Kanda 2 AYK-056-Chitrakoota Darshanam

अथ रात्र्यां व्यतीतायामवसुप्तमनन्तरम्

प्रबोधयामास शनैर्लक्ष्मणं रघुनन्दनः

सौमित्रे शृणु वन्यानां वल्गु व्याहरतां स्वनम्

सम्प्रतिष्ठामहे कालः प्रस्थानस्य परन्तप

सुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः

जहौ निद्रां तन्द्रीं प्रसक्तं पथि श्रमम्

तत उत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवं जलम्

पन्थानमृषिणाऽऽदिष्टं चित्रकूटस्य तं ययुः

ततः सम्प्रस्थितः काले रामः सौमित्रिणा सह

सीतां कमलपत्राक्षीमिदं वचनमब्रवीत्

आदीप्तानिव वैदेहि सर्वतः पुष्पितान्नगान्

स्वैः पुष्पैः किंशुकान् पश्य मालिनः शिशिरात्यये

पश्य भल्लातकान् फुल्लान्नरैरनुपसेवितान्

फलत्रैरवनतान्नूनं शक्ष्यामि जीवितुम्

पश्य द्रोणप्रमाणानि लम्बमानानि लक्ष्मण

मधूनि मधुकारीभिः सम्भृतानि नगेनगे

एष क्रोशति नत्यूहस्तं शिखी प्रतिकूजति

रमणीये वनोद्देशे पुष्पसंस्तरसङ्कटे

मातङ्गयूथानुसृतं पक्षिसङ्घानुनादितम्

चित्रकूटमिमं पश्य प्रवृद्धशिखरं गिरिम्

समभूमितले रम्ये द्रुमैर्बहुभिरावृते

पुण्ये रंस्यामहे तात चित्रकूटस्य कानने

ततस्तौ पादचारेण गच्छन्तौ सह सीतया

रम्यमासेदतुः शैलं चित्रकूटं मनोरमम्

तं तु पर्वतमासाद्य नानापक्षिगणायुतम्

बहुमूलफलं रम्यं सम्पन्नं सरसोदकम्

मनोज्ञोऽयं गिरिः सौम्य नानाद्रुमलतायुतः

बहुमूलफलो रम्यः स्वाजीवः प्रतिभाति मे

मुनयश्च महात्मानो वसन्त्यस्मिन् शिलोच्चये

अयं वासो भवेत्तावदत्र सौम्य रमेमहि

इति सीता रामश्च लक्ष्मणश्च कृताञ्जलिः

अभिगम्याश्रमं सर्वे वाल्मीकिमभिवादयन्

तान् महर्षिः प्रमुदितः पूजयामास धर्मवित्

आस्यतामिति चोवाच स्वागतं तु निवेद्य

ततोऽब्रवीन्महाबाहुर्लक्ष्मणं लक्ष्मणाग्रजः

सन्निवेद्य यथान्यायमात्मानमृषये प्रभुः

लक्ष्मणानय दारूणि दृढानि वराणि

कुरुष्वावसथं सौम्य वासे मेऽभिरतं मनः

तस्य तद्वचनं श्रुत्वा सौमित्रिर्विविधान् द्रुमान्

आजहार ततश्चक्रे पर्णशालामरिन्दमः

तां निष्ठितां बद्धकटां दृष्ट्वा रामः सुदर्शनाम्

शुश्रूषमाणमेकाग्रमिदं वचनमब्रवीत्

ऐणेयं मांसमाहृत्य शालां यक्ष्यामहे वयम्

कर्त्तव्यं वास्तुशमनं सौमित्रे चिरजीविभिः

मृगं हत्वानय क्षिप्रं लक्ष्मणेह शुभेक्षण

कर्त्तव्यः शास्त्रदृष्टो हि विधिर्धर्ममनुस्मर

भ्रातुर्वचनमाज्ञाय लक्ष्मणः परवीरहा

चकार यथोक्तं तं रामः पुनरब्रवीत्

ऐणेयं श्रपयस्वैतच्छालां यक्ष्यामहे वयम्

त्वर सौम्य मुहूर्तोऽयं ध्रुवश्च दिवसोऽप्ययम्

लक्ष्मणः कृष्णमृगं हत्वा मेध्यं प्रतापवान्

अथ चिक्षेप सौमित्रिः समिद्धे जातवेदसि

तं तु पक्वं समाज्ञाय निष्टप्तं छिन्नशोणितम्

लक्ष्मणः पुरुषव्याघ्रमथ राघवमब्रवीत्

अयं कृष्णः समाप्ताङ्गः श्रृतः कृष्णमृगो यथा

देवतां देवसङ्काश यजस्व कुशलो ह्यसि

रामः स्नात्वा तु नियतो गुणवाञ्जप्यकोविदः

सङ्हेणाकरोत् सर्वान् मन्त्रान् सत्रावसानिकान्

इष्ट्वा देवगणान् सर्वान् विवेशावसथं शुचिः

बभूव मनोह्लादो रामस्यामिततेजसः

वैश्वदेवबलिं कृत्वा रौद्रं वैष्णवमेव

वास्तुसंशमनीयानि मङ्गलानि प्रवर्तयन्

जपं न्यायतः कृत्वा स्नात्वा नद्यां यथाविधि

पापसंशमनं रामश्चकार बलिमुत्तमम्

वेदिस्थलविधानानि चैत्यान्यायतनानि

आश्रमस्यानुरूपाणि स्थापयामास राघवः

वन्यैर्माल्यैः फलैर्मूलैः पक्वैर्मांसैर्यथाविधि

अद्भिर्जपैश्च वेदोक्तैर्दर्भैश्च ससमित्कुशैः

तौ तर्पयित्वा भूतानि राघवौ सह सीतया

तदा विविशतुः शालां सुशुभां शुभलक्षणौ

तां वृक्षपर्णच्छदनां मनोज्ञां यथाप्रदेशं सुकृतां निवाताम्

वासाय सर्वे विविशुः समेताः सभां यथा देवगणाः सुधर्माम्

अनेकनानामृगपक्षिसङ्कुले विचित्रपुष्पस्तबकैर्द्रुमैर्युते

वनोत्तमे व्यालमृगानुनादिते तदा विजर्ह्रुः सुसुखं जितेन्द्रियाः

सुरम्यमासाद्य तु चित्रकूटं नदीं तां माल्यवतीं सुतीर्थाम्

ननन्द हृष्टो मृगपक्षिजुष्टां जहौ दुःखं पुरविप्रवासात्