Kanda 2 AYK-052-Gangaa Tharanam Sumantra Visarjanam cha

प्रभातायां तु शर्वर्यां पृथुवक्षा महायशाः

उवाच रामः सौमित्रिं लक्ष्मणं शुभलक्षणम्

भास्करोदयकालोऽयं गता भगवती निशा

असौ सुकृष्णो विहगः कोकिलस्तात कूजति

बर्हिणानां निर्घोषः श्रूयते नदतां वने

तराम जाह्नवीं सौम्य शीघ्रगां सागरङ्गमाम्

विज्ञाय रामस्य वचः सौमित्रिर्मित्रनन्दनः

गुहमामन्त्र्य सूतं सोऽतिष्ठद्भ्रातुरग्रतः

तु रामस्य वचनं निशम्य प्रतिगृह्य

स्थपतिस्तूर्णमाहूय सचिवानिदमब्रवीत्

अस्य वाहनसंयुक्तां कर्णग्राहवतीं शुभाम्

सुप्रतारां दृढां तीर्थे शीघ्रं नावमुपाहर

तं निशम्य गुहादेशं गुहामात्यगणो महान्

उपोह्य रुचिरां नावं गुहाय प्रत्यवेदयत्

ततः प्राञ्जलिर्भूत्वा गुहो राघवमब्रवीत्

उपस्थितेयं नौर्देव भूयः किं करवाणि ते

तवामरसुतप्रख्य तर्तुं सागरगां नदीम्

नौरियं पुरुषव्याघ्र तां त्वमारोह सुव्रत

अथोवाच महातेजा रामो गुहमिदं वचः

कृतकामोऽस्मि भवता शीघ्रमारोप्यतामिति

ततः कलापान् सन्नह्य खड्गौ बद्ध्वा धन्विनौ

जग्मतुर्येन तौ गङ्गां सीतया सह राघवौ

राममेवं तु धर्मज्ञमुपगम्य विनीतवत्

किमहं करवाणीति सूतः प्राञ्जलिरब्रवीत्

ततोऽब्रवीद्दाशरथिः सुमन्त्रं स्पृशन् करेणोत्तम दक्षिणेन

सुमन्त्र शीघ्रं पुनरेव याहि राज्ञः सकाशे भव चाप्रमत्तः

निवर्त्तस्वेत्युवाचैनमेतावद्धि कृतं मम

रथं विहाय पद्भ्यां तु गमिष्यामो महावनम्

आत्मानं त्वभ्यनुज्ञातमवेक्ष्यार्तः सारथिः

सुमन्त्रः पुरुषव्याघ्रमैक्ष्वाकमिदमब्रवीत्

नातिक्रान्तमिदं लोके पुरुषेणेह केनचित्

तव सभ्रातृभार्यस्य वासः प्राकृतवद्वने

मन्ये ब्रह्मचर्येऽस्ति स्वधीते वा फलोदयः

मार्द्दवार्जवयोर्वापि त्वां चेद्व्यसनमागतम्

सह राघववैदेह्या भ्रात्रा चैव वने वसन्

त्वं गतिं प्राप्स्यसे वीर त्रील्लोँकांस्तु जयन्निव

वयं खलु हता राम ये त्वयाप्युपवञ्चिताः

कैकेय्या वशमेष्यामः पापाया दुःखभागिनः

इति ब्रुवन्नात्मसमं सुमन्त्रः सारथिस्तदा

दृष्ट्वा दूरगतं रामं दुःखार्त्तो रुरुदे चिरम्

ततस्तु विगते बाष्पे सूतं स्पृष्टोदकं शुचिम्

रामस्तु मधुरं वाक्यं पुनःपुनरुवाच तम्

इक्ष्वाकूणां त्वया तुल्यं सुहृदं नोपलक्षये

यथा दशरथो राजा मां शोचेत्तथा कुरु

शोकोपहतचेताश्च वृद्धश्च जगतीपतिः

कामभारावसन्नश्च तस्मादेतद्ब्रवीमि ते

यद्यदाज्ञापयेत्किञ्चित् महात्मा महीपतिः

कैकेय्याः प्रियकामार्थं कार्यं तदविकाङ्क्षया

एतदर्थं हि राज्यानि प्रशासति नरेश्वराः

यदेषां सर्वकृत्येषु मनो प्रतिहन्यते

