Kanda 2 AYK-063-Dashrathena Poorvakrutha Balavadha Kathanam

प्रतिबुद्धो मुहूर्तेन शोकोपहतचेतनः

अथ राजा दशरथः चिन्तामभ्यपद्यत

रामलक्ष्मणयोश्चैव विवासाद्वासवोपमम्

आविवेशोपसर्गस्तं तमः सूर्यमिवासुरम्

सभार्ये निर्गते रामे कौसल्यां कोसलेश्वरः

विवक्षुरसितापाङ्गां स्मृत्वा दुष्कृतमात्मनः

राजा रजनीं षष्ठीं रामे प्रव्राजिते वनम्

अर्धरात्रे दशरथः संस्मरन् दुष्कृतं कृतम्

राजा पुत्रशोकार्तः स्मृत्वा दुष्कृतमात्मनः

कौसल्यां पुत्रशोकार्तामिदं वचनमब्रवीत्

यदाचरति कल्याणि शुभं वा यदि वाऽशुभम्

तदेव लभते भद्रे कर्ता कर्मजमात्मनः

गुरुलाघवमर्थानामारम्भे कर्मणां फलम्

दोषं वा यो जानाति बाल इति होच्यते

कश्चिदाम्रवणं छित्त्वा पलाशांश्च निषिञ्चति

पुष्पं दृष्ट्वा फले गृध्नुः शोचति फलागमे

अविज्ञाय फलं यो हि कर्मत्वेवानुधावति

शोचेत् फलवेलायां यथा किंशुकसेचकः

सोऽहमाम्रवणं छित्त्वा पलाशांश्च न्यषेचयम्

रामं फलागमे त्यक्त्वा पश्चाच्छोचामि दुर्मतिः

लब्धशब्देन कौसल्ये कुमारेण धनुष्मता

कुमारः शब्दवेधीति मया पापमिदं कृतम्

तदिदं मेऽनुसंप्राप्तं देवि दुःखं स्वयङ्कृतम्

सम्मोहादिह बालेन यथा स्याद्भक्षितं विषम्

यथान्यः पुरुषः कश्चित् पलाशैर्मोहितो भवेत्

एवं ममाप्याविज्ञातं शब्दवेध्यमयं फलम्

देव्यनूढा त्वमभवो युवराजो भवाम्यहम्

ततः प्रावृडनुप्राप्ता मदकामविवर्धनी

उपास्य हि रसान् भौमांस्तप्त्वा जगदंशुभिः

परेताचरितां भीमां रविराविशते दिशम्

उष्णमन्तर्दधे सद्यः स्निग्धा ददृशिरे घनाः

ततो जहृषिरे सर्वे भेकसारङ्गबर्हिणः

क्लिन्नपक्षोत्तराः स्नाताः कृच्छ्रादिव पतत्ित्रणः

वृष्टिवातावधूताग्रान् पादपानभिपेदिरे

पतितेनाम्भसा च्छन्नः पतमानेन चासकृत्

आबभौ मत्तसारङ्गस्तोयराशिरिवाचलः

पाण्डुरारुणवर्णानि स्रोतांसि विमलान्यपि

सुस्रुवुर्गिरिधातुभ्यः सभस्मानि भुजङ्गवत्

तस्मिन्नतिसुखे काले धनुष्मानिषुमान् रथी

व्यायामकृतसङ्कल्पः सरयूमन्वगां नदीम्

निपाने महिषं रात्रौ गजं वाभ्यागतं नदीम्

अन्यं वा श्वापदं कञ्चिज्जिघांसुरजितेन्द्रियः

अथान्धकारे त्वश्रौषं जले कुम्भस्य पूर्यतः

अचक्षुर्विषये घोषं वारणस्येव नर्दतः

ततोऽहं शरमुद्धृत्य दीप्तमाशीविषोपमम्

शब्दं प्रति गजप्रेप्सुरभिलक्ष्य त्वपातयम्

हाहेति पततस्तोये बाणाभिहतमर्मणः

व्यक्ता वाक् प्रादुरासीदिति सम्बन्धः\*

तस्मिन्निपतिते बाणे वागभूत्तत्र मानुषी

कथमस्मद्विधे शस्त्रं निपते त्तु तपस्विनि

प्रविविक्तां नदीं रात्रावुदाहारोऽहमागतः

इषुणाभिहतः केन कस्य वा किं कृतं मया

