Kanda 2 AYK-089-Bharathaa Deenam Prayaga Vanagamanam

व्युष्य रात्रिं तु तत्रैव गङ्गाकूले राघवः

भरतः काल्यमुत्थाय शत्रुघ्नमिदमब्रवीत्

शत्रुघ्नोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम्

शीघ्रमानय भद्रं ते तारयिष्यति वाहिनीम्

जागर्मि नाहं स्वपिमि तमेवार्य्यं विचिन्तयन्

इत्येवमब्रवीद्भ्रात्रा शत्रुघ्नोपि प्रचोदितः

इति संवदतोरेवमन्योन्यं नरसिंहयोः

आगम्य प्राञ्जलिः काले गुहो भरतमब्रवीत्

कच्चित्सुखं नदीतीरेऽवात्सीः काकुत्स्थ शर्वरीम्

कच्चित्ते सहसैन्यस्य तावत्सर्वमनामयम्

गुहस्य तत्तु वचनं श्रुत्वा स्नेहादुदीरितम्

रामस्यानुवशो वाक्यं भरतोऽपीदमब्रवीत्

सुखा नः शर्वरी राजन् पूजिताश्चापि ते वयम्

गङ्गां तु नौभिर्बह्वीभिर्दाशाः सन्तारयन्तु नः

ततो गुहः सन्त्वरितं श्रुत्वा भरतशासनम्

प्रतिप्रविश्य नगरं तं ज्ञातिजनमब्रवीत्

उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु वः सदा

नावः समनुकर्षध्वं तारयिष्याम वाहिनीम्

ते तथोक्ताः समुत्थाय त्वरिता राजशासनात्

पञ्च नावां शतान्याशु समानिन्युः समन्ततः

अन्याः स्वस्तिकविज्ञेया महाघण्टाधरा वराः

शोभमानाः पताकाभिर्युक्तवाताः सुसंहताः

सनन्दिघोषां कल्याणीं गुहो नावमुपाहरत्

तामारुरोह भरतः शत्रुघ्नश्च महाबलः

पुरोहितश्च तत्पूर्वं गुरवो ब्राह्मणाश्च ये

अनन्तरं राजदारास्तथैव शकटापणाः

आवासमादीपयतां तीर्थं चाप्यवगाहताम्

भाण्डानि चाददानानां घोषस्त्रिदिवमस्पृशत्

पताकिन्यस्तु ता नावः स्वयं दाशैरधिष्ठिताः

वहन्त्यो जनमारूढं तदा सम्पेतुराशुगाः

नारीणामभिपूर्णास्तु काश्चित् काश्चिच्च वाजिनाम्

काश्चिदत्र वहन्ति स्म यानयुग्यं महाधनम्

ताः स्म गत्वा परं तीरमवरोप्य तं जनम्

निवृत्ताः काण्डचित्राणि क्रियन्ते दाशबन्धुभिः

सवैजयन्तास्तु गजा गजारोहप्रचोदिताः

तरन्तः स्म प्रकाशन्ते सध्वजा इव पर्वताः

नावश्चारुरुहुश्चान्ये प्लवैस्तेरुस्तथापरे

अन्ये कुम्भघटैस्तेरुरन्ये तेरुश्च बाहुभिः

सा पुण्या ध्वजिनी गङ्गा दाशैः सन्तारिता स्वयम्

मैत्रे मुहूर्त्ते प्रययौ प्रयागवनमुत्तमम्

आश्वासयित्वा चमूं महात्मा निवेशयित्वा यथोपजोषम्

द्रष्टुं भरद्वाजमृषिप्रवर्य्यमृत्विग्वृतः सन् भरतः प्रतस्थे

ब्राह्मणस्याश्रममभ्युपेत्य महात्मनो देवपुरोहितस्य

ददर्श रम्योटजवृक्षषण्डं महद्वनं विप्रवरस्य रम्यम्