Kanda 2 AYK-062-Kousalya Krutha Dashratha Santhvanam

एवं तु क्रुद्धया राजा राममात्रा सशोकया

श्रावितः परुषं वाक्यं चिन्तयामास दुःखितः

चिन्तयित्वा नृपो मुमोह व्याकुलेन्द्रियः

अथ दीर्घेण कालेन सञ्ज्ञामाप परन्तपः

सञ्ज्ञामुपलभ्यैव दीर्घमुष्णञ्च निश्वसन्

कौसल्यां पार्श्वतो दृष्ट्वा पुनश्चिन्तामुपागमत्

तस्य चिन्तयमानस्य प्रत्यभात् कर्म दुष्कृतम्

यदनेन कृतं पूर्वमज्ञानाच्छब्दवेधिना

अमनास्तेन शोकेन रामशोकेन प्रभुः

द्वाभ्यामपि महाराजः शोकाभ्यामन्वतप्यत

दह्यमानः शोकाभ्यां कौसल्यामाह भूपतिः

वेपमानोऽञ्जलिं कृत्वा प्रसादार्थमवाङ्मुखः

प्रसादये त्वां कौसल्ये रचितोऽयं मयाञ्जलिः

वत्सला चानृशंसा त्वं हि नित्यं परेष्वपि

भर्त्ता तु खलु नारीणां गुणवान्निर्गुणोपि वा

धर्मं विमृशमानानां प्रत्यक्षं देवि दैवतम्

सा त्वं धर्मपरा नित्यं दृष्टलोकपरावरा

नार्हसे विप्रियं वक्तुं दुःखितापि सुदुःखितम्

तद्वाक्यं करुणं राज्ञः श्रुत्वा दीनस्य भाषितम्

कौसल्या व्यसृजद्बाष्पं प्रणालीव नवोदकम्

सा मूर्ध्नि बध्वा रुदती राज्ञः पद्ममिवाञ्जलिम्

सम्भ्रमादब्रवीत् त्रस्ता त्वरमाणाक्षरं वचः

प्रसीद शिरसा याचे भूमौ निपतितास्मि ते

याचितास्मि हता देव हन्तव्याहं नहि त्वया

उभयोर्लोकयोर्वीर पत्या या सम्प्रसाद्यते

ऐहिकामुष्मिकसुखभागिनी भवतीत्यर्थः\*

जानामि धर्मं धर्मज्ञ त्वां जाने सत्यवादिनम्

पुत्रशोकार्तया तत्तु मया किमपि भाषितम्

शोको नाशयते धैर्यं शोको नाशयते श्रुतम्

शोको नाशयते सर्वं नास्ति शोकसमो रिपुः

शक्य आपतितः सोढुं प्रहारो रिपुहस्ततः

सोढुमापतितः शोकः सुसूक्ष्मोपि शक्यते

वनवासाय रामस्य पञ्चरात्रोऽद्य गण्यते

यः शोकहतहर्षायाः पञ्चवर्षोपमो मम

तं हि चिन्तयमानायाः शोकोऽयं हृदि वर्द्धते

नदीनामिव वेगेन समुद्रसलिलं महत्

एवं हि कथयन्त्यास्तु कौसल्यायाः शुभं वचः

मन्दरश्मिरभूत् सूर्यो रजनी चाभ्यवर्तत

तथा प्रसादितो वाक्यैर्देव्या कौसल्यया नृपः

शोकेन समाक्रान्तो निद्राया वशमेयिवान्