Kanda 2 AYK-051-Guha Lakshmana Samvadhaha

तं जाग्रतमदम्भेन भ्रातुरर्थाय लक्ष्मणम्

गुहः सन्तापसन्तप्तो राघवं वाक्यमब्रवीत्

इयं तात सुखा शय्या त्वदर्थमुपकल्पिता

प्रत्याश्वसिहि साध्वस्यां राजपुत्र यथासुखम्

उचितोऽयं जनः सर्वः क्लेशानां त्वं सुखोचितः

गुप्त्यर्थं जागरिष्यामः काकुत्स्थस्य वयं निशाम्

हि रामात्प्रियतरो ममास्ति भुवि कश्चन

ब्रवीम्येतदहं सत्यं सत्येनैव ते शपे

अस्य प्रसादादाशंसे लोकेऽस्मिन् सुमहद्यशः

धर्मावाप्तिं विपुलामर्थावाप्तिं केवलाम्

सोऽहं प्रियतमं रामं शयानं सह सीतया

रक्षिष्यामि धनुष्पाणिः सर्वतो ज्ञातिभिः सह

हि मेऽविदितं किञ्चिद्वनेस्मिंश्चरतः सदा

चतुरङ्गं ह्यपि बलं सुमहत् प्रसहेमहि

लक्ष्मणस्तं तदोवाच रक्ष्यमाणास्त्वयानघ

नात्र भीता वयं सर्वे धर्ममेवानुपश्यता

कथं दाशरथौ भूमौ शयाने सहसीतया

शक्य निद्रा मया लब्धुं जीवितं वा सुखानि वा

यो देवासुरैः सर्वैः शक्यः प्रसहितुं युधि

तं पश्य सुखसंविष्टं तृणेषु सह सीतया

यो मन्त्रतपसा लब्धो विविधैश्च परिश्रमैः

एको दशरथस्येष्टः पुत्रः सदृशलक्षणः

अस्मिन् प्रव्राजिते राजा चिरं वर्तयिष्यति

विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति

विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः

निर्घोषोपरतं चातो मन्ये राजनिवेशनम्

कौसल्या चैव राजा तथैव जननी मम

नाशंसे यदि जीवन्ति सर्वे ते शर्वरीमिमाम्

जीवेदपि हि मे माता शत्रुघ्नस्यान्ववेक्षया

तद्दुःखं यत्तु कौसल्या वीरसूर्विनशिष्यति

अनुरक्तजनाकीर्णा सुखा लोकप्रियावहा

राजव्यसनसंसृष्टा सा पुरी विनशिष्यति

कथं पुत्रं महात्मानं ज्येष्ठं प्रियमपश्यतः

शरीरं धारयिष्यन्ति प्राणा राज्ञो महात्मनः

विनष्टे नृपतौ पश्चात्कौसल्या विनशिष्यति

अनन्तरं मातापि मम नाशमुपैष्यति

अतिक्रान्तमतिक्रान्तमनवाप्य मनोरथम्

राज्ये राममनिक्षिप्य पिता मे विनशिष्यति

सिद्धार्थाः पितरं वृत्तं तस्मिन् कालेप्युपस्थिते

प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम्

राम्यचत्वरसंस्थानां सुविभक्तमहापथाम्

हर्म्यप्रासादसम्पन्नां गणिकावरशोभिताम्

रथाश्वगजसम्बाधां तूर्यनादविनादिताम्

सर्वकल्याणसम्पूर्णां हृष्टपुष्टजनाकुलाम्

आरामोद्यानसम्पन्नां समाजोत्सवशालिनीम्

सुखिता विचरिष्यन्ति राजधानीं पितुर्मम

अपि जीवेद्दशरथो वनवासात् पुनर्वयम्

प्रत्यागम्य महात्मानमपि पश्येम सुव्रतम्

अपि सत्यप्रतिज्ञेन सार्द्धं कुशलिना वयम्

निवृत्तवनवासेऽस्मिन्नयोध्यां प्रविशेमहि

परिदेवयमानस्य दुःखार्त्तस्य महात्मनः

तिष्ठतो राजपुत्रस्य शर्वरी सात्यवर्तत

तथा हि सत्यं ब्रुवति प्रजाहिते नरेन्द्रपुत्रे गुरुसौहृदाद् गुहः

मुमोच बाष्पं व्यसनाभिपीडितो ज्वरातुरो नाग इव व्यथातुरः