Kanda 2 AYK-055-Yamuna Tharanam

महर्षिमभिवाद्याथ जग्मतुस्तं गिरिं प्रति

तेषां चैव स्वस्त्ययनं महर्षिः चकार

प्रस्थितांश्चैव तान् प्रेक्ष्य पिता पुत्रानिवान्वगात्

ततः प्रचक्रमे वक्तुं वचनं महामुनिः

भरद्वाजो महातेजा रामं सत्यपराक्रमम्

गङ्गायमुनयोः सन्धिमासाद्य मनुजर्षभौ

कालिन्दीमनुगच्छेतां नदीं पश्चान्मुखाश्रिताम्

अथासाद्य तु कालिन्दीं शीघ्रस्रोतसमापगाम्

तस्यास्तीर्थं प्रचरितं पुराणं प्रेक्ष्य राघवौ

तत्र यूयं प्लवं कृत्वा तरतांशुमतीं नदीम्

ततो न्यग्रोधमासाद्य महान्तं हरितच्छदम्

विवृद्धं बहुभिर्वृक्षैः श्यामं सिद्धोपसेवितम्

तस्मै सीताञ्जलिं कृत्वा प्रयुञ्जीताशिषःः शिवाः

समासाद्य तु तं वृक्षं वसेद्वातिक्रमेत वा

क्रोशमात्रं ततो गत्वा नीलं द्रक्ष्यथ काननम्

रम्यो मार्दवयुक्तश्च वनदावैर्विवर्जितः

इति पन्थानमावेद्य महर्षिः सन्न्यवर्तत

अभिवाद्य तथेत्युक्त्वा रामेण विनिवर्तितः

उपावृत्ते मुनौ तस्मिन् रामो लक्ष्मणमब्रवीत्

कृतपुण्याः स्म सौमित्रे मुनिर्यन्नोऽनुकम्पते

इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ

सीतामेवाग्रतः कृत्वा कालिन्दीं जग्मतुर्नदीम्

अथासाद्य तु कालिन्दीं शीघ्रस्रोतोवहां नदीम्

चिन्तामापेदिरे सर्वे नदीजलतितीर्षवः

तौ काष्ठसङ्घाटमथो चक्रतुस्सुमहाप्लवम्

शुष्कैर्वंशैः समास्तीर्णमुशीरैश्च समावृतम्

ततो वेतसशाखाश्च जम्बूशाखाश्च वीर्यवान्

चकार लक्ष्मणश्छित्त्वा सीतायाः सुखमासनम्

तत्र श्रियमिवाचिन्त्यां रामो दाशरथिः प्रियाम्

ईषत्संलज्जमानां तामध्यारोपयत प्लवम्

पार्श्वे तत्र वैदेह्या वसने भूषणानि

प्लवे कठिनकाजं रामश्चक्रे सहायुधैः

आरोप्य प्रथमं सीतां सङ्घाट परिगृह्य तौ

ततः प्रतेरतुर्यत्तौ वीरौ दशरथात्मजौ

कालिन्दीमध्यमायाता सीता त्वेनामवन्दत

स्वस्ति देवि तरामि त्वां पारयेन्मे पतिर्व्रतम्

यक्ष्ये त्वां गोसहस्रेण सुराघटशतेन

स्वस्ति प्रत्यागते रामे पुरीमिक्ष्वाकुपालिताम्

कालिन्दीमथ सीता तु याचमाना कृताञ्जलिः

तीरमेवाभिसम्प्राप्ता दक्षिणं वरवर्णिनी

ततः प्लवेनांशुमतीं शीघ्रगामूर्मिमालिनीम्

तीरजैर्बहुभिर्वृक्षैः सन्तेरुर्यमुनां नदीम्

ते तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुना वनात्

श्यामं न्यग्रोधमासेदुः शीतलं हरितच्छदम्

न्यग्रोधं तमुपागम्य वैदेही वाक्यमब्रवीत्

कौसल्यां चैव पश्येयं सुमित्रां यशस्विनीम्

इति सीताऽञ्जलिं कृत्वा पर्यगच्छद्वनस्पतिम्

अवलोक्य ततः सीतामायाचन्तीमनिन्दिताम्

दयितां विधेयां रामो लक्ष्मणमब्रवीत्

सीतामादाय गच्छ त्वमग्रतो भरताग्रज

पृष्ठतोऽहं गमिष्यामि सायुधो द्विपदां वर

यद्यत्फलं प्रार्थयते पुष्पं वा जनकात्मजा

तत्तत् प्रदद्या वैदेह्या यत्रास्या रमते मनः

गच्छतोस्तु तयोर्मध्ये बभूव जनकात्मजा

मातङ्गयोर्मध्यगता शुभा नागवधूरिव

एकैकं पादपं गुल्मं लतां वा पुष्पशालिनीम्

अदृष्टपूर्वां पश्यन्ती रामं पप्रच्छ साऽबला

रमणीयान् बहुविधान् पादपान् कुसुमोत्कटान्

सीतावचनसंरब्ध आनयामास लक्ष्मणः

विचित्रवालुकजलां हंससारसनादिताम्

रेमे जनकराजस्य तदा प्रेक्ष्य सुता नदीम्

क्रोशमात्रं ततो गत्वा भ्रातरौ रामलक्ष्मणौ

बहून् मेध्यान् मृगान् हत्वा चेरतुर्यमुनावने

विहृत्य ते बर्हिणपूगनादिते शुभे वने वानरवारणायुते

समं नदीवप्रमुपेत्य सम्मतं निवासमाजग्मुरदीनदर्शनाः