यद्यथा महाराजो नालीकमधिगच्छति

ताम्यति दुःखेन सुमन्त्र कुरु तत्तथा

अदृष्टदुःखं राजानं वृद्धमार्यं जितेन्द्रियम्

ब्रूयास्त्वमभिवाद्यैव मम हेतोरिदं वचः

नैवाहमनुशोचामि लक्ष्मणो मैथिली

अयोध्यायाश्च्युताश्चेति वने वत्स्यामहेति

चतुर्दशसु वर्षेषु निवृत्तेषु पुनःपुनः

लक्ष्मणं मां सीतां द्रक्ष्यसि क्षिप्रमागतान्

एवमुक्त्वा तु राजानं मातरं सुमन्त्र मे

अन्याश्च देवीः सहिताः कैकेयीं पुनःपुनः

आरोग्यं ब्रूहि कौसल्यामथ पादाभिवन्दनम्

सीताया मम चार्यस्य वचनाल्लक्ष्मणस्य

ब्रूयाश्च हि महाराजं भरतं क्षिप्रमानय

आगतश्चापि भरतः स्थाप्यो नृपमते पदे

भरतं परिष्वज्य यौवराज्येऽभिषिच्य

अस्मत्सन्तापजं दुःखं त्वामभिभविष्यति

भरतश्चापि वक्तव्यो यथा राजनि वर्त्तसे

तथा मातृषु वर्तेथाः सर्वास्वेवाविशेषतः

यथा तव कैकेयी सुमित्रा विशेषतः

तथैव देवी कौसल्या मम माता विशेषतः

तातस्य प्रियकामेन यौवराज्यमवेक्षता

लोकयोरुभयोः शक्यं नित्यदा सुखमेधितुम्

निवर्त्यमानो रामेण सुमन्त्रः शोककर्शितः

तत्सर्वं वचनं श्रुत्वा स्नेहात् काकुत्स्थमब्रवीत्

यदहं नोपचारेण ब्रूयां स्नेहादविक्लवः

भक्तिमानिति तत्तावद्वाक्यं त्वं क्षन्तुमर्हसि

कथं हि त्वद्विहीनोऽहं प्रतियास्यामि तां पुरीम्

तव तावद्वियोगेन पुत्रशोकाकुलामिव

सराममपि तावन्मे रथं दृष्ट्वा तदा जनः

विना रामं रथं दृष्ट्वा विदीर्य्येतापि सा पुरी

दैन्यं हि नगरी गच्छेद्दृष्ट्वा शून्यमिमं रथम्

सूतावशेषं स्वं सैन्यं हतवीरमिवाहवे

दूरेपि निवसन्तं त्वां मानसेनाग्रतः स्थितम्

चिन्तयन्त्योऽद्य नूनं त्वां निराहाराः कृताः प्रजाः

दृष्टं तद्धि त्वया राम यादृशं त्वत्प्रवासने

प्रजानां सङ्कुलं वृत्तं त्वच्छोकक्लान्तचेतसाम्

आर्तनादो हि यः पौरैर्मुक्तस्त्वद्विप्रवासने

सरथं मां निशाम्यैव कुर्युः शतगुणं ततः

अहं किं चापि वक्ष्यामि देवीं तव सुतो मया

नीतोऽसौ मातुलकुलं सन्तापं मा कृथा इति

असत्यमपि नैवाहं ब्रूयां वचनमीदृशम्

कथमप्रियमेवाहं ब्रूयां सत्यमिदं वचः

मम तावन्नियोगस्थास्त्वद्बन्धुजनवाहिनः

कथं रथं त्वया हीनं प्रवक्ष्यन्ति हयोत्तमाः

तन्न शक्ष्याम्यहं गन्तुमयोध्यां त्वदृतेऽनघ

वनवासानुयानाय मामनुज्ञातुमर्हसि

यदि मे याचमानस्य त्यागमेव करिष्यसि

सरथोऽग्निं प्रवेक्ष्यामि त्यक्तमात्र इह त्वया

भविष्यन्ति वने यानि तपोविघ्नकराणि ते

रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव

त्वत्कृतेन मयावाप्तं रथचर्याकृतं सुखम्

आशंसे त्वत्कृतेनाहं वनवासकृतं सुखम्

