ततो भूतोपसृष्टेव वेपमाना पुनःपुनः
धरण्यां गतसत्त्वेव कौसल्या सूतमब्रवीत्
नय मां यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः
तान् विना क्षणमप्यत्र जीवितुं नोत्सहे ह्यहम्
निवर्तय रथं शीघ्रं दण्डकान्नय मामपि
अथ तान्नानुगच्छामि गमिष्यामि यमक्षयम्
बाष्पवेगोपहतया स वाचा सज्जमानया
इदमाश्वासयन् देवीं सूतः प्राञ्जलिरब्रवीत्
त्यज शोकञ्च मोहञ्च सम्भ्रमं दुःखजं तथा
व्यवधूय च सन्तापं वने वत्स्यति राघवः
लक्ष्मणश्चापि रामस्य पादौ परिचरन् वने
आराधयति धर्मज्ञः परलोकं जितेन्द्रियः
विजनेऽपि वने सीता वासं प्राप्य गृहेष्विव
विस्रम्भं लभतेऽभीता रामे सन्न्यस्तमानसा
नास्या दैन्यं कृतं किञ्चित् सुसूक्ष्ममपि लक्ष्यते
उचितेव प्रवासानां वैदेही प्रतिभाति मा
नगरोपवनं गत्वा यथा स्म रमते पुरा
तथैव रमते सीता निर्जनेषु वनेष्वपि
बालेव रमते सीताऽबालचन्द्रनिभानना
रामारामे ह्यधीनात्मा विजनेऽपि वेन सती
तद्गतं हृदयं ह्यस्यास्तदधीनं च जीवितम्
अयोध्यापि भवेत्तस्या रामहीना तथा वनम्
पथि पृच्छति वैदेही ग्रामांश्च नगराणि च
गतिं दृष्ट्वा नदीनाञ्च पादपान् विविधानपि
रामं वा लक्ष्मणं वापि पृष्ट्वा जानाति जानकी
अयोध्याक्रोशमात्रे तु विहारमिव संश्रिता
इदमेव स्मराम्यस्याः सहसैवोपजल्पितम्
कैकेयीसंश्रितं वाक्यं नेदानीं प्रतिभाति मा
ध्वंसयित्वा तु तद्वाक्यं प्रमादात् पर्युपस्थितम्
ह्लादनं वचनं सूतो देव्या मधुरमब्रवीत्
अध्वना वातवेगेन सम्भ्रमेणातपेन च
न विगच्छति वैदेह्याश्चन्द्रांशुसदृशी प्रभा
सदृशं शतपत्रस्य पूर्णचन्द्रोपमप्रभम्
वदनं तद्वदान्याया वैदेह्या न विकम्पते
अलक्तरसरक्ताभावलक्तरसवर्जितौ
अद्यापि चरणौ तस्याः पद्मकोशसमप्रमौ
नूपुरोद्घुष्टहेलेव खेलं गच्छति भामिनी
इदानीमपि वैदेही तद्रागान्न्यस्तभूषणा
गजं वा वीक्ष्य सिंहं वा व्याघ्रं वा वनमाश्रिता
नाहारयति सन्त्रासं बाहू रामस्य संश्रिता
न शोच्यास्ते न चात्मानः शोच्यो नापि जनाधिपः
इदं हि चरितं लोके प्रतिष्ठास्यति शाश्वतम्
विधूय शोकं परिहृष्टमानसा महर्षियाते पथि सुव्यवस्थिताः
वनेरता वन्यफलाशनाः पितुः शुभां प्रतिज्ञां परिपालयन्ति ते
तथापि सूतेन सुयुक्तवादिना निवार्यमाणा सुतशोककर्शिता
न चैव देवी विरराम कूजितात् प्रियेति पुत्रेति च राघवेति च