Kanda 2 AYK-058-Rama Sandesha Nivedanam

प्रत्याश्वस्तो यदा राजा मोहात् प्रत्यागतः पुनः

अथाजुहाव तं सूतं रामवृत्तान्तकारणात्

अथ सूतो महा राजं कृताञ्जलिरुपस्थितः

राममेवानुशोचन्तं दुःखशोकसमन्वितम्

वृद्धं परमसन्तप्तं नवग्रहमिव द्विपम्

विनिश्वसन्तं ध्यायन्तमस्वस्थमिव कुञ्जरम्

राजा तु रजसा धूतं ध्वस्ताङ्गं समुपस्थितम्

अश्रुपूर्णमुखं दीनमुवाच परमार्तवत्

क्वनु वत्स्यति धर्मात्मा वृक्षमूलमुपाश्रितः

सोऽत्यन्तसुखितः सूत किमशिष्यति राघवः

दुःखस्यानुचितो दुःखं सुमन्त्रशयनोचितः

भूमिपालात्मजो भूमौ शेते कथमनाथवत्

यं यान्तमनुयान्ति स्म पदातिरथकुञ्जराः

वत्स्यति कथं रामो विजनं वनमाश्रितः

व्यालैर्मृगैराचरितं कृष्णसर्पनिषेवितम्

कथं कुमारौ वैदेह्या सार्द्धं वनमुपस्थितौ

सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया

राजपुत्रौ कथं पादैरवरुह्य रथाद्गतौ

सिद्धार्थः खलु सूत त्वं येन दृष्टौ ममात्मजौ

वनान्तं प्रविशन्तौ तावश्विनाविव मन्दरम्

किमुवाच वचो रामः किमुवाच लक्ष्मणः

सुमन्त्र वनमासाद्य किमुवाच मैथिली

आसितं शयितं भुक्तं सूत रामस्य कीर्तय

जीविष्याम्यहमेतेन ययातिरिव साधुषु

इति सूतो नरेन्द्रेण चोदितः सज्जमानया

उवाच वाचा राजानं सबाष्परिरब्धया

अब्रवीन्मां महाराज धर्ममेवानुपालयन्

अञ्जलिं राघवः कृत्वा शिरसाभिप्रणम्य

सूत मद्वचनात्तस्य तातस्य विदितात्मनः

शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः

सर्वमन्तःपुरं वाच्यं सूत मद्वचनात्त्वया

आरोग्यमविशेषेण यथार्हं चाभिवादनम्

माता मम कौसल्या कुशलं चाभिवादनम्

अप्रमादं वक्तव्या ब्रूयाश्चैनामिदं वचः

धर्म्मनित्या यथाकालमग्न्यगारपरा भव

देवि देवस्य पादौ देववत् परिपालय

अभिमानञ्च मानञ्च त्यक्त्वा वर्त्तस्व मातृषु

अनु राजानमार्यां कैकेयीमम्बकारय

कुमारे भरते वृत्तिर्वर्त्तितव्या राजवत्

अर्थज्येष्ठा हि राजानो राजधर्ममनुस्मर

भरतः कुशलं वाच्यो वाच्यो मद्वचनेन

सर्वास्वेव यथान्यायं वृत्तिं वर्त्तस्व मातृषु

वक्तव्यश्च महाबाहुरिक्ष्वाकुकुलनन्दनः

पितरं यौवराज्यस्थो राज्यस्थमनुपालय

अतिक्रान्तवया राजा मा स्मैनं व्यवरोरुधः

कुमारराज्ये जीव त्वं तस्यैवाज्ञाप्रवर्तनात्

अब्रवीच्चापि मां भूयो भृशमश्रूणि वर्तयन्

मातेव मम माता ते द्रष्टव्या पुत्रगर्द्धिनी

इत्येवं मां महाराज ब्रुवन्नेव महायशाः

रामो राजीवताम्राक्षो भृशमश्रूण्यवर्तयत्

लक्ष्मणस्तु सुसङ्क्रुद्धो निश्वसन् वाक्यमब्रवीत्

केनायमपराधेन राजपुत्रो विवासितः

राज्ञा तु खलु कैकेय्या लघु त्वाश्रित्य शासनम्

कृतं कार्य्यमकार्यं वा वयं येनाभिपीडिताः

यदि प्रव्राजितो रामो लोभकारणकारितम्

वरदाननिमित्तं वा सर्वथा दुष्कृतं कृतम्

इदं तावद्यथाकाममीश्वरस्य कृते कृतम्

रामस्य तु परित्यागे हेतुमुपलक्षये

असमीक्ष्य समारब्धं विरुद्धं बुद्धिलाघवात्

जनयिष्यति सङ्क्रोशं राघवस्य विवासनम्

अहं तावन्महाराजे पितृत्वं नोपलक्षये

भ्राता भर्त्ता बन्धुश्च पिता मम राघवः

सर्वलोकप्रियं त्यक्त्वा सर्वलोकहिते रतम्

सर्वलोकोऽनुरज्येत कथं त्वाऽनेन कर्मणा

सर्वप्रजाभिरामं हि रामं प्रव्राज्य धार्म्मिकम्

सर्वलोकं विरुद्ध्येमं कथं राजा भविष्यसि

जानकी तु महाराज निश्वसन्ती मनस्विनी

भूतोपहतचित्तेव विष्ठिता विस्मिता स्थिता

अदृष्टपूर्वव्यसमा राजपुत्री यशस्विनी

तेन दुःखेन रुदती नैव मां किञ्चिदब्रवीत्

उद्वीक्षमाणा भर्तारं मुखेन परिशुष्यता

मुमोच सहसा बाष्पं मां प्रयान्तमुदीक्ष्य सा

तथैव रामोऽश्रुमुखः कृताञ्जलिः स्थितोभवल्लक्ष्मणबाहुपालितः

तथैव सीता रुदती तपस्विनी निरीक्षते राजरथं तथैव माम्