प्रसीदेच्छामि तेऽरण्ये भवितुं प्रत्यनन्तरः

प्रीत्याभिहितमिच्छामि भव मे प्रत्यनन्तरः

इमे चापि हया वीर यदि ते वनवासिनः

परिचर्यां करिष्यन्ति प्राप्स्यन्ति परमां गतिम्

तव शुश्रूषणं मूर्ध्ना करिष्यामि वने वसन्

अयोध्यां देवलोकं वा सर्वथा प्रजहाम्यहम्

हि शक्या प्रवेष्टुं सा मयायोध्या त्वया विना

राजधानी महेन्द्रस्य यथा दुष्कृतकर्मणा

वनवासे क्षयं प्राप्ते ममैष हि मनोरथः

यदनेन रथेनैव त्वां वहेयं पुरीं पुनः

चतुर्दश हि वर्षाणि सहितस्य त्वया वने

क्षणभूतानि यास्यन्ति शतसङ्ख्याऽन्यतोऽन्यथा

भृत्यवत्सल तिष्ठन्तं भर्त्तृपुत्रगते पथि

भक्तं भृत्यं स्थितं स्थित्यां त्वं मां हातुमर्हसि

एवं बहुविधं दीनं याचमानं पुनःपुनः

रामो भृत्यानुकम्पी तु सुमन्त्रमिदमब्रवीत्

जानामि परमां भक्तिं मयि ते भर्तृवत्सल

शृणु चापि यदर्थं त्वां प्रेषयामि पुरीमितः

नगरीं त्वां गतं दृष्ट्वा जननी मे यवीयसी कैकेयी प्रत्ययं गच्छेदिति रामो वनं गतः

परितुष्टा हि सा देवी वनवासं गते मयि

राजानं नातिशङ्केत मिथ्यावादीति धार्मिकम्

एष मे प्रथमः कल्पो यदम्बा मे यवीयसी

भरतारक्षितं स्फीतं पुत्रराज्यमवाप्नुयात्

मम प्रियार्थं राज्ञश्च सरथस्त्वं पुरीं व्रज

सन्दिष्टश्चासि यानर्थांस्तांस्तान् ब्रूयास्तथातथा

इत्युक्त्वा वचनं सूतं सान्त्वयित्वा पुनःपुनः

गुहं वचनमक्लीबो रामो हेतुमदब्रवीत्

नेदानीं गुह योग्योऽयं वासो मे सजने वने

अवश्यं ह्याश्रमे वासः कर्त्तव्यस्तद्गतो विधिः

हितकामः पितुर्भूयः सीताया लक्ष्मणस्य

जटाः कृत्वा गमिष्यामि न्यग्रोधक्षीरमानय

तत्क्षीरं राजपुत्राय गुहः क्षिप्रमुपाहरत्

लक्ष्मणस्यात्मनश्चैव रामस्तेनाकरोज्जटाः

दीर्घबाहुर्नरव्याघ्रो जटिलत्वमधारयत्

तौ तदा चीरवसनौ जटामण्डलधारिणौ

अशोभेतामृषिसमौ भ्रातरौ रामलक्ष्मणौ

ततो वैखानसं मार्गमास्थितः सहलक्ष्मणः

व्रतमादिष्टवान् रामः सहायं गुहमब्रवीत्

अप्रमत्तो बले कोशे दुर्गे जनपदे तथा

भवेथा गुह राज्यं हि दुरारक्षतमं मतम्

ततस्तं समनुज्ञाय गुहमिक्ष्वाकुनन्दनः

जगाम तूर्णमव्यग्रः सभार्यः सहलक्ष्मणः

तु दृष्ट्वा नदीतीरे नावमिक्ष्वाकुनन्दनः

तितीर्षुः शीघ्रगां गङ्गामिदं लक्ष्मणमब्रवीत्

आरोहं त्वं नरव्याघ्र स्थितां नावमिमां शनैः

सीतां चारोपयान्वक्षं परिगृह्य मनस्विनीम्

भ्रातुः शासनं श्रुत्वा सर्वमप्रतिकूलयन्

आरोप्य मैथिलीं पूर्वमारुरोहात्मवांस्ततः

अथारुरोह तेजस्वी स्वयं लक्ष्मणपूर्वजः

ततो निषादाधिपतिर्गुहो ज्ञातीनचोदयत्

राघवोऽपि महातेजा नावमारुह्य तां ततः

