Kanda 2 AYK-054-Bharadvaja Shramagamanam

ते तु तस्मिन् महावृक्ष उषित्वा रजनीं शिवाम्

विमलेऽभ्युदिते सूर्ये तस्माद्देशात् प्रतस्थिरे

यत्र भागीरथीं गङ्गां यमुनाभिप्रवर्त्तते

जग्मुस्तं देशमुद्दिश्य विगाह्य सुमहद्वनम्

ते भूमिभागान् विविधान् देशांश्चापि मनोरमान्

अदृष्टपूर्वान् पश्यन्तस्तत्रतत्र यशस्विनः

यथाक्षेमेण गच्छन् पश्यंश्च विविधान् द्रुमान्

निवृत्तमात्रे दिवसे रामः सौमित्रिमब्रवीत्

प्रयागमभितः पश्य सौमित्रे धूममुन्नतम्

अग्नेर्भगवतः केतुं मन्ये सन्निहितो मुनिः

नूनं प्राप्ताः स्म सम्भेदं मङ्गायमुनयोर्वयम्

तथा हि श्रूयते शब्दो वारिणो वारिघट्टितः

दारूणि परिभिन्नानि वनजैरुपजीविभिः

भरद्वाजाश्रमे चैते दृश्यन्ते विविधा द्रुमाः

धन्विनौ तौ सुखं गत्वा लम्बमाने दिवाकरे

गङ्गायमुनयोः सन्धौ प्रापतुर्निलयं मुनेः

रामस्त्वाश्रममासाद्य त्रासयन् मृगपक्षिणः

गत्वा मुहूर्त्तमध्वानं भरद्वाजमुपागमत्

ततस्त्वाश्रममासाद्य मुनेर्दर्शनकाङ्क्षिणौ

सीतयानुगतौ वीरौ दूरादेवावतस्थतुः

प्रविश्य महात्मानमृषिं शिष्यगणैर्वृतम्

संशितव्रतमेकाग्रं तपसा लब्धचक्षुषम्

हुताग्निहोत्रं दृष्ट्वैव महाभागं कृताञ्जलिः

रामः सौमित्रिणा सार्द्धं सीतया चाम्यवादयत्

न्यवेदयत चात्मानं तस्मै लक्ष्मण पूर्वजः

पुत्रौ दशरथस्यावां भगवन् रामलक्ष्मणौ

भार्या ममेयं वैदेही कल्याणी जनकात्मजा

मां चानुयाता विजनं तपोवनमनिन्दिता

पित्रा प्रव्राज्यमानं मां सौमित्रिरनुजः प्रियः

अयमन्वगमद्भ्राता वनमेव दृढब्रतः

पित्रा नियुक्ता भगवन् प्रवेक्ष्यामस्तपोवनम्

धर्ममेव चरिष्यामस्तत्र मूलफलाशनाः

तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः

उपानयत धर्मात्मा गामर्घ्यमुदकं ततः

नानाविधानन्नरसान् वन्यमूलफलाश्रयान्

तेभ्यो ददौ तप्ततपा वासं चैवाम्यकल्पयत्

मृगपक्षिभिरासीनो मुनिभिश्च समन्ततः

राममागतमभ्यर्च्य स्वागतेनाह तं मुनिः

प्रतिगृह्य तामर्चामुपविष्टं राघवम्

भरद्वाजोऽब्रवीद्वाक्यं धर्मयुक्तमिदं तदा

चिरस्य खलु काकुत्स्थ पश्यामि त्वामिहागतम्

श्रुतं तव मया चेदं विवासनमकारणम्

अवकाशो विविक्तोऽयं महानद्योः समागमे

पुण्यश्च रमणीयश्च वसत्विह भवान् सुखम्

एवमुक्तस्तु वचनं भरद्वाजेन राघवः

प्रत्युवाच शुभं वाक्यं रामः सर्वहिते रतः

भगवन्नित आसन्नः पौरजानपदो जनः

सुदर्शमिह मां प्रेक्ष्य मन्येऽहमिममाश्रमम्

आगमिष्यति वैदेहीं मां चापि प्रेक्षको जनः

अनेन कारणेनाहमिह वासं रोचये

एकान्ते पश्य भगवन्नाश्रमस्थानमुत्तमम्

रमेत यत्र वैदेही सुखार्हा जनकात्मजा

एतच्छ्रुत्वा शुभं वाक्यं भरद्वाजो महामुनिः

राघवस्य ततो वाक्यमर्थग्राहकमब्रवीत्

दशक्रोश इतस्तात गिरिर्यस्मिन्निवत्स्यसि

महर्षिसेवितः पुण्यः सर्वतः सुखदर्शनः

गोलाङ्गूलानुचरितो वानरर्क्षनिषेवितः

चित्रकूट इति ख्यातो गन्धमादनसन्निभः

यावता चित्रकूटस्य नरः श्रृङ्गाण्यवेक्षते

कल्याणानि समाधत्ते पापे कुरुते मनः

ऋषयस्तत्र बहवो विहृत्य शरदां शतम्

तपसा दिवमारूढाः कपालशिरसा सह

प्रविविक्तमहं मन्ये तं वासं भवतः सुखम्

इह वा वनवासाय वस राम मया सह

रामं सर्वकामैस्तं भरद्वाजः प्रियातिथिम्

सभार्यं सह भ्रात्रा प्रतिजग्राह धर्मवित्

तस्य प्रयागे रामस्य तं महर्षिमुपेयुषः

प्रपन्ना रजनी पुण्या चित्राः कथयतः कथाः

सीतातृतीयः काकुत्स्थः परिश्रान्तः सुखोचितः

भरद्वाजाश्रमे रम्ये तां रात्रिमवसत्सुखम्

प्रभातायां रजन्यां तु भरद्वाजमुपागमत्

उवाच नरशार्दूलो मुनिं ज्वलिततेजसम्

शर्वरीं भगवन्नद्य सत्यशील तवाश्रमे

उषिताः स्मेह वसतिमनुजानातु नो भवान्

रात्र्यां तु तस्यां व्युष्टायां भरद्वाजोऽब्रवीदिदम्

मधुमूलफलोपेतं चित्रकूटं व्रजेति

वासमौपयिकं मन्ये तव राम महाबल

नानानगगणोपेतः किन्नरोरगसेवितः

गम्यतां भवता शैलश्चित्रकूटः विश्रुतः

पुण्यश्च रमणीयश्च बहुमूलफलायुतः

तत्र कुञ्जरयूथानि मृगयूथानि चाभितः

विचरन्ति वनान्तेऽस्मिन् तानि द्रक्ष्यसि राघव

सरित्प्रस्रवणप्रस्थान् दरीकन्दरनिर्द्दरान्

चरतः सीतया सार्द्धं नन्दिष्यति मनस्तव

प्रहृष्टकोयष्टिककोकिलस्वनैर्विनादितं तं वसुधाधरं शिवम्

मृगैश्च मत्तैर्बहुभिश्च कुञ्जरैः सुरम्यमासाद्य समावसाश्रमम्