Kanda 2 AYK-078-Mandhara Shasanam

अथ यात्रां समीहन्तं शत्रुध्नो लक्ष्मणानुजः

भरतं शोकसन्तप्तमिदं वचनमब्रवीत्

गतिर्यः सर्वभूतानां दुःखे किं पुनरात्मनः

रामः सत्त्वसम्पन्नः स्त्रिया प्रव्राजितो वनम्

बलवान् वीर्यसम्पन्नो लक्ष्मणो नाम योऽप्यसौ

किं मोचयते रामं कृत्वा स्म पितृनिग्रहम्

पूर्वमेव तु निग्राह्यः समवेक्ष्य नयानयौ

उत्पथं यः समारूढो नार्या राजा वशं गतः

इति सम्भाषमाणे तु शत्रुघ्ने लक्ष्मणानुजे

प्राग्द्वारेऽभूत्तदा कुब्जा सर्वाभरणभूषिता

लिप्ता चन्दनसारेण राजवस्त्राणि बिभ्रती

विविधं विविधैस्तैस्तैर्भूषणैश्च विभूषिता

मेखलादामभिश्चित्रैरन्यैश्च शुभभूषणैः

बभासे बहुभिर्बद्धा रज्जुबद्धेव वानरी

तां समीक्ष्य तदा द्वास्स्थाः सुभृशं पापकारिणीम्

गृहीत्वाऽकरुणां कुब्जां शत्रुघ्नाय न्यवेदयन्

यस्याः कृते वने रामो न्यस्तदेहश्च वः पिता

सेयं पापा नृशंसा तस्याः कुरु यथामति

शत्रुघ्नश्च तदाज्ञाय वचनं भृशदुःखितः

अन्तःपुरचरान् सर्वानित्युवाच धृतव्रतः

तीव्रमुत्पादितं दुःखं भ्रातॄणां मे तथा पितुः

यया सेयं नृशंसस्य कर्मणः फलमश्नुताम्

एवमुक्ता तु तेनाशु सखीजनसमावृता

गृहीता बलवत् कुब्जा सा तद्गृहमनादयत्

ततः सुभृशसन्तप्तस्तस्याः सर्वः सखीजनः

क्रुद्धमाज्ञाय शत्रुघ्नं विपलायत सर्वशः

आमन्त्रयत कृत्स्नश्च तस्याः सर्वः सखीजनः

यथायं समुपक्रान्तो निश्शेषान्नः करिष्यति

सानुक्रोशां वदान्यां धर्मज्ञां यशस्विनीम्

कौसल्यां शरणं याम सा हि नोऽस्तु ध्रुवा गतिः

रोषेण ताम्राक्षः क्षत्रुघ्नः शत्रुतापनः

विचकर्ष तदा कुब्जां क्रोशन्तीं धरणीतले

तस्या ह्याकृष्यमाणाया मन्थरायास्ततस्ततः

चित्रं बहुविधं भाण्डं पृथिव्यां तद्व्यशीर्यत

तेन भाण्डेन संस्तीर्णं श्रीमद्राजनिवेशनम्

अशोभत तदा भूयः शारदं गगनं यथा

बली बलवत्क्रोधाद्गृहीत्वा पुरुषर्षभः

कैकेयीमभिनिर्भर्त्स्य बभाषे परुषं वचः

तैर्वाक्यैः परुषैर्दुःखैः कैकेयी भृशदुःखिता

शत्रुघ्नभयसन्त्रस्ता पुत्रं शरणमागता

तां प्रेक्ष्य भरतः क्रुद्धं शत्रुघ्नमिदमब्रवीत्

अवध्याः सर्वभूतानां प्रमदाः क्षम्यतामिति

हन्यामहमिमां पापां कैकेयीं दुष्टचारिणीम्

यदि मां धार्मिको रामो नासूयेन्मातृघातकम्

इमामपि हतां कुब्जां यदि जानाति राघवः

त्वां मां हि धर्मात्मा नाभिभाषिष्यते ध्रुवम्

भरतस्य वचः श्रुत्वा शत्रुघ्नो लक्ष्मणानुजः

न्यवर्त्तत ततो रोषात्तां मुमोच मन्थराम्

सा पादमूले कैकेय्या मन्थरा निपपात

निश्वसन्ती सुदुःखार्त्ता कृपणं विललाप

शत्रुघ्नविक्षेपविमूढसञ्ज्ञां समीक्ष्य कुब्जां भरतस्य माता

शनैः समाश्वासयदार्त्तरूपां क्रौञ्चीं विलग्नामिव वीक्षमाणाम्