ऋषेर्हि न्यस्तदण्डस्य वने वन्येन जीवतः

कथं नु शस्त्रेण वधो मद्विधस्य विधीयते

जटाभारधरस्यैव वल्कलाजिनवाससः

को वधेन ममार्थी स्यात् किं वास्यापकृतं मया

एवं निष्फलमारब्धं केवलानर्थसंहितम्

कश्चित् साधु मन्येत यथैव गुरुतल्पगम्

नाहं तथानुशोचामि जीवितक्षयमात्मनः

मातरं पितरं चोभावनुशोचामि मद्वधे

तदेतन्मिथुनं वृद्धं चिरकालभृतं मया

मयि पञ्चत्वमापन्ने कां वृत्तिं वर्तयिष्यति

वृद्धौ मातापितरावहं चैकेषुणा हतः

केन स्म निहताः सर्वे सुबालेनाकृतात्मना

कराभ्यां सशरं चापं व्यथितस्यापद्भुवि\*

श्रुत्वा करुणाजनकं वचः श्रुत्वा, स्थितस्येति शेषः\*

तस्याहं करुणं श्रुत्वा निशि लालपतो बहु

सम्भ्रान्तः शोकवेगेन भृशमासं विचेतनः

तं देशमहमागम्य दीनसत्त्वः सुदुर्मनाः

अपश्यमिषुणा तीरे सरय्वास्तापसं हतम्

अवकीर्णजटाभारं प्रविद्धकलशोदकम्

पांसुशोणितदिग्धाङ्गं शयानं शल्यपीडितम्

मामुद्वीक्ष्य नेत्राभ्यां त्रस्तमस्वस्थचेतसम्

इत्युवाच ततः क्रूरं दिधक्षन्निव तेजसा

किं तवापकृतं राजन् वने निवसता मया

जिहीर्षुरम्भो गुर्वर्थं यदहं ताडितस्त्वया

एकेन खलु बाणेन मर्मण्यभिहते मयि

द्वावन्धौ निहतौ वृद्धौ माता जनयिता मे

तौ कथं दुर्बलावन्धौ मत्प्रतीक्षौ पिपासितौ

चिरमाशाकृतां तृष्णां कष्टां सन्धारयिष्यतः

नूनं तपसो वास्ति फलयोगः श्रुतस्य वा

पिता यन्मां जानाति शयानं पतितं भुवि

जान्ननपि किं कुर्यादशक्तिरपरिक्रमः

भिद्यमानमिवाशक्तस्त्रातुमन्यो नगो नगम्

पितुस्त्वमेव मे गत्वा शीघ्रमाचक्ष्व राघव

त्वामनुदहेत् क्रुद्धो वनं वह्निरिवैधितः

इयमेकपदी राजन् यतो मे पितुराश्रमः

तं प्रसादय गत्वा त्वं त्वां कुपितः शपेत्

विशल्यं कुरु मां राजन् मर्म मे निशितः शरः

रुणद्धि मृदु सोत्सेधं तीरमम्बुरयो यथा

सशल्यः क्लिश्यते प्राणैर्विशल्यो विनशिष्यति

इति मामविशच्चिन्ता तस्य शल्यापकर्षणे

दुःखितस्य दीनस्य मम शोकातुरस्य

लक्षयामास हृदये चिन्तां मुनिसुतस्तदा

ताम्यमानः मां कृच्छ्रादुवाच परमार्तवत्

सीदमानो विवृत्ताङ्गो वेष्टमानो गतः क्षयम्

संस्तभ्य शोकं धैर्येण स्थिरचित्तो भवाम्यहम्

ब्रह्महत्याकृतं पापं हृदयादपनीयताम्

द्विजातिरहं राजन् माभूत्ते मनसो व्यथा

शूद्रायामस्मि वैश्येन जातो जनपदाधिप

इतीव वदतः कृच्छ्राद्बाणाभिहतमर्मणः

विघूर्णतो विचेष्टस्य वेपमानस्य भूतले

तस्य त्वानम्यमानस्य तं बाणमहमुद्धरम्

मामुद्वीक्ष्य सन्त्रस्तो जहौ प्राणांस्तपोधनः

जलार्द्रगात्रं तु विलप्य कृच्छ्रान्मर्मव्रणं सन्ततमुच्छ्वसन्तम्

ततः सरय्वां तमहं शयानं समीक्ष्य भद्रेऽस्मि भृशं विषण्णः