Kanda 2 AYK-079-Bharatham Prathi Mantri Mantrana

ततः प्रभातसमये दिवसे चतुर्दशे

समेत्य राजकर्त्तारो भरतं वाक्यमब्रुवन्

गतो दशरथः स्वर्गं यो नो गुरुतरो गुरुः

रामं प्रव्राज्य वै ज्येष्ठं लक्ष्मणं महाबलम्

त्वमद्य भव नो राजा राजपुत्र महायशः

सङ्गत्या नापराध्नोति राज्यमेतदनायकम्

आभिषेचनिकं सर्वमिदमादाय राघव

प्रतीक्षते त्वां स्वजनः श्रेणयश्च नृपात्मज

राज्यं गृहाण भरत पितृपैतामहं ध्रुवम्

अभिषेचय चात्मानं पाहि चास्मान्नरर्षभ

आभिषेचनिकं भाण्डं कृत्वा सर्वं प्रदक्षिणम्

भरतस्तं जनं सर्वं प्रत्युवाच धृतव्रतः

ज्येष्ठस्य राजता नित्यमुचिता हि कुलस्य नः

नैवं भवन्तो मां वक्तुमर्हन्ति कुशला जनाः

रामः पूर्वो हि नो भ्राता भविष्यति महीपतिः

अहं त्वरण्ये वत्स्यामि वर्षाणि नव पञ्च

युज्यतां महती सेना चतुरङ्गमहाबला

आनयिष्याम्यहं ज्येष्ठं भ्रातरं राघवं वनात्

आभिषेचनिकं चैव सर्वमेतदुपस्कृतम्

पुरस्कृत्य गमिष्यामि रामहेतोर्वनं प्रति

तत्रैव तं नरव्याघ्रमभिषिच्य पुरस्कृतम्

आनेष्यामि तु वै रामं हव्यवाहमिवाध्वरात्

सकामां करिष्यामि स्वामिमां मातृगन्धिनीम्

वने वत्स्याम्यहं दुर्गे रामो राजा भविष्यति

क्रियतां शिल्पिभिः पन्थाः समानि विषमाणि

रक्षिणश्चानुसंयान्तु पथि दुर्गविचारकाः

एवं सम्भाषमाणं तं रामहेतोर्नृपात्मजम्

प्रत्युवाच जनः सर्वः श्रीमद्वाक्यमनुत्तमम्

एवं ते भाषमाणस्य पद्मा श्रीरुपतिष्ठताम्

यस्त्वं ज्येष्ठे नृपसुते पृथिवीं दातुमिच्छसि

अनुत्तमं तद्वचनं नृपात्मजप्रभाषितं संश्रवणे निशम्य

प्रहर्षजास्तं प्रति बाष्पबिन्दवो निपेतुरार्यानननेत्रसम्भवाः

ऊचुस्ते वचनमिदं निशम्य हृष्टाः सामात्याः सपरिषदो वियातशोकाः

पन्थानं नरवर भक्तिमान् जनश्च व्यादिष्टास्तव वचनाच्च शिल्पिवर्गः