Kanda 2 AYK-059-Dasharatha Vilapaha

मम त्वश्वा निवृत्तस्य प्रावर्तन्त वर्त्मनि

उष्णमश्रु प्रमुञ्चन्तो रामे सम्प्रस्थिते वनम्

उभाभ्यां राजपुत्राभ्यामथ कृत्वाहमञ्जलिम्

प्रस्थितो रथमास्थाय तद्दुःखमपि धारयन्

गुहेन सार्धं तत्रैव स्थितोऽस्मि दिवसान् बहून्

आशया यदि मां रामः पुनःशब्दापयेदिति

विषये ते महाराज रामव्यसनकर्शिताः

अपि वृक्षाः परिम्लानाः सपुष्पाङ्कुरकोरकाः

उपतप्तोदका नद्यः पल्वलानि सरांसि

परिशुष्कपलाशानि वनान्युपवनानि

सर्पन्ति सत्त्वानि व्याला प्रचरन्ति

रामशोकाभिभूतं तन्निष्कूजमभवद्वनम्

लीनपुष्करपत्राश्च नरेन्द्र कलुषोदकाः

सन्तप्तपद्माः पद्मिन्यो लीनमीनविहङ्गमाः

जलजानि पुष्पाणि माल्यानि स्थलजानि

नाद्य भान्त्यल्पगन्धीनि फलानि यथापुरम्

अत्रोद्यानानि शून्यानि प्रलीनविहगानि

चाभिरामानारामान् पश्यामि मनुजर्षभ

प्रविशन्तमयोध्यां मां कश्चिदभिनन्दति

नरा राममपश्यन्तो निश्वसन्ति मुहुर्मुहुः

देव राजरथं दृष्ट्वा विना राममिहागतम्

दुःखादश्रुमुखः सर्वो राजमार्गगतो जनः

हर्म्यैर्विमानैः प्रासादैरवेक्ष्य रथमागतम्

हाहाकारकृता नार्यो रामादर्शनकर्शिताः

आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः

अन्योन्यमभिवीक्षन्तेऽव्यक्तमार्ततराः स्त्रियः

नामित्राणां मित्राणामुदासीनजनस्य

अहमार्ततया किञ्चिद्विशेषमुपलक्षये

अप्रहृष्टमनुष्या दीननागतुरङ्गमा

आर्तस्वरपरिम्लाना विनिश्वसितनिस्वना

निरानन्दा महाराज राम प्रव्राजनातुरा

कौसल्या पुत्रहीनेव अयोध्या प्रतिभाति मा

सूतस्य वचनं श्रुत्वा वाचा परमदीनया

बाष्पोपहतया राजा तं सूतमिदमब्रवीत्

कैकेय्या विनियुक्तेन पापाभिजनभावया

मया मन्त्रकुशलैर्वृद्धैः सह समर्थितम्

सुहृद्भिर्न चामात्यैर्मन्त्रयित्वा नैगमैः

मयायमर्थः सम्मोहात् स्त्रीहेतोः सहसा कृतः

भवितव्यतया नूनमिदं वा व्यसनं महत्

कुलस्यास्य विनाशाय प्राप्तं सूत यदृच्छया

सूत यद्यस्ति ते किञ्चिन्मया तु सुकृतं कृतम्

त्वं प्रापयाशु मां रामं प्राणाः सन्त्वरयन्ति माम्

यद्यद्यापि ममैवाज्ञा निवर्त्तयतु राघवम्

शक्ष्यामि विना रामं मुहूर्त्तमपि जीवितुम्

अथवापि महाबाहुर्गतो दूरं भविष्यति

मामेव रथमारोप्य शीघ्रं रामाय दर्शय

वृत्तदंष्ट्रो महेष्वासः क्वासौ लक्ष्मणपूर्वजः

यदि जीवामि साध्वेनं पश्येयं सीतया सह

लोहिताक्षं महाबाहुमामुक्तमणिकुण्डलम्

रामं यदि पश्येयं गमिष्यामि यमक्षयम्

अतो नु किं दुःखतरं योहमिक्ष्वाकुनन्दनम्

इमामवस्थामापन्नो नेह पश्यामि राघवम्

हा राम रामानुज हा हा वैदेहि तपस्विनि

मां जानीत दुःखेन म्रियमाणमनाथवत्

तेन राजा दुःखेन भृशमर्पितचेतनः

आवगाढः सुदुष्पारं शोकसागरमब्रवीत्

रामशोकमहाभोगः सीताविरहपारगः

श्वसितोर्मिमहावर्त्तो बाष्पफेनजलाविलः

बाहुविक्षेपमीनौघो विक्रन्दितमहास्वनः

प्रकीर्णकेशशैवालः कैकेयीवडवामुखः

ममाश्रुवेगप्रभवः कुब्जावाक्यमहाग्रहः

वरवेलो नृशंसाया रामप्रव्राजनायतः

यस्मिन् बत निमग्नोऽहं कौसल्ये राघवं विना

दुस्तरो जीवता देवि मयायं शोकसागरः

अशोभनं योऽहमिहाद्य राघवं दिदृक्षमाणो लभे सलक्ष्मणम्

इतीव राजा विलपन् महायशाः पपात तूर्णं शयने मूर्च्छितः

इति विलपति पार्थिवे प्रणष्टे करुणतरं द्विगुणं रामहेतोः

वचनमनुनिशम्य तस्य देवी भयमगमत् पुनरेव राममाता