Kanda 2 AYK-057-Sumantrasya Yodhya Gamanam

कथयित्वा सुदुःखार्तः सुमन्त्रेण चिरं सह

रामे दक्षिणकूलस्थे जगाम स्वगृहं गुहः

भरद्वाजाभिगमनं प्रयागे सहासनम्

आगिरेर्गमनं तेषां तत्रस्थैरभिलक्षितम्

अनुज्ञातः सुमन्त्रोऽथ योजयित्वा हयोत्तमान्

अयोध्यामेव नगरीं प्रययौ गाढदुर्मनाः

वनानि सुगन्धीनि सरितश्च सरांसि

पश्यन्नतिययौ शीघ्रं ग्रामाणि नगराणि

ततः सायाह्नसमये तृतीयेऽहनि सारथिः

अयोध्यां समनुप्राप्य निरानन्दां ददर्श

शून्यामिव निःशब्दां दृष्ट्वा परमदुर्मनाः

सुमन्त्रश्चिन्तयामास शोकवेगसमाहतः

कच्चिन्न सगजा साश्वा सजना सजनाधिपा

रामसन्तापदुःखेन दग्धा शोकाग्निना पुरी

इति चिन्तापरः सूतो वाजिभिः शीघ्रपातिभिः

नगरद्वारमासाद्य त्वरितः प्रविवेश

सुमन्त्रमभियान्तं तं शतशोऽथ सहस्रशः

क्व राम इति पृच्छन्तः सूतमभ्यद्रवन्नराः

तेषां शशंस गङ्गायामहमापृच्छ्य राघवम्

अनुज्ञातो निवृत्तोऽस्मि धार्म्मिकेण महात्मना

ते तीर्णा इति विज्ञाय बाष्पपूर्णमुखा जनाः

अहो धिगिति निश्वस्य हा रामेति चुक्रुशुः

शुश्राव वचस्तेषां वृन्दंवृन्दं तिष्ठताम्

हताः स्म खलु येनेह पश्याम इति राघवम्

दानयज्ञविवाहेषु समाजेषु महत्सु

द्रक्ष्यामः पुनर्जातु धार्मिकं राममन्तरा

किं समर्थं जनस्यास्य किं प्रियं किं सुखावहम्

इति रामेण नगरं पितृवत्परिपालितम्

वातायनगतानां स्त्रीणामन्वन्तरापणम्

रामशोकाभितप्तानां शुश्राव परिदेवनम्

राजमार्गमध्येन सुमन्त्रः पिहिताननः

यत्र राजा दशरथस्तदेवोपययौ गृहम्

सोऽवतीर्य्य रथाच्छीघ्रं राजवेश्म प्रविश्य

कक्ष्याः सप्ताभिचक्राम महाजनसमाकुलाः

हर्म्यैर्विमानैः प्रासादैरवेक्ष्याथ समागतम्

हाहाकार कृता नार्यो रामादर्शनकर्शिताः

आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः

अन्योन्यमभिवीक्षन्तेऽव्यक्तमार्ततराः स्त्रियः

ततो दशरथस्त्रीणां प्रासादेभ्यस्ततस्ततः

रामशोकाभितप्तानां मन्दं शुश्राव जल्पितम्

सह रामेण निर्यातो विना राममिहागतः

सूतः किं नाम कौसल्यां शोचन्तीं प्रतिवक्ष्यति

यथा मन्ये दुर्जीवमेवं सुकरं ध्रुवम्

आच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति

सत्यरूपं तु तद्वाक्यं राज्ञः स्त्रीणां निशामयन्

प्रदीप्त इव शोकेन विवेश सहसा गृहम्

प्रविश्याष्टमीं कक्ष्यां राजानं दीनमातुरम्

पुत्रशोकपरिद्यूनमपश्यत् पाण्डरे गृहे

अभिगम्य तमासीनं नरेन्द्रमभिवाद्य

सुमन्त्रो रामवचनं यथोक्तं प्रत्यवेदयत्

तूष्णीमेव तच्छ्रुत्वा राजा विभ्रान्तचेतनः

मूर्च्छितो न्यपतद्भूमौ रामशोकाभिपीडितः

ततोऽन्तःपुरमाविद्धं मूर्च्छिते पृथिवीपतौ

उद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ

सुमित्रया तु सहिता कौसल्या पतितं पतिम्

उत्थापयामास तदा वचनं चेदमब्रवीत्

इमं तस्य महाभाग दूतं दुष्करकारिणः

वनवासादनुप्राप्तं कस्मान्न प्रतिभाषसे

अद्येममनयं कृत्वा व्यपत्रपसि राघव

उत्तिष्ठ सुकृतं तेऽस्तु शोके स्यात् सहायता

देव यस्या भयाद्रामं नानुपृच्छसि सारथिम्

नेह निष्ठति कैकेयी विस्रब्धं प्रतिभाष्यताम्

सा तथोक्त्वा महाराजं कौसल्या शोकलालसा

धरण्यां निपपाताशु बाष्पविप्लुतभाषिणी

एवं विलपतीं दृष्ट्वा कौसल्यां पतितां भुवि

पतिं चावेक्ष्य ताः सर्वाः सुस्वरं रुरुदुः स्त्रियः

ततस्तमन्तःपुरनादमुत्थितं समीक्ष्य वृद्धास्तरुणाश्च मानवाः

स्त्रियश्च सर्वा रुरुदुः समन्ततः पुरं तदासीत् पुनरेव सङ्कुलम्