजपुत्रविहीनश्च स्वर्गं दशरथो गतः

क्रोधनामकृतप्रज्ञां दृप्तां सुभगमानिनीम्

ऐश्वर्यकामां कैकेयीमनार्य्यामार्यरूपिणीम्

ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम्

यतो मूलं हि पश्यामि व्यसनं महदात्मनः

इत्युक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा

निशश्वास ताम्राक्षो नागः क्रुद्ध इव श्वसन्

भरद्वाजो महर्षिस्तं ब्रुवन्तं भरतं तथा

प्रत्युवाच महाबुद्धिरिदं वचनमर्थवत्

दोषेणावगन्तव्या कैकेयी भरत त्वया

रामप्रव्राजनं ह्येतत् सुखोदर्कं भविष्यति

देवानां दानवानां ऋषीणां भावितात्मनाम्

हितमेव भविष्यद्धि रामप्रव्राजनादिह

अभिवाद्य तु संसिद्धः कृत्वा चैनं प्रदक्षिणम्

आमन्त्र्य भरतः सेन्यं युज्यतामित्यचोदयत्

ततो वाजिरथान् युक्त्वा दिव्यान् हेमपरिष्कृतान्

अध्यारोहत् प्रयाणार्थी बहून् बहुविधो जनः

गजकन्या गजाश्चैव हेमकक्ष्याः पताकिनः

जीमूता इव घर्मान्ते सघोषाः सम्प्रतस्थिरे

विविधान्यपि यानानि महान्ति लघूनि

प्रययुः सुमहार्हाणि पादैरेव पदातयः

अथ यानप्रवेकैस्तु कौसल्याप्रमुखाः स्त्रियः

रामदर्शनकाङ्क्षिण्यः प्रययुर्मुदितास्तदा

चन्द्रार्कतरुणाभासां नियुक्तां शिबिकां शुभाम्

आस्थाय प्रययौ श्रीमान् भरतः सपरिच्छदः

सा प्रयाता महासेना गजवाजिरथाकुला

दक्षिणां दिशमावृत्य महामेघ इवोत्थितः

वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभिः

गङ्गायाः परवेलायां गिरिष्वपि नदीषु

सा सम्प्रहृष्टद्विजवाजियोधा वित्रासयन्ती मृगपक्षिसङ्घान्

महद्वनं तत्प्रतिगाहमाना रराज सेना भरतस्य तत्र