Kanda 2 AYK-076-Dasharathasya Auordhva Dehikam

तमेवं शोकसन्तप्तं भरतं कैकयीसुतम्

उवाच वदतां श्रेष्ठो वसिष्ठः श्रेष्ठवागृषिः

अलं शोकेन भद्रं ते राजपुत्र महायशः

प्राप्तकालं नरपतेः कुरु संयानमुत्तमम्

वसिष्ठस्य वचः श्रुत्वा भरतो धारणां गतः

प्रेतकार्याणि सर्वाणि कारयामास धर्मवित्

उद्धृतं तैलसंरोधात् तु भूमौ निवेशितम्

आपीतवर्णवदनं प्रसुप्तमिव भूपतिम्

संवेश्म शयने चाग्र्ये नानारत्नपरिष्कृते

ततो दशरथं पुत्रो विललाप सुदुःखितः

किं ते व्यवसितं राजन् प्रोषिते मय्यनागते

विवास्य रामं धर्मज्ञं लक्ष्मणं महाबलम्

क्व यास्यसि महाराज हित्वेमं दुःखितं जनम्

हीनं पुरुषसिंहेन रामेणाक्लिष्टकर्मणा

योगक्षेमं तु ते राजन् कोऽस्मिन् कल्पयिता पुरे

त्वयि प्रयाते स्वस्तात रामे वनमाश्रिते

विधवा पृथिवी राजंस्त्वया हीना राजते

हीनचन्द्रेव रजनी नगरी प्रतिभाति मा

एवं विलपमानं तं भरतं दीनमानसम्

अब्रवीद्वचनं भूयो वसिष्ठस्तु महामुनिः

प्रेतकार्याणि यान्यस्य कर्त्तव्यानि विशांपतेः

तान्यव्यग्रं महाबाहो क्रियन्तामविचारितम्

तथेति भरतो वाक्यं वसिष्ठस्याभिपूज्य तत्

ऋत्विक्पुरोहिताचार्यांस्त्वरयामास सर्वशः

ये त्वग्नयो नरेन्द्रस्य चाग्न्यगाराद्बहिष्कृताः

ऋत्विग्भिर्याजकैश्चैव आह्रियन्त यथाविधि

शिबिकायामथारोप्य राजानं गतचेतसम्

वाष्पकण्ठा विमनसस्तमूहुः परिचारकाः

हिरण्यं सुवर्णं वासांसि विविधानि

प्रकिरन्तो जना मार्गं नृपतेरग्रतो ययुः

चन्दनागरुनिर्यासान् सरलं पद्मकं तथा

देवदारूणि चाहृत्य क्षेपयन्ति तथा परे

गन्धानुच्चावचांश्चान्यान् तत्र गत्वाथ भूमिपम्

ततः संवेशयामासुश्चितामध्ये तमृत्विजः

तथा हुताशनं दत्त्वा जेपुस्तस्य तमृत्विजः

जगुश्च ते यथाशास्त्रं तत्र सामानि सामगाः

शिबिकाभिश्च यानैश्च यथार्हं तस्य योषितः

नगरान्निर्ययुस्तत्र वृद्धैः परिवृतास्तदा

प्रसव्यं चापि तं चक्रुर्ऋत्विजोऽग्निचितं नृपम्

स्त्रियश्च शोकसन्तप्ताः कौसल्याप्रमुखास्तदा

क्रौञ्चीनामिव नारीणां निनादस्तत्र शुश्रुवे

आर्तानां करुणं काले क्रोशन्तीनां सहस्रशः

ततो रुदन्त्यो विवशा विलप्य पुनःपुनः

यानेभ्यः सरयूतीरमवतेरुर्वराङ्गनाः

कृत्वोदकं भरतेन सार्द्धं नृपाङ्गना मन्त्रिपुरोहिताश्च

पुरं प्रविश्याश्रुपरीतनेत्रा भूमौ दशाहं व्यनयन्त दुःखम्