ब्रह्मवत् क्षत्त्रवच्चैव जजाप हितमात्मनः

आचम्य यथाशास्त्रं नदीं तां सह सीतया

प्राणमत् प्रीतिसंहृष्टो लक्ष्मणश्चामितप्रभः

अनुज्ञाय सुमन्त्रं सबलं चैवं तं गुहम्

आस्थाय नावं रामस्तु चोदयामास नाविकान्

ततस्तैश्चोदिता सा नौः कर्णधारसमाहिता

शुभस्फ्यवेगाभिहता शीघ्रं सलिलमत्यगात्

मध्यं तु समनुप्राप्य भागीरथ्यास्त्वनिन्दिता

वैदेही प्राञ्जलिर्भूत्वा तां नदीमिदमब्रवीत्

पुत्रो दशरथस्यायं महाराजस्य धीमतः

निदेशं पारयित्वेमं गङ्ग त्वदभिरक्षितः

चतुर्दश हि वर्षाणि समग्राण्युष्यकानने

भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति

ततस्त्वां देवि सुभगे क्षेमेण पुनरागता

यक्ष्ये प्रमुदिता गङ्गे सर्वकामसमृद्धिनी

त्वं हि त्रिपथगा देवि ब्रह्मलोकं समीक्षसे

भार्या चोदधिराजस्य लोकेऽस्मिन् संप्रदृश्यसे

सा त्वां देवि नमस्यामि प्रशंसामि शोभने

प्राप्तराज्ये नरव्याघ्रे शिवेन पुनरागते

गवां शतशहस्रं वस्त्राण्यन्नं पेशलम्

ब्राह्मणेभ्यः प्रदास्यामि तव प्रियचिकीर्षया

सुराघटसहस्रेण मांसभूतौदनेन

यक्ष्ये त्वां प्रयता देवि पुरीं पुनरुपागता

यानि त्वत्तीरवासीनि दैवतानि वसन्ति

तानि सर्वाणि यक्ष्यामि तीर्थान्यायतनानि

पुनरेव महाबाहुर्मया भ्रात्रा सङ्गतः

अयोध्यां वनवासात्तु प्रविशत्वनघोऽनघे

तथा सम्भाषमाणा सा सीता गङ्गामनिन्दिता

दक्षिणा दक्षिणं तीरं क्षिप्रमेवाभ्युपागमत्

तीरं तु समनुप्राप्य नावं हित्वा नरर्षभः

प्रातिष्ठत सह भ्रात्रा वैदेह्या परन्तपः

अथाब्रवीन्महाबाहुः सुमित्रानन्दवर्द्धनम्

भव संरक्षणार्थाय सजने विजनेऽपि वा

अवश्यं रक्षणं कार्यमदृष्टे विजने वने

अग्रतो गच्छ सौमित्रे सीता त्वामनुगच्छतु

पृष्ठतोऽहं गमिष्यामि त्वां सीतां पालयन्

अन्योन्यस्येह नो रक्षा कर्त्तव्या पुरुषर्षभ

हि तावदतिक्रान्ता सुकरा काचन क्रिया

अद्य दुःखं तु वैदेही वनवासस्य वेत्स्यति

प्रनष्ट जनसम्बाधं क्षेत्रारामविवर्जितम्

विषमं प्रपातं वनं ह्यद्य प्रवेक्ष्यति

श्रुत्वा रामस्य वचनं प्रतस्थे लक्ष्मणोऽग्रतः

अनन्तरं सीताया राघवो रघुनन्दनः

गतं तु गङ्गापरपारमाशु रामं सुमन्त्रः प्रततं निरीक्ष्य

अध्वप्रकर्षाद्विनिवृत्तदृष्टिर्मुमोच बाष्पं व्यथितस्तपस्वी

लोकपालप्रतिमप्रभाववांस्तीर्त्वा महात्मा वरदो महानदीम्

ततः समृद्धाञ्छुभसस्यमालिनः क्रमेण वत्सान् मुदितानुपागमत्

तौ तत्र हत्वा चतुरो महामृगान् वराहमृश्यं पृषतं महारुरुम्

आदाय मेध्यं त्वरितं बुभुक्षितौ वासाय काले ययतुर्वनस्पतिम्