Kanda 2 AYK-090-Bharadwaja Darshanam

भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभः

बलं सर्वमवस्थाप्य जगाम सह मन्त्रिभिः

पद्भ्यामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छदः

वसानो वाससी क्षौमे पुरोधाय पुरोधसम्

ततः सन्दर्शने तस्य भरद्वाजस्य राघवः

मन्त्रिणस्तानवस्थाप्य जगामानुपुरोहितम्

वसिष्ठमथ दृष्ट्वैव भरद्वाजो महातपाः

सञ्चचालासनात्तूर्णं शिष्यानर्ध्यमिति ब्रुवन्

अबुध्यत महातेजाः सुतं दशरथस्य तम्\*

वसिष्ठसाहचर्य्यादिति भावः

ताभ्यामर्ध्यं पाद्यं दत्त्वा पश्चात् फलानि

आनुपूर्व्याच्च धर्मज्ञः पप्रच्छ कुशलं कुले

अयोध्यायां बले कोशे मित्रेष्वपि मन्त्रिषु

जानन् दशरथं वृत्तं राजानमुदाहरत्

वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम्

शरीरेऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु

तथेति तत्प्रतिज्ञाय भरद्वाजो महातपाः

भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात्

किमिहागमने कार्य्यं तव राज्यं प्रशासतः

एतदाचक्ष्व मे सर्वं नहि मे शुद्ध्यते मनः

सुषुवे यममित्रघ्नं कौसल्या नन्दवर्द्धनम्

भ्रात्रा सह सभार्यो यश्चिरं प्रव्राजितो वनम्

नियुक्तः स्त्रीनियुक्तेन पित्रा योऽसौ महायशाः

वनवासी भवेतीह समाः किल चतुर्दश

कच्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि

अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य

एवमुक्तो भरद्वाजं भरतः प्रत्युवाच

पर्य्यश्रुनयनो दुःखाद्वाचा संसज्जमानया

हतोऽस्मि यदि मामेवं भगवानपि मन्यते

मत्तो दोषमाशङ्के नैवं मामनुशाधि हि

चैत दिष्टं माता मे यदवोचन्मदन्तरे

नाहमेतेन तुष्टश्च तद्वचनमाददे

अहं तु तं नरव्याघ्रमुपयातः प्रसादकः

प्रतिनेतुमयोध्यां पादौ तस्याभिवन्दितुम्

त्वं मामेवङ्गतं मत्वा प्रसादं कर्तुमर्हसि

शंस मे भगवन् रामः क्व सम्प्रति महीपतिः

वसिष्ठादिभिर्ऋत्विग्भिर्याचितो भगवांस्ततः

उवाच तं भरद्वाजः प्रसादाद्भरतं वचः

त्वय्येतत्पुरुषव्याघ्र युक्तं राघववंशजे

गुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता

जाने चैतन्मनःस्थं ते दृढीकरणमस्त्विति

अपृच्छं त्वां तथात्यर्थं कीर्त्तिं समभिवर्द्धयन्

जाने रामं धर्म्मज्ञं ससीतं सहलक्ष्मणम्

असौ वसति ते भ्राता चित्रकूटे महागिरौ

श्वस्तु गन्तासि तं देशं वसाद्य सह मन्त्रिभिः

एतं मे कुरु सुप्राज्ञ कामं कामार्थकोविद

ततस्तथेत्येवमुदारदर्शनः प्रतीतरूपो भरतोऽब्रवीद्वचः

चकार बुद्धिं तदा तदाश्रमे निशानिवासाय नराधिपात्मजः