Kanda 2 AYK-084-Guha Bharatha Samvadaha

ततो निविष्टां ध्वजिनीं गङ्गामन्वाश्रितां नदीम्

निषादराजो दृष्ट्वैव ज्ञातीन् सन्त्वरितोऽब्रवीत्

महतीयमितः सेना सागराभा प्रदृश्यते

नास्यान्तमधिगच्छामि मनसापि विचिन्तयन्

यथा तु खलु दुर्बुद्धिर्भरतः स्वयमागतः

एष हि महाकायः कोविदारध्वजो रथे

बन्धयिष्यति वा दाशानथवाऽस्मान् वधिष्यति

अथ दाशरथिं रामं पित्रा राज्याद्विवासितम्

सम्पन्नां श्रियमन्विच्छंस्तस्य राज्ञः सुदुर्ल्लभाम्

भरतः कैकयीपुत्रो हन्तुं समधिगच्छति

भर्त्ता चैव सखा चैव रामो दाशरथिर्मम

तस्यार्थकामाः सन्नद्धा गङ्गानूपे प्रतिष्ठत

तिष्ठन्तु सर्वे दाशाश्च गङ्गामन्वाश्रिता नदीम्

बलयुक्ता नदीरक्षा मांसमूलफलाशनाः

नावां शतानां पञ्चानां कैवर्त्तानां शतंशतम्

सन्नद्धानां तथा यूनां तिष्ठन्त्वित्यभ्यचोदयत्

यदा तुष्टस्तु भरतो रामस्येह भविष्यति

सेयं स्वस्तिमती सेना गङ्गामद्य तरिष्यति

इत्युक्त्वोपायनं गृह्य मत्स्यमांसमधूनि

अभिचक्राम भरतं निषादाधिपतिर्गुहः

तमायान्तं तु संप्रेक्ष्य सूतपुत्रः प्रतापवान्

भरतायाचचक्षेऽथ विनयज्ञो विनीतवत्

एष ज्ञातिसहस्रेण स्थपतिः परिवारितः

कुशलो दण्डकारण्ये वृद्धो भ्रातुश्च ते सखा

तस्मात्पश्यतु काकुत्स्थ त्वां निषादाधिपो गुहः

असंशयं विजानीते यत्र तौ रामलक्ष्मणौ

एतत्तु वचनं श्रुत्वा सुमन्त्राद्भरतः शुभम्

उवाच वचनं शीघ्रं गुहः पश्यतु मामिति

लब्ध्वाभ्यनुज्ञां संहृष्टो ज्ञातिभिः परिवारितः

आगम्य भरतं प्रह्वो गुहो वचनमब्रवीत्

निष्कुटश्चैव देशोऽयं वञ्चिताश्चापि ते वयम्

निवेदयामस्ते सर्वे स्वके दासकुले वस

अस्ति मूलं फलं चैव निषादैः समुपाहृतम्

आर्द्रञ्च मांसं शुष्कञ्च वन्यं चोच्चावचं महत्

आशंसे स्वाशिता सेना वत्स्यतीमां विभावरीम्

अर्चितो विविधैः कामैः श्वः ससैन्यो गमिष्यसि